अनुशासन पर्व

अध्याय 170: सच्चा तीर्थ और दो प्रकार की शुद्धि

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥

21 श्लोक · 170 में से 274

इस अध्याय में क्या होता है

सच्चा तीर्थ और दो प्रकार की शुद्धि

युधिष्ठिर पूछते हैं कि सब तीर्थों में श्रेष्ठ कौन है और परम शुद्धि कहाँ है। भीष्म कहते हैं कि सच्चा स्नान मन के तीर्थ में होता है, जो सत्य और धैर्य का गहरा, निर्मल सरोवर है। उसका जल तप, ज्ञान, कोमलता, सत्य, सरलता, सब प्राणियों के प्रति अहिंसा, दया, दम और शम है। अहङ्कार, ममता और द्वन्द्वों से मुक्त योगी स्वयं तीर्थ हैं, और नारायण या रुद्र में भक्ति परम तीर्थ है। जिसका शरीर केवल जल से भीगा है, वह स्नान किया हुआ नहीं कहलाता। स्नान उसने किया जो इन्द्रियसंयम में नहाया। पृथ्वी के पवित्र स्थानों पर तीर्थ का नाम लेने, स्नान करने और पितरों को जल देने से पाप धुलते हैं। जो मन और भूमि दोनों के तीर्थ में नहाता है, उसे शीघ्र सिद्धि मिलती है।

युधिष्ठिर उवाच

170.1

यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह ।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि

yadvaraṃ sarvatīrthānāṃ tadbravīhi pitāmaha |
yatra caiva paraṃ śaucaṃ tanme vyākhyātumarhasi

भीष्म उवाच

170.2

सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः ।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः

sarvāṇi khalu tīrthāni guṇavanti manīṣiṇaḥ |
yattu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ

170.3

अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे ।
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम्

agādhe vimale śuddhe satyatīrthe dhṛtihrade |
snātavyaṃ mānase tīrthe satvamālambya śāśvatam

170.4

तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम् ।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः

tīrthaśaucaṃ tapo jñānaṃ mārdavaṃ satyamārjavam |
ahiṃsā sarvabhūtānāmānṛśaṃsyaṃ damaḥ śamaḥ

170.5

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ।
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते

nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ |
yoginastīrthabhūtāste tīrthaṃ paramamucyate

170.6

नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम् ।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः

nārāyaṇe'tha rudre vā bhaktistīrthaṃ paraṃ matam |
śaucalakṣaṇametatte sarvatraivānvavekṣataḥ

170.7

रजस्तमःसत्वमथो येषां निर्धूतमात्मना ।
तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम् ।

rajastamaḥsatvamatho yeṣāṃ nirdhūtamātmanā |
tīrthamācāraśuddhiśca svamārgaparimārgaṇam |

170.8

सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः ।
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च

sarvatyāgeṣvabhiratāḥ sarvajñāḥ samadarśinaḥ |
śaucaṣveteṣvabhiratāste tīrthaśucayo'pi ca

170.9

नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते ।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः

nodakaklinnagātrastu snāta ityabhidhīyate |
sa snāto yo damasnātaḥ sa bāhyābhyantaraḥ śuciḥ

170.10

अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः ।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा

adṛṣṭeṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ |
śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā

170.11

प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः ।
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता

prajñānaṃ śaucameveha śarīrasya viśeṣataḥ |
tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā

170.12

वृत्तं शौचं महाशौचं तीर्थशौचमतः परम् ।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम्

vṛttaṃ śaucaṃ mahāśaucaṃ tīrthaśaucamataḥ param |
jñānotpannaṃ ca yacchaucaṃ tacchaucaṃ paramaṃ smṛtam

170.13

मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च ।
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः

manasā ca pradīptena brahmajñānajalena ca |
snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśanāḥ

170.14

समारोपितशौचस्तु नित्यं भवसमन्वितः ।
केवलं गुणसम्पन्नः शुचिरेव नरः सदा

samāropitaśaucastu nityaṃ bhavasamanvitaḥ |
kevalaṃ guṇasampannaḥ śucireva naraḥ sadā

170.15

शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत ।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि

śarīrasthāni tīrthāni proktānyetāni bhārata |
pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi

170.16

शरीरस्य यथोद्देशः शरीरोपरि निर्मिताः ।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च

śarīrasya yathoddeśaḥ śarīropari nirmitāḥ |
tathā pṛthivyā bhāgāśca puṇyāni salilāni ca

170.17

कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् ।
शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम् ।

kīrtanāccaiva tīrthasya snānācca pitṛtarpaṇāt |
śodhyaṃ hi pātakaṃ tīrthe pūtā yānti sukhaṃ divam |

170.18

परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा ।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा

parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā |
atīva puṇyabhāgāste salilasya ca tejasā

170.19

मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे ।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात्

manasaśca pṛthivyāśca puṇyāstīrthāstathāpare |
ubhayoreva yaḥ snāyātsa siddhiṃ śīghramāpnuyāt

170.20

यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता ।
नेह साधयते कार्यं समायुक्ता तु सिध्यति

yathā phalaṃ kriyāhīnaṃ kriyā vā phalavarjitā |
neha sādhayate kāryaṃ samāyuktā tu sidhyati

170.21

एवं शरीरशौचेन तीर्थशौचेन चान्वितः ।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्

evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ |
śuciḥ siddhimavāpnoti dvividhaṃ śaucamuttamam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)