अनुशासन पर्व

अध्याय 193: अरुन्धती, यम और चित्रगुप्त का गूढ़ धर्म

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥

38 श्लोक · 193 में से 274

इस अध्याय में क्या होता है

अरुन्धती, यम और चित्रगुप्त का गूढ़ धर्म

भीष्म बताते हैं कि अब ऋषि, पितर और देवता तप में वसिष्ठ के समान अरुन्धती से उनके रहस्य पूछते हैं। वे कहती हैं कि चार लोगों को यह कभी न सुनाया जाए: अश्रद्धालु, अभिमानी, ब्रह्मघाती और गुरुपत्नीगामी। ज्येष्ठ पुष्कर में लाख गौओं का दान भी सन्तुष्ट अतिथि के बराबर नहीं। प्रातः कुश से गौ के सींगों पर जल छिड़ककर उसे निराहार रहकर सिर पर लेना सब तीर्थों के स्नान के समान है। ब्रह्मा उन्हें वर देते हैं। फिर यम चित्रगुप्त का मत सुनाते हैं: कोई पुण्य या पाप नष्ट नहीं होता, सूर्य उसके साक्षी हैं। यहाँ दिया जल और दीप प्रेतलोक में पुण्योदा नदी और प्रकाश बनते हैं। पुष्कर में दी कपिला गौ बड़ा पाप धोती है। गोघाती और परस्त्रीगामी जैसे पाँच पापी नरक में पकते हैं।

भीष्म उवाच

193.1

ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः ।
अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः

tatastvṛṣigaṇāḥ sarve pitaraśca sadevatāḥ |
arundhatīṃ tapovṛddhāmapṛcchanta samāhitāḥ

193.2

समानशीलां वीर्येण वसिष्ठस्य महात्मनः ।
त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम् ।
यत्ते गुह्यतमं भद्रे तत्प्रभाषितुमर्हसि

samānaśīlāṃ vīryeṇa vasiṣṭhasya mahātmanaḥ |
tvatto dharmarahasyāni śrotumicchāmahe vayam |
yatte guhyatamaṃ bhadre tatprabhāṣitumarhasi

अरुन्धत्युवाच

193.3

तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै ।
भवतां च प्रसादेन धर्मान्वक्ष्यामि शाश्वतान्

tapovṛddhirmayā prāptā bhavatāṃ smaraṇena vai |
bhavatāṃ ca prasādena dharmānvakṣyāmi śāśvatān

193.4

सगुह्यान्सरहस्यांश्च ताञ्शृणुद्वमशेषतः ।
श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः

saguhyānsarahasyāṃśca tāñśṛṇudvamaśeṣataḥ |
śraddadhāne prayoktavyā yasya śuddhaṃ tathā manaḥ

193.5

अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पग ।
असम्भाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत्

aśraddadhāno mānī ca brahmahā gurutalpaga |
asambhāṣyā hi catvāro naiṣāṃ dharmaṃ prakāśayet

193.6

अहन्यहनि यो दद्यात्कपिलां द्वादशीः समाः ।
मासिमासि च सत्रेण यो यजेत सदा नरः

ahanyahani yo dadyātkapilāṃ dvādaśīḥ samāḥ |
māsimāsi ca satreṇa yo yajeta sadā naraḥ

193.7

गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे ।
न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति

gavāṃ śatasahasraṃ ca yo dadyājjyeṣṭhapuṣkare |
na taddharmaphalaṃ tulyamatithiryasya tuṣyati

193.8

श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः ।
श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः

śrūyatāṃ cāparo dharmo manuṣyāṇāṃ sukhāvahaḥ |
śraddadhānena kartavyaḥ sarahasyo mahāphalaḥ

193.9

कल्यमुत्थाय गोमध्ये गृह्य दर्भान्सहोदकान् ।
निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम् ।
प्रतीच्छेत निराहारस्तस्यि धर्मफलं शृणु

kalyamutthāya gomadhye gṛhya darbhānsahodakān |
niṣiñceta gavāṃ śṛṅge mastakena ca tajjalam |
pratīccheta nirāhārastasyi dharmaphalaṃ śṛṇu

