अनुशासन पर्व

अध्याय 160: भगीरथ ब्रह्मा को बताते हैं वे ब्रह्मलोक कैसे पहुँचे

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥

46 श्लोक · 160 में से 274

इस अध्याय में क्या होता है

भगीरथ ब्रह्मा को बताते हैं वे ब्रह्मलोक कैसे पहुँचे

युधिष्ठिर पूछते हैं कि सबसे श्रेष्ठ तप कौन-सा है। भीष्म कहते हैं कि उनके मत में अनशन से बड़ा कोई तप नहीं, और भगीरथ की कथा सुनाते हैं। भगीरथ ब्रह्मलोक पहुँचे तो ब्रह्मा ने पूछा कि जहाँ देवता भी नहीं आते वहाँ तुम कैसे आए। भगीरथ अपने कर्म गिनाते हैं और हर एक के बाद कहते हैं कि उससे नहीं आया: लाखों ब्राह्मणों को भोजन, अपार दक्षिणा वाले अनगिनत यज्ञ, दसियों हजार घोड़े और गौएँ, करोड़ों का सोना, गङ्गा के लिए हिमालय में महादेव की पूजा करते हुए लम्बा तप, तीस वर्ष का तुरायण व्रत। वे कहते हैं कि उनके अनशन-व्रत से प्रसन्न हजार ब्राह्मणों ने कहा, ब्रह्मलोक जाओ, उसी से वे आए। ब्रह्मा उनका सम्मान करते हैं। इसलिए भीष्म कहते हैं, उपवास करो और ब्राह्मणों का आदर करो।

युधिष्ठिर उवाच

160.1

दानं बहुविधाकारं शान्तिः सत्यमहिंसितम् ।
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य वाऽपि यत्

dānaṃ bahuvidhākāraṃ śāntiḥ satyamahiṃsitam |
svadāratuṣṭiścoktā te phalaṃ dānasya vā'pi yat

160.2

पितामहस्य विदितं किमन्यत्तपसो बलात् ।
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि

pitāmahasya viditaṃ kimanyattapaso balāt |
tapaso yatparaṃ te'dya tanno vyākhyātumarhasi

भीष्म उवाच

160.3

तपसः प्रक्षयो यावत्ताल्लोको युधिष्ठिर ।
मतं ममात्र कौन्तेय तपो नानशनात्परम्

tapasaḥ prakṣayo yāvattālloko yudhiṣṭhira |
mataṃ mamātra kaunteya tapo nānaśanātparam

160.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः

atrāpyudāharantīmamitihāsaṃ purātanam |
bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ

160.5

अतीत्य सुरलोकं च गवां लोकं च भारत ।
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम्

atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata |
ṛṣilokaṃ ca so'gacchadbhagīratha iti śrutam

160.6

तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथम् ।
कथं भगीरथाऽऽगास्त्वमिमं लोकं दुरासदम्

taṃ tu dṛṣṭvā vacaḥ prāha brahmā rājanbhagīratham |
kathaṃ bhagīrathā''gāstvamimaṃ lokaṃ durāsadam

160.7

न हि देवा न गन्धर्वा न मनुष्या भगीरथ ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः

na hi devā na gandharvā na manuṣyā bhagīratha |
āyāntyataptatapasaḥ kathaṃ vai tvamihāgataḥ

भगीरथ उवाच

160.8

निश्शङ्कमन्नमददां ब्राह्मणोभ्यः
शतं सहस्राणि सदैवतानाम् ।
ब्राह्मं व्रतं नित्यमास्थाय विद्व-
न्न त्वेवाहं तस्य फलादिहागाम्

niśśaṅkamannamadadāṃ brāhmaṇobhyaḥ
śataṃ sahasrāṇi sadaivatānām |
brāhmaṃ vrataṃ nityamāsthāya vidva-
nna tvevāhaṃ tasya phalādihāgām

160.9

दशैकरात्रान्दशपञ्चरात्रा-
नेकादशैकादशकान्क्रतूंश्च ।
ज्योतिष्टोमानां च शतं यदिष्टं
फलेन तेनापि च नागतोऽहम्

daśaikarātrāndaśapañcarātrā-
nekādaśaikādaśakānkratūṃśca |
jyotiṣṭomānāṃ ca śataṃ yadiṣṭaṃ
phalena tenāpi ca nāgato'ham

160.10

यच्चावसं जाह्नवीतीरनित्यः
शतं समास्तप्यमानस्तपोऽहम् ।
अदां च तत्राश्वतरीसहस्रं
नारीपुरं न च तेनाहमागाम्

yaccāvasaṃ jāhnavītīranityaḥ
śataṃ samāstapyamānastapo'ham |
adāṃ ca tatrāśvatarīsahasraṃ
nārīpuraṃ na ca tenāhamāgām

