अनुशासन पर्व

अध्याय 182: मैत्रेय के भोजन पर व्यास की मुस्कान

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥

28 श्लोक · 182 में से 274

इस अध्याय में क्या होता है

मैत्रेय के भोजन पर व्यास की मुस्कान

युधिष्ठिर पूछते हैं कि विद्या, तप और दान में कौन श्रेष्ठ है। भीष्म व्यास और मैत्रेय का संवाद सुनाते हैं। व्यास वाराणसी में मैत्रेय के पास पहुँचते हैं। मैत्रेय मुनि को पहचानकर उनका पूजन करते हैं और उत्तम भोजन कराते हैं। भोजन से उठते समय व्यास मुस्कराते हैं, और मैत्रेय कारण पूछते हैं। व्यास कहते हैं कि वेद परम पद के तीन चरण बताता है: किसी से द्रोह न करो, दान दो और सत्य बोलो। प्यासे को बिना ईर्ष्या के दिया थोड़ा दान भी महाफल देता है; इस भोजन से मैत्रेय ने मानो बड़े यज्ञों से लोक जीत लिए। सब पवित्र करने वालों में दान सबसे ऊपर है। दानियों ने ही वह मार्ग बनाया जिस पर ज्ञानी चलते हैं। व्यास कहते हैं: आनन्द करो, बढ़ो और दान में रमो।

युधिष्ठिर उवाच

182.1

विद्या तपश्च दानं च किमेतेषां विशिष्यते ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

vidyā tapaśca dānaṃ ca kimeteṣāṃ viśiṣyate |
pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha

भीष्म उवाच

182.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च

atrāpyudāharantīmamitihāsaṃ purātanam |
maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca

182.3

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् ।
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले

kṛṣṇadvaipāyano rājannajñātacaritaṃ caran |
vārāṇasyāmupātiṣṭhanmaitreyaṃ svairiṇīkule

182.4

तमुपच्छन्नमासीनं ज्ञात्वा स मुनिसत्तमः ।
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्

tamupacchannamāsīnaṃ jñātvā sa munisattamaḥ |
arcitvā bhojayāmāsa maitreyo'śanamuttamam

182.5

तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् ।
उत्तिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः

tadannamuttamaṃ bhuktvā guṇavatsārvakāmikam |
uttiṣṭhamāno'smayata prītaḥ kṛṣṇo mahāmanāḥ

182.6

तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् ।
कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते ।
तपस्विनो धृतिमतः प्रमोदः समुपागतः

tamutsmayantaṃ samprekṣya maitreyaḥ kṛṣṇamabravīt |
kāraṇaṃ brūhi dharmātmanvyasmayiṣṭhāḥ kutaśca te |
tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ

182.7

एतदिच्छामि ते विद्वन्नभिवाद्य प्रणम्य च ।
आत्मनश्च तपोभाग्यं सुखभाग्यं ममेह च

etadicchāmi te vidvannabhivādya praṇamya ca |
ātmanaśca tapobhāgyaṃ sukhabhāgyaṃ mameha ca

182.8

तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च ।
पृथगाचरितं तात पृथगाचरितात्मनः ।
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात्

tapobhāgyānmahābhāga sukhabhāgyāttathaiva ca |
pṛthagācaritaṃ tāta pṛthagācaritātmanaḥ |
alpāntaramahaṃ manye viśiṣṭamapi cānvayāt

व्यास उवाच

182.9

अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः ।
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत्

aticchedātivādābhyāṃ smayo'yaṃ samupāgataḥ |
asatyaṃ vedavacanaṃ kasmādvedo'nṛtaṃ vadet

182.10

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं प्रति ।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परान्वदेत्

trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ prati |
na druhyeccaiva dadyācca satyaṃ caiva parānvadet

182.11

इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम् ।
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम्

iti vedoktamṛṣibhiḥ purastātparikalpitam |
idānīṃ caiva naḥ kṛtyaṃ purastācca pariśrutam