193.10

श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित् ।
सिद्धचारणजुष्टानि सेवितानि महर्षिभिः ।
अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च

śrūyante yāni tīrthāni triṣu lokeṣu kānicit |
siddhacāraṇajuṣṭāni sevitāni maharṣibhiḥ |
abhiṣekaḥ samasteṣāṃ gavāṃ śṛṅgodakasya ca

193.11

साधुसाध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा ।
भूतैश्चैव सुसंहृष्टैः पूजिता साऽप्यरुन्धती

sādhusādhviti coddiṣṭaṃ daivataiḥ pitṛbhistathā |
bhūtaiścaiva susaṃhṛṣṭaiḥ pūjitā sā'pyarundhatī

पितामह उवाच

193.12

अहो धर्मो महाभागे सरहस्य उदाहृतः ।
वरं ददामि ते धन्ये तपस्ते वर्दतां सदा

aho dharmo mahābhāge sarahasya udāhṛtaḥ |
varaṃ dadāmi te dhanye tapaste vardatāṃ sadā

यम उवाच

193.13

रमणीया कथा दिव्या युष्मत्तो या मया श्रुता ।
श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम्

ramaṇīyā kathā divyā yuṣmatto yā mayā śrutā |
śrūyatāṃ citraguptasya bhāṣitaṃ mama ca priyam

193.14

रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः ।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छाता

rahasyaṃ dharmasaṃyuktaṃ śakyaṃ śrotuṃ maharṣibhiḥ |
śraddadhānena martyena ātmano hitamicchātā

193.15

न हि पुण्यं तथा पापं कृतं किञ्चिद्विनश्यति ।
पर्वकाले च यत्किंचिदादित्यं चाधितिष्ठति

na hi puṇyaṃ tathā pāpaṃ kṛtaṃ kiñcidvinaśyati |
parvakāle ca yatkiṃcidādityaṃ cādhitiṣṭhati

193.16

प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः ।
प्रतिजानाति पुण्यात्मा तच्चि तत्रोपयुज्यते

pretalokaṃ gate martye tattatsarvaṃ vibhāvasuḥ |
pratijānāti puṇyātmā tacci tatropayujyate

193.17

किञ्चिद्धर्म प्रवक्ष्यामि चित्रगुप्तमतं शुभम् ।
पानीयं चैव दीपं च दातव्यं सततं तथा

kiñciddharma pravakṣyāmi citraguptamataṃ śubham |
pānīyaṃ caiva dīpaṃ ca dātavyaṃ satataṃ tathā

193.18

उपानहौ च च्छत्रं च कपिला च यथातथम् ।
पुष्करे कपिला देया ब्राह्मणे वेदपारगे

upānahau ca cchatraṃ ca kapilā ca yathātatham |
puṣkare kapilā deyā brāhmaṇe vedapārage

193.19

अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत् ।
अयं चैवापरो धर्मश्चित्रगुप्तेन भाषितः

agnihotraṃ ca yatnena sarvaśaḥ pratipālayet |
ayaṃ caivāparo dharmaścitraguptena bhāṣitaḥ

193.20

फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः ।
प्रलयं सर्वभूतैस्तु गन्तव्यं कालपर्ययात्

phalamasya pṛthaktvena śrotumarhanti sattamāḥ |
pralayaṃ sarvabhūtaistu gantavyaṃ kālaparyayāt

193.21

तत्र दुर्गमनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः ।
दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम्

tatra durgamanuprāptāḥ kṣuttṛṣṇāparipīḍitāḥ |
dahyamānā vipacyante na tatrāsti palāyanam

193.22

अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः ।
तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि सन्तरेत्

andhakāraṃ tamo ghoraṃ praviśantyalpabuddhayaḥ |
tatra dharmaṃ pravakṣyāmi yena durgāṇi santaret

193.23

अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम् ।
पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः

alpavyayaṃ mahārthaṃ ca pretya caiva sukhodayam |
pānīyasya guṇā divyāḥ pretaloke viśeṣataḥ

193.24

तत्र पुण्योदका नाम नदी तेषां विधीयते ।
अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम्

tatra puṇyodakā nāma nadī teṣāṃ vidhīyate |
akṣayaṃ salilaṃ tatra śītalaṃ hyamṛtopamam

