शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् ।
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः
śaratalpagataṃ bhīṣmaṃ vṛddhaṃ kurupitāmaham |
upagamya mahāprājñaḥ paryapṛcchadyudhiṣṭhiraḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥
10 श्लोक · 172 में से 274
युधिष्ठिर शरशय्या पर लेटे भीष्म के पास फिर आते हैं और पूछते हैं कि मनुष्य को सुन्दर अंग, सौभाग्य और धर्म, अर्थ, काम का सुख कैसे मिले। भीष्म एक व्रत बताते हैं जो मार्गशीर्ष मास में आरम्भ होता है, जब चन्द्रमा मूल नक्षत्र में हो। हर अंग अपने नक्षत्र में पूजा जाता है: चरण मूल में, पिंडलियाँ रोहिणी में, जंघाएँ दोनों आषाढ़ाओं में, नाभि भाद्रपदा में, नेत्र रेवती में, मुख पुष्य में, नासिका मघा में, सिर भरणी में और केश आर्द्रा में। व्रत पूरा होने पर वेदपारगामी ब्राह्मण को घी दिया जाता है। ऐसा करने वाला पूर्णिमा के चन्द्रमा जैसा परिपूर्ण अंगों वाला, दर्शनीय और ज्ञानवान होकर जन्म लेता है।
[वैशम्पायन उवाच
शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् ।
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः
śaratalpagataṃ bhīṣmaṃ vṛddhaṃ kurupitāmaham |
upagamya mahāprājñaḥ paryapṛcchadyudhiṣṭhiraḥ
अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत् ।
धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत्
aṅgānāṃ rūpasaubhāgyaṃ priyaṃ caiva kathaṃ bhavet |
dharmārthakāmasaṃyuktaḥ sukhabhāgī kathaṃ bhavet
भीष्म उवाच
मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते ।
पादौ मूलेन राजेन्द्रि जङ्घायामथ रोहिणीम्
mārgaśīrṣasya māsasya candre mūlena saṃyute |
pādau mūlena rājendri jaṅghāyāmatha rohiṇīm
अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा ।
गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा
aśvinyāṃ sakthinī caiva ūrū cāṣāḍhayostathā |
guhyaṃ tu phālgunī vidyātkṛttikā kaṭikāstathā
नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम् ।
पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा
nābhiṃ bhādrapade vidyādrevatyāmakṣimaṇḍalam |
pṛṣṭhameva dhaniṣṭhāsu anurādhottarāstathā
बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत् ।
पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा
bāhubhyāṃ tu viśākhāsu hastau hastena nirdiśet |
punarvasvaṅgulī rājannāśleṣāsu nakhāstathā
ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः ।
मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते
grīvāṃ jyeṣṭhā ca rājendra śravaṇena tu karṇayoḥ |
mukhaṃ puṣyeṇa dānena dantoṣṭhau svātirucyate
हासं शतभिषां चैव मघां चैवाथ नासिकाम् ।
नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु
hāsaṃ śatabhiṣāṃ caiva maghāṃ caivātha nāsikām |
netre mṛgaśiro vidyāllalāṭe mitrameva tu
भरण्यां तु शिरो विद्यात्केशानार्द्रां नराधिप ।
समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे
bharaṇyāṃ tu śiro vidyātkeśānārdrāṃ narādhipa |
samāpte tu ghṛtaṃ dadyādbrāhmaṇe vedapārage
सुभगो दर्शनीयश्च ज्ञानभाग्यथ जानते ।
जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः ॥]
subhago darśanīyaśca jñānabhāgyatha jānate |
jāyate paripūrṇāṅgaḥ paurṇamāsyeva candramāḥ ||]
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)