160.11

दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम् ।
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः

daśāyutāni cāśvānāṃ go'yutāni ca viṃśatim |
puṣkareṣu dvijātibhyaḥ prādāṃ śatasahasraśaḥ

160.12

सुवर्णचन्द्रोत्तमधारिणीनां
कन्योत्तमानामददं सहस्रम् ।
षष्टिं सहस्राणि विभूषितानां
जाम्बूनदैराभरणैर्न तेन

suvarṇacandrottamadhāriṇīnāṃ
kanyottamānāmadadaṃ sahasram |
ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ
jāmbūnadairābharaṇairna tena

160.13

दशार्बुदान्यददं गोसवेज्या-
स्वेकैकशो दश गा ओकनाथ ।
समानवत्साः पयसा समन्विताः
सुवर्णकांस्योपदुहा न तेन

daśārbudānyadadaṃ gosavejyā-
svekaikaśo daśa gā okanātha |
samānavatsāḥ payasā samanvitāḥ
suvarṇakāṃsyopaduhā na tena

160.14

आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् ।
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च

āptoryāmeṣu niyatamekaikasmindaśādadam |
gṛṣṭīnāṃ kṣīradogdhrīṇāṃ rohiṇīnāṃ śatāni ca

160.15

दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह ।
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः

dogdhrīṇāṃ vai gavāṃ cāpi prayutāni daśaiva ha |
prādāṃ daśaguṇaṃ brahmanna tenāhamihāgataḥ

160.16

वाजिनां बाह्लिजातानामयुतान्यददं दश ।
कर्काणां हेममालानां न च तेनाहमागतः

vājināṃ bāhlijātānāmayutānyadadaṃ daśa |
karkāṇāṃ hemamālānāṃ na ca tenāhamāgataḥ

160.17

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम् ।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः

koṭīśca kāñcanasyāṣṭau prādāṃ brahmandaśānvaham |
ekaikasminkratau tena phalenāhaṃ na cāgataḥ

160.18

वाजिनां श्यामकर्णानां हरितानां पितामह ।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च

vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha |
prādāṃ hemasrajāṃ brahmankoṭīrdaśa ca sapta ca

160.19

ईषादन्तान्महाकायान्काञ्चतस्रग्विभूषितान् ।
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च

īṣādantānmahākāyānkāñcatasragvibhūṣitān |
padmino vai sahasrāṇi prādāṃ daśa ca sapta ca

160.20

अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः ।
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश

alaṅkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ |
rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa

160.21

सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ।
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः

sapta cānyāni yuktāni vājibhiḥ samalaṅkṛtaiḥ |
dakṣiṇāvayavāḥ kecidvedairye samprakīrtitāḥ

160.22

वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम् ।
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह

vājapeyeṣu daśasu prādāṃ teṣvapi cāpyaham |
śakratulyaprabhāvāṇāmijyayā vikrameṇa ha

160.23

सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ।
विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह ।
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः

sahasraṃ niṣkakaṇṭhānāmadadaṃ dakṣiṇāmaham |
vijitya bhūpatīnsarvānarthairiṣṭvā pitāmaha |
aṣṭabhyo rājasūyebhyo na ca tenāhamāgataḥ

160.24

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते ।
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते

srotaśca yāvadgaṅgāyāśchannamāsījjagatpate |
dakṣiṇābhiḥ pravṛttābhirmama nāgāṃ ca tatkṛte

160.25

वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते ।
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम्

vājināṃ ca sahasre dve suvarṇaśatabhūṣite |
varaṃ grāmaśataṃ cāhamekaikasyāṃ tithāvadām

160.26

तपस्वी नियताहारः शममास्थाय वाग्यतः ।
दीर्घकालं हिमवति गङ्गार्थमचरं तपः

tapasvī niyatāhāraḥ śamamāsthāya vāgyataḥ |
dīrghakālaṃ himavati gaṅgārthamacaraṃ tapaḥ

160.27

मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः ।
न तेनाप्यहमागच्छं फलेनेह पितामह

mūrdhnā haraṃ mahādevaṃ praṇamyābhyarcayannṛpaḥ |
na tenāpyahamāgacchaṃ phaleneha pitāmaha

160.28

शम्याक्षेपैरयजं यच्च देवा-
ञ्शतैः क्रतूनामयुतैश्चापि यच्च ।
त्रयोदशद्वादशाहैश्च देव
सपौण्डरीकैर्न च तेषां फलेन

śamyākṣepairayajaṃ yacca devā-
ñśataiḥ kratūnāmayutaiścāpi yacca |
trayodaśadvādaśāhaiśca deva
sapauṇḍarīkairna ca teṣāṃ phalena

