सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् ।
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि
sarveṣāmupavāsānāṃ yacchreyaḥ sumahatphalam |
yaccāpyasaṃśayaṃ loke tanme tvaṃ vaktumarhasi
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥
17 श्लोक · 171 में से 274
युधिष्ठिर पूछते हैं कि सब उपवासों में सबसे बड़ा और निश्चित फल किसका है। भीष्म स्वयम्भू का कहा हुआ सुनाते हैं। द्वादशी तिथि को दिन रात उपवास करके हर मास भगवान विष्णु की अलग नाम से पूजा की जाए: मार्गशीर्ष में केशव, पौष में नारायण, माघ में माधव, फाल्गुन में गोविन्द, चैत्र में विष्णु, वैशाख में मधुसूदन, ज्येष्ठ में त्रिविक्रम, आषाढ में वामन, श्रावण में श्रीधर, भाद्रपद में हृषीकेश, आश्विन में पद्मनाभ और कार्तिक में दामोदर। हर मास का व्रत अश्वमेध, वाजपेय, राजसूय जैसे किसी महायज्ञ के बराबर है। जो वर्ष भर इस प्रकार पुण्डरीकाक्ष की पूजा करे, उसे पूर्वजन्म की स्मृति और बहुत स्वर्ण मिलता है। अन्त में ब्राह्मणों को भोजन कराए। स्वयं विष्णु ने कहा कि इससे बढ़कर कोई उपवास नहीं।
*युधिष्ठिर उवाच
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् ।
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि
sarveṣāmupavāsānāṃ yacchreyaḥ sumahatphalam |
yaccāpyasaṃśayaṃ loke tanme tvaṃ vaktumarhasi
भीष्म उवाच
शृणु राजन्यथा गीतं स्वयमेव स्वयंभुवा ।
यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः
śṛṇu rājanyathā gītaṃ svayameva svayaṃbhuvā |
yatkṛtvā nirvṛto bhūyātpuruṣo nātra saṃśayaḥ
द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम् ।
अर्च्याश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति
dvādaśyāṃ mārgaśīrṣe tu ahorātreṇa keśavam |
arcyāśvamedhaṃ prāpnoti duṣkṛtaṃ cāsya naśyati
तथैव पौषमासे तु पूज्यो नारायणेति च ।
वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत्
tathaiva pauṣamāse tu pūjyo nārāyaṇeti ca |
vājapeyamavāpnoti siddhiṃ ca paramāṃ vrajet
अहोरात्रेण द्वादश्यां माघमासे तु माघवम् ।
राजसूयमवाप्नोति कुलं चैव समुद्धरेत्
ahorātreṇa dvādaśyāṃ māghamāse tu māghavam |
rājasūyamavāpnoti kulaṃ caiva samuddharet
तथैव फाल्गुने मासि गोविन्देति च पूजयन् ।
अतिरात्रमवाप्नोति सोमलोकं च गच्छति
tathaiva phālgune māsi govindeti ca pūjayan |
atirātramavāpnoti somalokaṃ ca gacchati
अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन् ।
पौण्डरीकमवाप्नोति देवलोकं च गच्छति
ahorātreṇa dvādaśyāṃ caitre viṣṇuriti smaran |
pauṇḍarīkamavāpnoti devalokaṃ ca gacchati
वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम् ।
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति
vaiśākhamāse dvādaśyāṃ pūjayanmadhusūdanam |
agniṣṭomamavāpnoti somalokaṃ ca gacchati
अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम् ।
गवां मेधमवाप्नोति अप्सरोभिश्च मोदते
ahorātreṇa dvādaśyāṃ jyeṣṭhe māsi trivikramam |
gavāṃ medhamavāpnoti apsarobhiśca modate
आषाढे मासि द्वादश्यां वामनेति च पूजयन् ।
नरमेधमवाप्नोति पुण्यं च लभते महत्
āṣāḍhe māsi dvādaśyāṃ vāmaneti ca pūjayan |
naramedhamavāpnoti puṇyaṃ ca labhate mahat
अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम् ।
पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते
ahorātreṇa dvādaśyāṃ śrāvaṇe māsi śrīdharam |
pañcayajñānavāpnoti vimānasthaśca modate
तथा भाद्रपदे मासि हृषीकेशेति पूजयन् ।
सौत्रामणिमवाप्नोति पूतात्मा भवते च हि
tathā bhādrapade māsi hṛṣīkeśeti pūjayan |
sautrāmaṇimavāpnoti pūtātmā bhavate ca hi
द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन् ।
गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः
dvādaśyāmāśvine māsi padmanābheti cārcayan |
gosahasraphalaṃ puṇyaṃ prāpnuyānnātra saṃśayaḥ
द्वादश्यां कार्तिके मासि पूज्यो दामोदरेति च ।
गवां यज्ञमवाप्नोति पुमान्स्त्री वा न संशयः
dvādaśyāṃ kārtike māsi pūjyo dāmodareti ca |
gavāṃ yajñamavāpnoti pumānstrī vā na saṃśayaḥ
अर्चयेत्पुण्डरीकाक्षमेवं संवत्सरं तु यः ।
जातिस्मरत्वं प्राप्नोति विन्द्याद्बहु सुवर्णकम्
arcayetpuṇḍarīkākṣamevaṃ saṃvatsaraṃ tu yaḥ |
jātismaratvaṃ prāpnoti vindyādbahu suvarṇakam
अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति ।
समाप्ते भोजयेद्विप्रानथवा दापयेद्धृतम्
ahanyahani tadbhāvamupendraṃ yo'dhigacchati |
samāpte bhojayedviprānathavā dāpayeddhṛtam
अतः परं नोपवासो भवतीति विनिश्चयः
उवाच भगवान्विष्णुः स्वयमेव पुरातनम् ॥]
ataḥ paraṃ nopavāso bhavatīti viniścayaḥ
uvāca bhagavānviṣṇuḥ svayameva purātanam ||]
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)