182.12

अल्पोऽपि तादृशो न्यासो भवत्युत महाफलः ।
तृषिताय च यद्दत्तं हृदयेनानसूयता

alpo'pi tādṛśo nyāso bhavatyuta mahāphalaḥ |
tṛṣitāya ca yaddattaṃ hṛdayenānasūyatā

182.13

तोषितास्त्रिदशा यत्ते दत्त्वैतद्दर्शनं मम ।
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो

toṣitāstridaśā yatte dattvaitaddarśanaṃ mama |
ajaiṣīrmahato lokānmahāyajñairiva prabho

182.14

ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च ।
दूरात्पुण्यवतो गन्धः पुण्यस्यैव च दर्शनात्

tato dānapavitreṇa prīto'smi tapasaiva ca |
dūrātpuṇyavato gandhaḥ puṇyasyaiva ca darśanāt

182.15

पुण्यश्च वातिगन्धस्ते मन्ये कर्म विधानजम् ।
अथ कर्मार्जितस्तात यथाचैवानुलेपनात्

puṇyaśca vātigandhaste manye karma vidhānajam |
atha karmārjitastāta yathācaivānulepanāt

182.16

शुभं सर्वपवित्रेब्यो दानमेव परं द्विज ।
[नोचेत्सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥]

śubhaṃ sarvapavitrebyo dānameva paraṃ dvija |
[nocetsarvapavitrebhyo dānameva paraṃ bhavet ||]

182.17

यानीमान्युत्तमानीह वेदोक्तानि प्रशंसति ।
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः

yānīmānyuttamānīha vedoktāni praśaṃsati |
teṣāṃ śreṣṭhataraṃ dānamiti me nātra saṃśayaḥ

182.18

दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः

dānavadbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ |
te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ

182.19

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः ।
सर्वत्यागो यता चेह तता दानमनुत्तमम्

yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ |
sarvatyāgo yatā ceha tatā dānamanuttamam

182.20

त्वं हि तात सुखादेव शुभमेष्यसि शोभनम् ।
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः

tvaṃ hi tāta sukhādeva śubhameṣyasi śobhanam |
sukhātsukhataraprāptimāpnute matimānnaraḥ

182.21

तन्नः प्रत्यक्षमेवेदमुपलक्ष्यमसंशयम् ।
श्रीमन्तः प्राप्नुवन्त्यर्थान्दानं यज्ञं तथा सुखम्

tannaḥ pratyakṣamevedamupalakṣyamasaṃśayam |
śrīmantaḥ prāpnuvantyarthāndānaṃ yajñaṃ tathā sukham

182.22

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् ।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः

sukhādeva paraṃ duḥkhaṃ duḥkhādanyatparaṃ sukham |
dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ

182.23

विविधानीह वृत्तानि नरस्याहुर्मनीषिणः ।
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम्

vividhānīha vṛttāni narasyāhurmanīṣiṇaḥ |
puṇyamanyatpāpamanyanna puṇyaṃ na ca pāpakam

182.24

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पातकम् ।
यथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्

na vṛttaṃ manyate'nyasya manyate'nyasya pātakam |
yathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam

182.25

यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः ।
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः

yajñadānatapaḥśīlā narā vai puṇyakarmiṇaḥ |
ye'bhidruhyanti bhūtāni te vai pāpakṛto janāḥ

182.26

द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च ।
ततोऽन्यत्कर्म यत्किंचिन्न पुण्यं न च पातकम्

dravyāṇyādadate caiva duḥkhaṃ yānti patanti ca |
tato'nyatkarma yatkiṃcinna puṇyaṃ na ca pātakam

182.27

नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचतः ।
भाग्यक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः

nityaṃ cākṛpaṇo bhuṅkte svajanairdehi yācataḥ |
bhāgyakṣayeṇa kṣīyante nopabhogena sañcayāḥ

182.28

रमस्वैधस्व मोदस्व देहि दाने रमस्व च ।
न त्वामतिभविष्यन्ति वैद्या न च तपस्विनः

ramasvaidhasva modasva dehi dāne ramasva ca |
na tvāmatibhaviṣyanti vaidyā na ca tapasvinaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)