शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे
śubhena karmaṇā yadvai tiryagyonau na muhyase |
mamaiva kīṭa tatkarma yena tvaṃ na pramuhyase
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः ॥
22 श्लोक · 180 में से 274
व्यास कीड़े से कहते हैं कि उसके थोड़े-से पुण्यकर्मों ने ही उसकी स्मृति बचाई है, और अपने तपोबल से वे उसे केवल दर्शन देकर ऊपर उठाएँगे। कीड़ा अनेक जन्मों से गुज़रता है: साही, गोह, सूअर और पक्षी, फिर क्रम से शूद्र, वैश्य और क्षत्रिय। वह ऐसा राजकुमार बनता है। तब उसे मुनि की याद आती है, वह उनके चरण पकड़कर पूछता है कि अब क्या करे। व्यास कहते हैं कि उनका दर्शन भी पूर्व पुण्य का ही फल था; गौओं और ब्राह्मणों के लिए प्राण देकर वह ब्राह्मणत्व पाएगा। राजकुमार भरपूर दक्षिणा वाले यज्ञ करता है और स्वर्ग में प्रकाशित होता है। अन्तिम श्लोक कहता है कि आचरण से प्राणी पशुयोनि से शूद्र, वैश्य, क्षत्रिय और ब्राह्मण तक उठता है।
व्यास उवाच
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे
śubhena karmaṇā yadvai tiryagyonau na muhyase |
mamaiva kīṭa tatkarma yena tvaṃ na pramuhyase
अहं त्वां दर्शनादेव तारयामि तपोबलात् ।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते
ahaṃ tvāṃ darśanādeva tārayāmi tapobalāt |
tapobalāddhi balavadbalamanyanna vidyate
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् ।
अवाप्स्य्सि परं र्धर्मं मानुष्ये यदि मन्यसे
jānāmi pāpaiḥ svakṛtairgataṃ tvāṃ kīṭa kīṭatām |
avāpsysi paraṃ rdharmaṃ mānuṣye yadi manyase
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ये ।
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः
karmabhūmikṛtaṃ devā bhuñjate tiryagāśca ye |
dhanyā api manuṣyeṣu kāmārthāśca yathā guṇāḥ
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः ।
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः
vāgbuddhipāṇipādaiśca samupetā vipaścitaḥ |
kimāyāti manuṣyasya mandasyārthasya jīvataḥ
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः ।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि
daive yaḥ kurute pūjāṃ viprāgniśaśisūryayoḥ |
bruvannapi kathāṃ puṇyāṃ tatra kīṭa tvameṣyasi
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे ।
(भीष्म उवाच)
क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि ।
स तथेति प्रतिश्रुत्य कीटः समवतिष्ठत
guṇabhūtāni bhūtāni tatra tvamupabhokṣyase |
(bhīṣma uvāca)
kramātte'haṃ vineṣyāmi brahmatvaṃ yadi cecchasi |
sa tatheti pratiśrutya kīṭaḥ samavatiṣṭhata
*तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु
*tamṛṣiṃ draṣṭumagamatsarvāsvanyāsu yoniṣu
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ।
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु
śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām |
śvapākaśūdravaiśyānāṃ kṣatriyāṇāṃ ca yoniṣu
स कीटे एवमाख्यातमृषिणा सत्यवादिना ।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः
sa kīṭe evamākhyātamṛṣiṇā satyavādinā |
pratismṛtyātha jagrāha pādau mūrdhni kṛtāñjaliḥ
कीट उवाच
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः ।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्
idaṃ tadatulaṃ sthānamīpsitaṃ daśabhirguṇaiḥ |
yadahaṃ prāpya kīṭatvamāgato rājaputratām
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः ।
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः
vahanti māmatibalāḥ kuñjarā hemamālinaḥ |
syandaneṣu ca kāmbhojā yuktāḥsamaravājinaḥ
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् ।
सबान्धवः सहामात्यश्चाश्नामि पिशिताशनम्
uṣṭrāśvatarayuktāni yānāni ca vahanti mām |
sabāndhavaḥ sahāmātyaścāśnāmi piśitāśanam
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च ।
वरार्हेषु महाभाग स्वपामि च सुपूजितः
gṛheṣu svanivāseṣu sukheṣu śayaneṣu ca |
varārheṣu mahābhāga svapāmi ca supūjitaḥ
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः ।
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः
sarveṣvapararātreṣu sūtamāgadhabandinaḥ |
stuvanti māṃ yathā devā mahendraṃ priyavādinaḥ
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः ।
यदहं कीटतां प्राप्य स्मृतिजाता जुगुप्सिताम् ।
ननु नाशोस्ति पापस्य यन्मयोपचितं पुरा
prasādātsatyasandhasya bhavato'mitatejasaḥ |
yadahaṃ kīṭatāṃ prāpya smṛtijātā jugupsitām |
nanu nāśosti pāpasya yanmayopacitaṃ purā
[नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् ।
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥]
[namaste'stu mahāprājña kiṃ karomi praśādhi mām |
tvattapobalanirdiṣṭamidaṃ hyadhigataṃ mayā ||]
व्यास उवाच
[अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया ।
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिताम्]
[arcito'haṃ tvayā rājanvāgbhiradya yadṛcchayā |
adya te kīṭatāṃ prāpya smṛtirjātājugupsitām]
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ।
ममैतद्दर्शनं प्राप्तं तच्च वै सुकृतं पुरा ।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा
śūdreṇārthapradhānena nṛśaṃsenātatāyinā |
mamaitaddarśanaṃ prāptaṃ tacca vai sukṛtaṃ purā |
tiryagyonau sma jātena mama cābhyarcanāttathā
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि ।
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे
itastvaṃ rājaputratvādbrāhmaṇyaṃ samavāpsyasi |
gobrāhmaṇakṛte prāṇānhitvā''tmīyānraṇājire
भीष्म उवाच
राजपुत्रः सुखं प्राप्य ईजे चैवाप्तदक्षिणैः ।
अथ चोद्दीप्यत स्वर्गे प्रभूतोप्यव्ययः सुखी
rājaputraḥ sukhaṃ prāpya īje caivāptadakṣiṇaiḥ |
atha coddīpyata svarge prabhūtopyavyayaḥ sukhī
तिर्यग्योन्याः शूद्रतामभ्यपैति
शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः ।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं
स्वर्गं पुण्याद्ब्राह्मणः साधुवृत्तः
tiryagyonyāḥ śūdratāmabhyapaiti
śūdro vaiśyaṃ kṣatriyatvaṃ ca vaiśyaḥ |
vṛttaślāghī kṣatriyo brāhmaṇatvaṃ
svargaṃ puṇyādbrāhmaṇaḥ sādhuvṛttaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)