अनुशासन पर्व

अध्याय 198: किस वर्ण का अन्न कौन ग्रहण करे

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥

21 श्लोक · 198 में से 274

इस अध्याय में क्या होता है

किस वर्ण का अन्न कौन ग्रहण करे

युधिष्ठिर पूछते हैं कि ब्राह्मण, क्षत्रिय, वैश्य और शूद्र किसका अन्न खा सकते हैं। भीष्म ग्रन्थ के नियमों से उत्तर देते हैं। ब्राह्मण नित्य अग्नि रखने वाले और चातुर्मास्य व्रत करने वाले ब्राह्मण, क्षत्रिय और वैश्य का अन्न ले सकता है, शूद्र का नहीं; उसे खाना पृथ्वी का मल खाना है। जो अपना कर्म छोड़कर दूसरे का कर्म करे, वह उसी के समान माना जाता है। भीष्म गिनाते हैं कि ब्राह्मण किसका अन्न न ले: वैद्य, कुलटा, कारीगर, विद्या बेचकर जीने वाला, चुगलखोर, नगररक्षक, तथा गोघाती, ब्रह्मघाती, सुरापायी और गुरुपत्नीगामी। तिरस्कार से दिया अन्न कभी न खाए। वे चेताते हैं कि ऐसा भोजन रोग, कुलनाश और नीच जन्म देता है।

युधिष्ठिर उवाच

198.1

के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह ।
तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत

ke bhojyā brāhmaṇasyeha ke bhojyāḥ kṣatriyasya ha |
tathā vaiśyasya ke bhojyāḥ ke śūdrasya ca bhārata

भीष्म उवाच

198.2

ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः ।
वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः

brāhmaṇā brāhmaṇasyeha bhojyā ye caiva kṣatriyāḥ |
vaiśyāścāpi tathā bhojyāḥ śūdrāśca parivarjitāḥ

198.3

ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह ।
वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः

brāhmaṇāḥ kṣatriyā vaiśyā bhojyā vai kṣatriyasya ha |
varjanīyāstu vai śūdrāḥ sarvabhakṣā vikarmiṇaḥ

198.4

वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च ।
नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये

vaiśyāstu bhojyā viprāṇāṃ kṣatriyāṇāṃ tathaiva ca |
nityāgnayo viviktāśca cāturmāsyaratāśca ye

198.5

शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् ।
मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च

śūdrāṇāmatha yo bhuṅkte sa bhuṅkte pṛthivīmalam |
malaṃ nṛṇāṃ sa pibati malaṃ bhuṅkte janasya ca

198.6

शूद्राणां यस्तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम् ।
पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः

śūdrāṇāṃ yastathā bhuṅkte sa bhuṅkte pṛthivīmalam |
pṛthivīmalamaśnanti ye dvijāḥ śūdrabhojinaḥ

198.7

शूद्रस्य कर्मनिष्ठायां विकर्मस्थोपि पच्यते ।
ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते

śūdrasya karmaniṣṭhāyāṃ vikarmasthopi pacyate |
brāhmaṇaḥ kṣatriyo vaiśyo vikarmasthaśca pacyate

198.8

स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम् ।
रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च

svādhyāyaniratā viprāstathā svastyayane nṛṇām |
rakṣaṇe kṣatriyaṃ prāhurvaiśyaṃ puṣṭyarthameva ca

198.9

करोति कर्म यद्वैश्यस्तद्गत्वा ह्युपजीवति ।
कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि

karoti karma yadvaiśyastadgatvā hyupajīvati |
kṛṣigorakṣyavāṇijyamakutsā vaiśyakarmaṇi

198.10

शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च ।
स विज्ञेयो यथा शूद्रो न च भोज्यः कदाचन

śūdrakarma tu yaḥ kuryādavahāya svakarma ca |
sa vijñeyo yathā śūdro na ca bhojyaḥ kadācana

198.11

चिकित्सकः काण्डपृष्ठः पुराऽध्यक्षः पुरोहितः ।
सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः

cikitsakaḥ kāṇḍapṛṣṭhaḥ purā'dhyakṣaḥ purohitaḥ |
sāṃvatsaro vṛthādhyāyī sarve te śūdrasaṃmitāḥ

198.12

शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः ।
अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम्

śūdrakarmasvathaiteṣu yo bhuṅkte nirapatrapaḥ |
abhojyabhojanaṃ bhuktvā bhayaṃ prāpnoti dāruṇam

198.13

कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च ।
स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः

kulaṃ vīryaṃ ca tejaśca tiryagyonitvameva ca |
sa prayāti yathā śvā vai niṣkriyo dharmavarjitaḥ

198.14

भुङ्क्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत् ।
पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम्

bhuṅkte cikitsakasyānnaṃ tadannaṃ ca purīṣavat |
puṃścalyannaṃ ca mūtraṃ syātkārukānnaṃ ca śoṇitam

198.15

विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसम्मतः ।
तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत्

vidyopajīvino'nnaṃ ca yo bhuṅkte sādhusammataḥ |
tadapyannaṃ yathā śaudraṃ tatsādhuḥ parivarjayet

198.16

वचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम् ।
पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः

vacanīyasya yo bhuṅkte tamāhuḥ śoṇitaṃ hradam |
piśunaṃ bhojanaṃ bhuṅkte brahmahatyāsamaṃ viduḥ

198.17

असत्कृतमवज्ञातं न भोक्तव्यं कदाचन

asatkṛtamavajñātaṃ na bhoktavyaṃ kadācana

198.18

व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः ।
नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत्

vyādhiṃ kulakṣayaṃ caiva kṣipraṃ prāpnoti brāhmaṇaḥ |
nagarīrakṣiṇo bhuṅkte śvapacapravaṇo bhavet

198.19

गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे ।
भुक्त्वाऽन्नं जायते विप्रो रक्षसां कुलवर्धनः

goghne ca brāhmaṇaghne ca surāpe gurutalpage |
bhuktvā'nnaṃ jāyate vipro rakṣasāṃ kulavardhanaḥ

198.20

न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि ।
जायते शबरावासे मध्यदेशबहिष्कृते

nyāsāpahāriṇo bhuktvā kṛtaghne klībavartini |
jāyate śabarāvāse madhyadeśabahiṣkṛte

198.21

अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि ।
किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि ॥]

abhojyāścaiva bhojyāśca mayā proktā yathāvidhi |
kimanyadadya kaunteya mattastvaṃ śrotumicchasi ||]

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)