युधिष्ठिर महाबाहो शृणु राजन्यथातथम् ।
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम्
yudhiṣṭhira mahābāho śṛṇu rājanyathātatham |
garuḍaṃ pakṣiṇāṃ śreṣṭhaṃ vainateyaṃ mahābalam
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशोऽध्यायः ॥
22 श्लोक · 20 में से 274
भीष्म कहते हैं कि यह कथा उन्होंने कैलास पर परशुराम से सुनी थी। प्रजापति की पुत्रियाँ कद्रू और विनता कश्यप की पत्नियाँ हैं, जो दोनों को वर देते हैं। कद्रू सहस्र बलवान पुत्र माँगती हैं; विनता दो पुत्र माँगती हैं, जो वेग और पराक्रम में उन सहस्र के बराबर हों। कद्रू सहस्र अण्डे देती हैं और विनता दो, जिन्हें गर्म पात्रों में रखा जाता है। पाँच सौ वर्ष बाद सर्प निकल आते हैं। अपने पुत्रों के लिए अधीर विनता एक अण्डा फोड़ देती हैं, और उसमें से ऐसा पुत्र निकलता है जिसका केवल ऊपरी शरीर बना है। रोते हुए वह कहता है कि ईर्ष्या और उतावली से उसे ऐसा बनाने के कारण वे पाँच सौ वर्ष अपनी सौत की दासी रहेंगी; उसका छोटा भाई उन्हें छुड़ाएगा।
भीष्म उवाच
युधिष्ठिर महाबाहो शृणु राजन्यथातथम् ।
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम्
yudhiṣṭhira mahābāho śṛṇu rājanyathātatham |
garuḍaṃ pakṣiṇāṃ śreṣṭhaṃ vainateyaṃ mahābalam
तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत् ।
यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु
tathā ca garuḍo rājansuparṇaśca yathā'bhavat |
yathā ca bhujagānhanti tathā me bruvataḥ śṛṇu
पुराऽहं तात रामेणि जामदग्न्येन धीमता ।
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः
purā'haṃ tāta rāmeṇi jāmadagnyena dhīmatā |
kailāsaśikhare ramye mṛgānnighnansahasraśaḥ
तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः ।
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान्
tamahaṃ tāta dṛṣṭaiva śastraṇyutsṛjya sarvaśaḥ |
abhivādya pūrvaṃ rāmāya vinayenopatasthivān
तमहं कथान्ते वरदं सुपर्णस्य बलौजसी ।
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर
tamahaṃ kathānte varadaṃ suparṇasya balaujasī |
apṛcchaṃ sa ca māṃ prītaḥ pratyuvāca yudhiṣṭhira
कद्रूश्च विनता चास्तां प्रजापतिसुते उभे ।
ते तु धर्मेणोपयेमे मारीचः कश्यपः प्रभुः
kadrūśca vinatā cāstāṃ prajāpatisute ubhe |
te tu dharmeṇopayeme mārīcaḥ kaśyapaḥ prabhuḥ
प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः
prādāttābhyāṃ varaṃ prīto bhāryābhyāṃ sumahātapāḥ
तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम् ।
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम्
tatra kadrūrvaraṃ vavre putrāṇāṃ daśataḥ śatam |
tulyatejaḥprabhāvānāṃ sarveṣāṃ tulyajanmanām
विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम ।
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ
vinatā tu vavre dvau putrau vīrau bharatasattama |
kadrūputrasahasreṇa tulyavegaparākramau
स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः ।
जनयामास तान्पुत्रां स्ताभ्यामासीद्यथा पुरा
sa tu tābhyāṃ varaṃ prādāttathetyuktvā mahātapāḥ |
janayāmāsa tānputrāṃ stābhyāmāsīdyathā purā
कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतःशतम् ।
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे
kadrūḥ prajajñe hyaṇḍānāṃ tathaiva daśataḥśatam |
aṇḍe dve vinatā caiva darśanīyatare śubhe
तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः ।
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः
tāni tvaṇḍāni tu tayoḥ kadrūvinatayordvayoḥ |
sopasvedeṣu pātreṣu nidadhuḥ paricāriṇaḥ
निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः ।
पञ्चवर्षशते काले दृष्ट्वाऽमोघबलौजसः
nissaranti tadā'ṇḍebhyaḥ kadrūputrā bhujaṅgamāḥ |
pañcavarṣaśate kāle dṛṣṭvā'moghabalaujasaḥ
विनता तेषु जातेषु पन्नगेषु महात्मसु ।
विपुत्रा पुत्रसंतापाद्दण्डमेकं बिभेद ह
vinatā teṣu jāteṣu pannageṣu mahātmasu |
viputrā putrasaṃtāpāddaṇḍamekaṃ bibheda ha
किमनेन करिष्येऽहमिति वाक्यमभाषत ।
नहि पञ्चशते काले पुरा पुत्रौ ददर्श सा
kimanena kariṣye'hamiti vākyamabhāṣata |
nahi pañcaśate kāle purā putrau dadarśa sā
सापश्यदण्डान्निष्क्रान्तं विनापत्रं मनस्विनम् ।
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह
sāpaśyadaṇḍānniṣkrāntaṃ vināpatraṃ manasvinam |
pūrvakāyopasampannaṃ viyuktamitareṇa ha
दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम् ।
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः
dṛṣṭvā tu taṃ tathārūpamasamagraśarīriṇam |
putraduḥkhānvitā'śocatsa ca pakṣī tathā gataḥ
अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा ।
मातरं च पलाशी ह हतोऽहमिति चासकृत्
abravīcca mudā yuktaḥ paryaśrunayanastadā |
mātaraṃ ca palāśī ha hato'hamiti cāsakṛt
न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा ।
आवां भवाय पुत्रौ ते श्वसनाद्बलवत्तरौ
na tvayā kāṅkṣitaḥ kālo yāvānevātyagātpurā |
āvāṃ bhavāya putrau te śvasanādbalavattarau
ईर्ष्याक्रोधाभिभूतत्वाद्योहमेवं कृतस्त्वया ।
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि
īrṣyākrodhābhibhūtatvādyohamevaṃ kṛtastvayā |
tasmāttvamapi me mātardāsībhāvaṃ gamiṣyasi
पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह ।
दासी तस्या भवित्रीति साश्रुपातमुवाच ह
pañcavarṣaśatāni tvaṃ spardhase vai yayā saha |
dāsī tasyā bhavitrīti sāśrupātamuvāca ha
एष चैव महाभागे बली बलवतांवरः ।
मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः
eṣa caiva mahābhāge balī balavatāṃvaraḥ |
mokṣayiṣyati te mātardāsībhāvānmamānujaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)