193.25

स तत्र तोयं पिबति पीनीयं यः प्रयच्छति ।
प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः

sa tatra toyaṃ pibati pīnīyaṃ yaḥ prayacchati |
pradīpasya pradānena śrūyatāṃ guṇavistaraḥ

193.26

तमोन्धकारं नियतं दीपदो न प्रपश्यति ।
प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः ।
देवताश्चानुमन्यन्ते विमलाः सर्वतो दिशः

tamondhakāraṃ niyataṃ dīpado na prapaśyati |
prabhāṃ cāsya prayacchanti somabhāskarapāvakāḥ |
devatāścānumanyante vimalāḥ sarvato diśaḥ

193.27

द्योततें च यथाऽऽदित्यः प्रेतलोकगतो नरः ।
तस्माद्दीपः प्रदातव्यः पानीयं च विशेषतः

dyotateṃ ca yathā''dityaḥ pretalokagato naraḥ |
tasmāddīpaḥ pradātavyaḥ pānīyaṃ ca viśeṣataḥ

193.28

कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे ।
पुष्करे च विशेषेण श्रूयतां तस्य यत्फलम्

kapilāṃ ye prayacchanti brāhmaṇe vedapārage |
puṣkare ca viśeṣeṇa śrūyatāṃ tasya yatphalam

193.29

गोशतं सवृषं तेन दत्तं भवति शाश्वतम् ।
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत् ।
शोधयेत्कपिला ह्येका प्रदत्तं गोशतं यथा

gośataṃ savṛṣaṃ tena dattaṃ bhavati śāśvatam |
pāpaṃ karma ca yatkiñcidbrahmahatyāsamaṃ bhavet |
śodhayetkapilā hyekā pradattaṃ gośataṃ yathā

193.30

तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे ।
न तेषां विषमं किञ्चिन्न दुःखं न च कण्टकाः

tasmāttu kapilā deyā kaumudyāṃ jyeṣṭhapuṣkare |
na teṣāṃ viṣamaṃ kiñcinna duḥkhaṃ na ca kaṇṭakāḥ

193.31

उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे ।
छत्रदाने सुखां छायां लभते परलोकगः

upānahau ca yo dadyātpātrabhūte dvijottame |
chatradāne sukhāṃ chāyāṃ labhate paralokagaḥ

193.32

न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन ।
चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः

na hi dattasya dānasya nāśo'stīha kadācana |
citraguptamataṃ śrutvā hṛṣṭaromā vibhāvasuḥ

193.33

उवाच देवताः सर्वाः पितॄंश्चैव महाद्युतिः ।
श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः

uvāca devatāḥ sarvāḥ pitṝṃścaiva mahādyutiḥ |
śrutaṃ hi citraguptasya dharmaguhyaṃ mahātmanaḥ

193.34

श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु ।
दानमेतत्प्रयच्छन्ति न तेषां विद्यते भयम्

śraddadhānāśca ye martyā brāhmaṇeṣu mahātmasu |
dānametatprayacchanti na teṣāṃ vidyate bhayam

193.35

धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः ।
असंभाष्या अनाचारा वर्जनीया नराधमाः

dharmadoṣāstvime pañca yeṣāṃ nāstīha niṣkṛtiḥ |
asaṃbhāṣyā anācārā varjanīyā narādhamāḥ

193.36

ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः ।
अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति

brahmahā caiva goghnaśca paradārarataśca yaḥ |
aśraddadhānaśca naraḥ striyaṃ yaścopajīvati

193.37

प्रेतलोकगता ह्येते नरके पापकर्मिणः ।
पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः

pretalokagatā hyete narake pāpakarmiṇaḥ |
pacyante vai yathā mīnāḥ pūyaśoṇitabhojanāḥ

193.38

असम्भाष्याः पितॄणां च देवानां चैव पञ्च ते ।
स्नातकानां च विप्राणां ये चान्ये च तपोधनाः

asambhāṣyāḥ pitṝṇāṃ ca devānāṃ caiva pañca te |
snātakānāṃ ca viprāṇāṃ ye cānye ca tapodhanāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)