उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः ।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह
uktāstu bhavatā bhojyāstathā'bhojyāśca sarvaśaḥ |
atra me praśnasandehastanme vada pitāmaha
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनद्विशततमोध्यायः ॥
25 श्लोक · 199 में से 274
युधिष्ठिर पूछते हैं कि अनेक प्रकार के दान और अन्न ग्रहण करने के बाद ब्राह्मण कैसे शुद्ध होता है। भीष्म प्रायश्चित्त गिनाते हैं। घी या तिल लेने पर सावित्री मन्त्र के साथ समिधा की आहुति। मांस, मधु या नमक लेने पर सूर्योदय तक खड़े रहना। सोना लेने पर वेदपाठ और काला लोहा धारण करना। धान, फूल, फल, दही और दूध पर सौ बार सावित्री जप। श्राद्ध में मिले जूते और छाते पर सौ जप। भूमि लेने पर, या जन्म और मृत्यु के सूतक का अन्न खाने पर, तीन रात उपवास। कृष्णपक्ष के श्राद्ध में भोजन करने वाला ब्राह्मण एक दिन-रात में शुद्ध होता है। शूद्र, वैश्य या क्षत्रिय के साथ एक पात्र में खाने के अलग-अलग शोधन हैं: स्नान, तीन रात का व्रत या विधिवत शुद्धि।
[युधिष्ठिर उवाच
उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः ।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह
uktāstu bhavatā bhojyāstathā'bhojyāśca sarvaśaḥ |
atra me praśnasandehastanme vada pitāmaha
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे ।
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे
brāhmaṇānāṃ viśeṣeṇa havyakavyapratigrahe |
nānāvidheṣu bhojyeṣu prāyaścittāni śaṃsa me
भीष्म उवाच
हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम् ।
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः
hanta vakṣyāmi te rājanbrāhmaṇānāṃ mahātmanām |
pratigraheṣu bhojye ca mucyate yena pāpmanaḥ
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः ।
तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर
ghṛtapratigrahe caiva sāvitrī samidāhutiḥ |
tilapratigrahe caiva samametadyudhiṣṭhira
मांसप्रतिग्रहे चैव मधुनो लवणस्य च ।
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः
māṃsapratigrahe caiva madhuno lavaṇasya ca |
ādityodayanaṃ sthitvā pūto bhavati brāhmaṇaḥ
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् ।
कृष्णायसं च विवृतं धारयन्मुच्यते द्विजः
kāñcanaṃ pratigṛhyātha japamāno guruśrutim |
kṛṣṇāyasaṃ ca vivṛtaṃ dhārayanmucyate dvijaḥ
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम् ।
एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे ।
evaṃ pratigṛhīte'tha dhane vastre tathā striyām |
evameva naraśreṣṭha suvarṇasya pratigrahe |
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा ।
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम्
annapratigrahe caiva pāyasekṣurase tathā |
ikṣutailapavitrāṇāṃ trisandhye'psu nimajjanam
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा ।
यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम्
vrīhau puṣpe phale caiva jale piṣṭamaye tathā |
yāvake dadhidugdhe ca sāvitrīṃ śataśo'nvitām
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके ।
जपेच्छतं समायुक्तस्तेन मुच्यते पाप्मना
upānahau ca cchatraṃ ca pratigṛhyaurdhvadehike |
japecchataṃ samāyuktastena mucyate pāpmanā
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा ।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते
kṣetrapratigrahe caiva grahasūtakayostathā |
trīṇi rātrāṇyupoṣitvā tena pāpādvimucyate
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः ।
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः
kṛṣṇapakṣe tu yaḥ śrāddhaṃ pitṝṇāmaśnute dvijaḥ |
annametadahorātrātpūto bhavati brāhmaṇaḥ
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत् ।
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः
na ca sandhyāmupāsīta na ca jāpyaṃ pravartayet |
na saṅkirettadannaṃ ca tataḥ pūyeta brāhmaṇaḥ
इत्यर्थमपराङ्णे तु पितॄणां श्राद्धमुच्यते ।
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः
ityarthamaparāṅṇe tu pitṝṇāṃ śrāddhamucyate |
yathoktānāṃ yadaśnīyurbrāhmaṇāḥ pūrvaketitāḥ
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते ।
स त्रिवेलं समुन्मज्ज्य द्वादशाहेन शुध्यति
mṛtakasya tṛtīyāhe brāhmaṇo yo'nnamaśnute |
sa trivelaṃ samunmajjya dvādaśāhena śudhyati
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः ।
ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना
dvādaśāhe vyatīte tu kṛtaśauco viśeṣataḥ |
brāhmaṇebhyo havirdattvā mucyate tena pāpmanā
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् ।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम्
mṛtasya daśarātreṇa prāyaścittāni dāpayet |
sāvitrīṃ raivatīmiṣṭiṃ kūśmāṇḍamaghamarṣaṇam
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते ।
सप्तत्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः
mṛtakasya trirātre yaḥ samuddiṣṭe samaśnute |
saptatriṣavaṇaṃ snātvā pūto bhavati brāhmaṇaḥ
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात्
siddhimāpnoti vipulāmāpadaṃ caiva nāpnuyāt
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
अशौचं विधिवत्तस्य शौचमत्र विधीयते
yastu śūdraiḥ samaśnīyādbrāhmaṇo'pyekabhojane |
aśaucaṃ vidhivattasya śaucamatra vidhīyate
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा
yastu vaiśyaiḥ sahāśnīyādbrāhmaṇo'pyekabhojane |
sa vai trirātraṃ dīkṣitvā mucyate tena karmaṇā
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना
kṣatriyaiḥ saha yo'śnīyādbrāhmaṇo'pyekabhojane |
āplutaḥ saha vāsobhistena mucyeta pāpmanā
शूद्रास्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् ।
क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम्
śūdrāsya tu kulaṃ hanti vaiśyasya paśubāndhavān |
kṣatriyasya śriyaṃ hanti brāhmaṇasya suvarcasam
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते ।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ।
prāyaścittaṃ ca śāntiṃ ca juhuyāttena mucyate |
sāvitrīṃ raivatīmiṣṭiṃ kūśmāṇḍamaghamarṣaṇam |
तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः ।
रोचना विरजा रात्रिर्मङ्गलालम्भनानि च
tathocchiṣṭamathānyonyaṃ samprāśennātra saṃśayaḥ |
rocanā virajā rātrirmaṅgalālambhanāni ca
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)