प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः
prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān |
guṇaiśca vividhaiḥ sarvairvayasā ca samanvitaḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि तृतीयोऽध्यायः ॥
30 श्लोक · 3 में से 274
युधिष्ठिर पूछते हैं कि क्षत्रिय, वैश्य या शूद्र ब्राह्मणत्व कैसे पाए। भीष्म कहते हैं कि यह अनेक जन्मों के बाद मिलने वाला सबसे दुर्लभ पद है, और मतंग की कथा सुनाते हैं। ब्राह्मण के पुत्र रूप में पला मतंग यज्ञ-सामग्री लाने गधे के बच्चे से जुते रथ में जाता है और उसकी नाक में बार-बार अंकुश चुभाता है। गधी अपने बच्चे से कहती है कि ब्राह्मण क्रूर नहीं होता, यह चाण्डाल है। पूछने पर वह बताती है कि मतंग ब्राह्मणी माता और शूद्र नाई से जन्मा है। मतंग वन जाकर कठोर तप करता है। इन्द्र वर देने आते हैं; मतंग ब्राह्मणत्व माँगता है, और इन्द्र कहते हैं कि चाण्डाल योनि में जन्मे को यह नहीं मिल सकता।
युधिष्ठिर उवाच
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः
prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān |
guṇaiśca vividhaiḥ sarvairvayasā ca samanvitaḥ
भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा ।
सर्वेषामेव जातानां सतामेतन्न संशयः
bhavānviśiṣṭo buddhyā ca prajñayā tapasā tathā |
sarveṣāmeva jātānāṃ satāmetanna saṃśayaḥ
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतांवर ।
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योस्ति नराधिप
tasmādbhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃvara |
nānyastvadanyo lokeṣu praṣṭavyosti narādhipa
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि
kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama |
brāhmaṇyaṃ prāpnuyādyena tanme vyākhyātumarhasi
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप ।
तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह
brāhmaṇyaṃ yadi duṣprāpaṃ tribhirvarṇairnarādhipa |
tapasā vā sumahatā karmaṇā vā śrutena vā |
brāhmaṇyamatha cedicchetkathaṃ śakyaṃ pitāmaha
भीष्म उवाच
ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः ।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर
brāhmaṇyamatiduṣprāpyaṃ varṇaiḥ kṣatrādibhistribhiḥ |
paraṃ hi sarvabhūtānāṃ sthānametadyudhiṣṭhira
बह्विस्तु संसरन्योनीर्जायमानः पुनःपनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते
bahvistu saṃsaranyonīrjāyamānaḥ punaḥpanaḥ |
paryāye tāta kasmiṃścidbrāhmaṇo nāma jāyate
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर
atrāpyudāharantīmamitihāsaṃ purātanam |
mataṅgasya ca saṃvādaṃ gardabhyāśca yudhiṣṭhira
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत् ।
मतङ्गो नाम नाम्नाऽऽसीत्सर्वैः समुदितो गुणैः
dvijāteḥ kasyacittāta tulyavarṇaḥ sutastvabhūt |
mataṅgo nāma nāmnā''sītsarvaiḥ samudito guṇaiḥ
स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परंतप ।
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना
sa yajñakāraḥ kaunteya pitrotsṛṣṭaḥ paraṃtapa |
prāyādgardabhayuktena rathenāpyāśugāminā
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।
निरविध्यत्प्रतोदेन नासिकायां पुनःपुनः
sa bālaṃ gardabhaṃ rājanvahantaṃ māturantike |
niravidhyatpratodena nāsikāyāṃ punaḥpunaḥ
तं दृश्य नसि निर्भिन्नं गर्दभी पुत्रगृद्धिनी ।
उवाच मा शुचः पुत्र चण्डालस्त्वाभिविध्यति
taṃ dṛśya nasi nirbhinnaṃ gardabhī putragṛddhinī |
uvāca mā śucaḥ putra caṇḍālastvābhividhyati
ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते ।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति
brāhmaṇo dāruṇo nāsti maitro brāhmaṇa ucyate |
ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।
स्वयोनिं मानयत्येष भावो भावं नियच्छति
ayaṃ tu pāpaprakṛtirbāle na kurute dayām |
svayoniṃ mānayatyeṣa bhāvo bhāvaṃ niyacchati
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत
etacchrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ |
avatīrya rathāttūrṇaṃ rāsabhīṃ pratyabhāṣata
ब्रूहि रासभि कल्याणि माता मे येन दूषिता ।
केन मां वेत्सि चण्डालं ब्राह्मण्यं केन मेऽनशत् ।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः
brūhi rāsabhi kalyāṇi mātā me yena dūṣitā |
kena māṃ vetsi caṇḍālaṃ brāhmaṇyaṃ kena me'naśat |
tattvenaitanmahāprājñe brūhi sarvamaśeṣataḥ
गर्दभ्युवाच
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत्
brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha |
jātastvamasi caṇḍālo brāhmaṇyaṃ tena te'naśat
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः ।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत्
evamukto mataṅgastu pratiprāyādgṛhaṃ punaḥ |
tamāgatamabhiprekṣya pitā vākyamathābravīt
यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि ।
कस्मात्प्रतिनिवृत्तोसि कच्चिन्न कुशलं तव
yastvaṃ yajñārthasaṃsiddhau niyukto gurukarmaṇi |
kasmātpratinivṛttosi kaccinna kuśalaṃ tava
मतङ्ग उवाच
अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत् ।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः
antyayonirayonirvā kathaṃ sa kuśalī bhavet |
kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ
ब्राह्मण्यां वृषलाञ्जातं पितर्वेदयते हि माम् ।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत्
brāhmaṇyāṃ vṛṣalāñjātaṃ pitarvedayate hi mām |
amānuṣī gardabhīyaṃ tasmāttapsye tapo mahat
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।
ततो गत्वा महारण्यमतपत्सुमहत्तपः
evamuktvā sa pitaraṃ pratasthe kṛtaniścayaḥ |
tato gatvā mahāraṇyamatapatsumahattapaḥ
ततः स तापयामास विबुधांस्तपसाऽन्वितः ।
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि
tataḥ sa tāpayāmāsa vibudhāṃstapasā'nvitaḥ |
mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritādapi
तं तथा तपसा युक्तमुवाच हरिवाहनः ।
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान्
taṃ tathā tapasā yuktamuvāca harivāhanaḥ |
mataṅga tapsyase kiṃ tvaṃ bhogānutsṛjya mānuṣān
वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि ।
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि मा चिरम्
varaṃ dadāmi te hanta vṛṇīṣva tvaṃ yadicchasi |
yaccāpyavāpyaṃ hṛdi te sarvaṃ tadbrūhi mā ciram
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।
गच्छेयं तदवाप्येह वर एष वृतो मया
brāhmaṇyaṃ kāmayāno'hamidamārabdhavāṃstapaḥ |
gaccheyaṃ tadavāpyeha vara eṣa vṛto mayā
भीष्म उवाच
एतच्छ्रुत्वा तु वचनं तमुवाच पुरदरः ।
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया
etacchrutvā tu vacanaṃ tamuvāca puradaraḥ |
mataṅga durlabhamidaṃ vipratvaṃ prārthyate tvayā
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ।
विनशिष्यसि दुर्बुद्धे तदुपारम मा चिरम्
brāhmaṇyaṃ prārthayānastvamaprāpyamakṛtātmabhiḥ |
vinaśiṣyasi durbuddhe tadupārama mā ciram
श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते ।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि
śreṣṭhaṃ yatsarvabhūteṣu tapo yadativartate |
tadagryaṃ prārthayānastvamacirādvinaśiṣyasi
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन
devatāsuramartyeṣu yatpavitraṃ paraṃ smṛtam |
caṇḍālayonau jātena na tatprāpyaṃ kathañcana
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)