अनुशासन पर्व

अध्याय 181: कीड़ा ब्राह्मणत्व और ब्रह्मपद पाता है

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥

14 श्लोक · 181 में से 274

इस अध्याय में क्या होता है

कीड़ा ब्राह्मणत्व और ब्रह्मपद पाता है

जो राजकुमार पहले कीड़ा था, वह पूर्वजन्म को याद रखते हुए वन में तप करने लगता है। व्यास आकर कहते हैं कि क्षत्रिय-व्रत निभाकर सब प्राणियों की रक्षा करो; यह क्षत्रिय-देह छोड़कर तुम ब्राह्मण बनोगे। राजकुमार लौटकर धर्म से प्रजा का पालन करता है और मृत्यु के बाद ब्राह्मण होकर जन्म लेता है। व्यास फिर उससे मिलने आते हैं और कहते हैं कि मृत्यु से मत डरो, शुभ कर्म करने वाला शुभ योनि में और पापी पाप-योनि में जन्मता है। व्यास के वचन से वह पृथ्वी को यज्ञस्तम्भों से भर देता है और अन्त में सनातन ब्रह्म को पाता है। भीष्म कहते हैं: पुण्य कुरुक्षेत्र में मारे गए क्षत्रिय उत्तम गति पा चुके हैं, इसलिए शोक मत करो।

भीष्म उवाच

181.1

क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान् ।
त्यक्त्वा हि कीटतां राजंश्चचार विपुलं तपः

kṣatradharmamanuprāptaḥ smaranneva ca vīryavān |
tyaktvā hi kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ

181.2

तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः ।
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा

tasya dharmārthaviduṣo dṛṣṭvā tadvipulaṃ tapaḥ |
ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanastadā

व्यास उवाच

181.3

क्षात्रादेव व्रतात्कीट भूतानां परिपालय ।
क्षात्रं देवव्रतं ध्यासंस्ततो विप्रत्वमेष्यसि

kṣātrādeva vratātkīṭa bhūtānāṃ paripālaya |
kṣātraṃ devavrataṃ dhyāsaṃstato vipratvameṣyasi

181.4

पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान् ।
शुभैः संविभजन्कामैरशुभानां च भावनैः

pāhi sarvāḥ prajāḥ samyak śubhāśubhavidātmavān |
śubhaiḥ saṃvibhajankāmairaśubhānāṃ ca bhāvanaiḥ

181.5

आत्मवान्भव सुप्रीतः स्वधर्माचरणे रतः ।
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि

ātmavānbhava suprītaḥ svadharmācaraṇe rataḥ |
kṣātrīṃ tanuṃ samutsṛjya tato vipratvameṣyasi

भीष्म उवाच

181.6

सोऽप्यरण्यादभिप्रेत्य पुनरेव युधिष्ठिर ।
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पालयन्

so'pyaraṇyādabhipretya punareva yudhiṣṭhira |
maharṣervacanaṃ śrutvā prajā dharmeṇa pālayan

181.7

अचिरेणैव कालेन कीटः पार्थिवसत्तम ।
प्रजापालनधर्मेणि प्रेत्य विप्रत्वमागतः

acireṇaiva kālena kīṭaḥ pārthivasattama |
prajāpālanadharmeṇi pretya vipratvamāgataḥ

181.8

ततस्तं ब्राह्मणं द्रष्टुं पुनरेव महायशाः ।
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा

tatastaṃ brāhmaṇaṃ draṣṭuṃ punareva mahāyaśāḥ |
ājagāma mahāprājñaḥ kṛṣṇadvaipāyanastadā

व्यास उवाच

181.9

भोभो ब्रह्मर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन ।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु

bhobho brahmarṣabha śrīmanmā vyathiṣṭhāḥ kathañcana |
śubhakṛcchubhayonīṣu pāpakṛtpāpayoniṣu

181.10

उपपद्यति धर्मज्ञ यथाधर्मं यथाव्रतम् ।
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन ।
धर्मलाभात्परं न स्यात्तस्माद्धर्मं चरोत्तमम्

upapadyati dharmajña yathādharmaṃ yathāvratam |
tasmānmṛtyubhayātkīṭa mā vyathiṣṭhāḥ kathañcana |
dharmalābhātparaṃ na syāttasmāddharmaṃ carottamam

कीट उवाच

181.11

सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् ।
धर्ममूलं शुभं प्राप्य पाप्मा नष्ट इहाद्य मे

sukhātsukhataraṃ prāpto bhagavaṃstvatkṛte hyaham |
dharmamūlaṃ śubhaṃ prāpya pāpmā naṣṭa ihādya me

भीष्म उवाच

181.12

भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् ।
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ।
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः

bhagavadvacanātkīṭo brāhmaṇyaṃ prāpya durlabham |
akarotpṛthivīṃ rājanyajñayūpaśatāṅkitām |
tataḥ sālokyamagamadbrahmaṇo brahmavittamaḥ

181.13

अथ पापहरं कीटः पार्त ब्रह्म सनातनम् ।
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा

atha pāpaharaṃ kīṭaḥ pārta brahma sanātanam |
svakarmaphalanirvṛttaṃ vyāsasya vacanāttadā

181.14

कुरुक्षेत्रे युद्धहताः पुण्ये क्षत्रियपुङ्गवाः ।
सम्प्राप्तास्ते गतिं पुण्यां तन्मा त्वं शोच पुत्रक

kurukṣetre yuddhahatāḥ puṇye kṣatriyapuṅgavāḥ |
samprāptāste gatiṃ puṇyāṃ tanmā tvaṃ śoca putraka

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)