एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः
evamukto mataṅgastu saṃśitātmā yatavrataḥ |
atiṣṭhadekapādena varṣāṇāṃ śatamacyutaḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥ । ॥
16 श्लोक · 4 में से 274
मतंग सौ वर्ष तक एक पैर पर खड़ा रहता है। इन्द्र फिर आकर कहते हैं कि जो अप्राप्य है उसे माँगते हुए वह नष्ट हो जाएगा। फिर वे जन्मों की धीमी चढ़ाई बताते हैं। पशु योनि से मनुष्य बनने वाला जीव पहले पुल्कस या चाण्डाल होकर वहीं लम्बे समय तक भटकता है। सहस्रगुण काल के बाद वह शूद्र, तीसगुण के बाद वैश्य, साठगुण के बाद क्षत्रिय, और फिर लम्बे कालों के बाद ब्रह्मबन्धु, काण्डपृष्ठ, जपकर्ता और अन्त में वेदपाठी श्रोत्रिय बनता है। तब भी शोक और हर्ष, काम और द्वेष, अभिमान और कटु वचन उस ब्राह्मण में प्रवेश करते हैं; इन शत्रुओं को जीते तो सद्गति पाता है, नहीं तो पके ताड़फल की तरह गिर पड़ता है। इन्द्र मतंग से दूसरा वर माँगने को कहते हैं।
भीष्म उवाच
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः
evamukto mataṅgastu saṃśitātmā yatavrataḥ |
atiṣṭhadekapādena varṣāṇāṃ śatamacyutaḥ
तमुवाच ततः शक्रः पुनरेव महायशाः ।
ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे
tamuvāca tataḥ śakraḥ punareva mahāyaśāḥ |
brāhmaṇyaṃ durlabhaṃ tāta prārthayāno na lapsyase
मतङ्ग परमं स्थानं प्रार्थयन्विनशिष्यसि ।
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव
mataṅga paramaṃ sthānaṃ prārthayanvinaśiṣyasi |
mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava
विमार्गतो मार्गमाणः सर्वथा नभविष्यसि ।
न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते ।
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि
vimārgato mārgamāṇaḥ sarvathā nabhaviṣyasi |
na hi śakyaṃ tvayā prāptuṃ brāhmaṇyamiha durmate |
aprāpyaṃ prārthayāno hi nacirādvinaśiṣyasi
मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया ।
चिकीर्षस्येव तपसा सर्वथा नभविष्यसि
mataṅga paramaṃ sthānaṃ vāryamāṇo'sakṛnmayā |
cikīrṣasyeva tapasā sarvathā nabhaviṣyasi
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति ।
स जायते पुल्कसो वा चण्डालो वाऽप्यसंशयः
tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati |
sa jāyate pulkaso vā caṇḍālo vā'pyasaṃśayaḥ
पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।
स तस्यामेव सुचिरं मतङ्ग परिवर्तते
pulkasaḥ pāpayonirvā yaḥ kaścidiha lakṣyate |
sa tasyāmeva suciraṃ mataṅga parivartate
ततो दशशते काले लभते शूद्रतामपि ।
शूद्रयोनावपि ततो बहुशः परिवर्तते
tato daśaśate kāle labhate śūdratāmapi |
śūdrayonāvapi tato bahuśaḥ parivartate
ततस्त्रिंशद्गणे काले लभते वैश्यतामपि ।
वैश्यतायां चिरं कालं तत्रैव परिवर्तते ।
ततः षष्टिगुणे काले राजन्यो नाम जायते
tatastriṃśadgaṇe kāle labhate vaiśyatāmapi |
vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate |
tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् ।
ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते
tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām |
brahmabandhuściraṃ kālaṃ tatastu parivartate
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते
tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām |
kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate
ततस्तु त्रिशते काले लभते जपतामपि ।
तं च प्राप्य चिरं कालं तत्रैव परिवर्तते
tatastu triśate kāle labhate japatāmapi |
taṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate
ततश्चतुःशते काले श्रोत्रियो नाम जायते ।
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते
tataścatuḥśate kāle śrotriyo nāma jāyate |
śrotriyatve ciraṃ kālaṃ tatraiva parivartate
तदेवं शोकहर्षौ तु कामद्वेषौ च पुत्रक ।
अतिमानातिवादौ च प्रविशेते द्विजाधमम्
tadevaṃ śokaharṣau tu kāmadveṣau ca putraka |
atimānātivādau ca praviśete dvijādhamam
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् ।
अथ ते वै जयन्त्येनं तालं पक्वमिवापतेत्
tāṃścejjayati śatrūnsa tadā prāpnoti sadgatim |
atha te vai jayantyenaṃ tālaṃ pakvamivāpatet
मतङ्ग सम्प्रधार्यैवं यदहं त्वामचूचुदम् ।
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम्
mataṅga sampradhāryaivaṃ yadahaṃ tvāmacūcudam |
vṛṇīṣva kāmamanyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)