ततः सर्वे महाभागा देवाश्च पितरश्च ह ।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन्
tataḥ sarve mahābhāgā devāśca pitaraśca ha |
ṛṣayaśca mahābhāgāḥ pramathānvākyamabruvan
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥
12 श्लोक · 194 में से 274
भीष्म बताते हैं कि अब देवता, पितर और ऋषि रात्रि में विचरने वाले प्रमथों से पूछते हैं कि वे मनुष्यों को कैसे सताते हैं और उन्हें क्या दूर रखता है। प्रमथ स्पष्ट उत्तर देते हैं। मैथुन के बाद अशुद्ध रहने वाले, मोहवश मांस खाने वाले, वृक्ष की जड़ में सोने वाले, सिर या पैर की ओर मांस रखकर लेटने वाले, और जल में मल या कफ छोड़ने वाले मनुष्य उनके भक्ष्य हैं। पर जो गोरोचन लगाए, हाथ में वचा रखे, सिर पर घी और अक्षत रखे, मांस न खाए, या जिसके घर में दिन-रात अग्नि जलती रहे, उसे वे छू नहीं सकते। तरक्ष की खाल और दाँत, पहाड़ी कछुआ, घी का धुआँ, बिल्ली और काला या पीला बकरा जिस घर में हों, वह घर उनसे सुरक्षित रहता है।
[भीष्म उवाच
ततः सर्वे महाभागा देवाश्च पितरश्च ह ।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन्
tataḥ sarve mahābhāgā devāśca pitaraśca ha |
ṛṣayaśca mahābhāgāḥ pramathānvākyamabruvan
भवन्तो वै महाभागा अपरोक्षनिशाचराः ।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिसथ मानवान्
bhavanto vai mahābhāgā aparokṣaniśācarāḥ |
ucchiṣṭānaśucīnkṣudrānkathaṃ hisatha mānavān
के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ ।
रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ ।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः
ke ca smṛtāḥ pratīghātā yena martyānna hiṃsatha |
rakṣoghnāni ca kāni syuryairgṛheṣu praṇaśyatha |
śrotumicchāma yuṣmākaṃ sarvametanniśācarāḥ
प्रमथा ऊचुः
मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे ।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत्
maithunena sadocchiṣṭāḥ kṛte caivādharottare |
mohānmāṃsāni khādeta vṛkṣamūle ca yaḥ svapet
आमिषं शीर्षतो यस्य पादतो यश्च संविशेत् ।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः
āmiṣaṃ śīrṣato yasya pādato yaśca saṃviśet |
tata ucchiṣṭakāḥ sarve bahucchidrāśca mānavāḥ
उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति ।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः
udake cāpyamedhyāni śleṣmāṇaṃ ca pramuñcati |
ete bhakṣyāśca vadhyāśca mānuṣā nātra saṃśayaḥ
एवं शीलसमाचारान्धर्षयामो हि मानवान् ।
श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम् ।
evaṃ śīlasamācārāndharṣayāmo hi mānavān |
śrūyatāṃ ca pratīghātānyairna śaknuma hiṃsitum |
गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् ।
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः
gorocanāsamālambho vacāhastaśca yo bhavet |
ghṛtākṣataṃ ca yo dadyānmastake tatparāyaṇaḥ
ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम् ।
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते
ye ca māṃsaṃ na khādanti tānna śaknuma hiṃsitum |
yasya cāgnirgṛhe nityaṃ divārātrau ca dīpyate
तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः ।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽत पिङ्गलः
tarakṣoścarmadaṃṣṭrāśca tathaiva girikacchapaḥ |
ājyadhūmo biḍālaśca cchāgaḥ kṛṣṇo'ta piṅgalaḥ
येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् ।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः
yeṣāmetāni tiṣṭhanti gṛheṣu gṛhamedhinām |
tānyadhṛṣyāṇyagārāṇi piśitāśaiḥ sudāruṇaiḥ
लोकानस्मद्विधा ये च विचरन्ति यथासुखम् ।
तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते ।
एतद्वः कथितं सर्वं यत्र वः संशयो महान् ॥]
lokānasmadvidhā ye ca vicaranti yathāsukham |
tasmādetāni geheṣu rakṣoghnāni viśāmpate |
etadvaḥ kathitaṃ sarvaṃ yatra vaḥ saṃśayo mahān ||]
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)