160.29

अष्टौ सहस्राणि ककुद्मिनामहं
शुक्लर्षभाणामददं द्विजेभ्यः ।
एकैकं वै काञ्चनं शृङ्गमेभ्यः
पत्नीश्चैषामददं निष्ककण्ठीः

aṣṭau sahasrāṇi kakudmināmahaṃ
śuklarṣabhāṇāmadadaṃ dvijebhyaḥ |
ekaikaṃ vai kāñcanaṃ śṛṅgamebhyaḥ
patnīścaiṣāmadadaṃ niṣkakaṇṭhīḥ

160.30

हिरण्यरत्ननिचयानददं रत्नपर्वतान् ।
धनधान्यैः समृद्धांश्च ग्रामाञ्शतसहस्रशः

hiraṇyaratnanicayānadadaṃ ratnaparvatān |
dhanadhānyaiḥ samṛddhāṃśca grāmāñśatasahasraśaḥ

160.31

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः ।
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च

śataṃ śatānāṃ gṛṣṭīnāmadadaṃ cāpyatandritaḥ |
iṣṭvā'nekairmahāyajñairbrāhmaṇebhyo na tena ca

160.32

एकादशाहैरयजं सदक्षिणै-
र्द्विर्द्वादशाहैरश्वमेधैश्च देव ।
गवां धनैः षोडशभिश्च ब्रह्मं-
स्तेषां फलेनेह न चागतोऽस्मि

ekādaśāhairayajaṃ sadakṣiṇai-
rdvirdvādaśāhairaśvamedhaiśca deva |
gavāṃ dhanaiḥ ṣoḍaśabhiśca brahmaṃ-
steṣāṃ phaleneha na cāgato'smi

160.33

निष्कैककण्ठमददं योजनायतं
तद्विस्तीर्णं काञ्चनपादपानाम् ।
वनं चूतानां रत्नविभूषितानां
नचैव तेषामागतोऽहं फलेन

niṣkaikakaṇṭhamadadaṃ yojanāyataṃ
tadvistīrṇaṃ kāñcanapādapānām |
vanaṃ cūtānāṃ ratnavibhūṣitānāṃ
nacaiva teṣāmāgato'haṃ phalena

160.34

तुरायणं हि व्रतमप्यधृष्य-
मक्रोधनोऽकरवं त्रिंशदब्दान् ।
शतं गवामष्टशतानि चैव
दिनेदिने ह्यददं ब्राह्मणेभ्यः

turāyaṇaṃ hi vratamapyadhṛṣya-
makrodhano'karavaṃ triṃśadabdān |
śataṃ gavāmaṣṭaśatāni caiva
dinedine hyadadaṃ brāhmaṇebhyaḥ

160.35

पयस्विनीनामथ रोहिणीनां
तथैवान्याननडुहो लोकनाथ ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश
नेहागतस्तेन फलेन चाहम्

payasvinīnāmatha rohiṇīnāṃ
tathaivānyānanaḍuho lokanātha |
prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa
nehāgatastena phalena cāham

160.36

शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन् ।
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा ।
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः

śamyākṣepeṇa pṛthivīṃ tridhā paryacaraṃ yajan |
triṃśadagnīnahaṃ brahmannayajaṃ yacca nityadā |
aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ

160.37

दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः ।
न चैव तेषां देवेश फलेनाहमिहागमम्

daśabhirviśvajidbhiśca śatairaṣṭādaśottaraiḥ |
na caiva teṣāṃ deveśa phalenāhamihāgamam

160.38

सरय्वां बाहुदायां च गङ्गायामथ नैमिषे ।
गवां शतानामयुतमददं न च तेन वै

sarayvāṃ bāhudāyāṃ ca gaṅgāyāmatha naimiṣe |
gavāṃ śatānāmayutamadadaṃ na ca tena vai

160.39

इन्द्रेण गुह्यं निहितं वै गुहायां
यद्भार्गवस्तपसेहाभ्यविन्दत् ।
जाज्वल्यमानमुशनस्तेजसेह
तत्साधयामासमहं वरेण्य

indreṇa guhyaṃ nihitaṃ vai guhāyāṃ
yadbhārgavastapasehābhyavindat |
jājvalyamānamuśanastejaseha
tatsādhayāmāsamahaṃ vareṇya

160.40

ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत् ।
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते ।
पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः

brāhmaṇārthāya karmāṇi raṇaṃ caiva karomi yat |
tato me brāhmaṇāstuṣṭāstasminkarmaṇi sādhite |
pūjitairbrāhmaṇairnityaṃ na ca tenāhamāgataḥ

160.41

सहस्रमृषयश्चासन्ये वै तत्र समागताः ।
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो

sahasramṛṣayaścāsanye vai tatra samāgatāḥ |
uktastairasmi gaccha tvaṃ brahmalokamiti prabho

160.42

प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो ।
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा

prītenoktaḥ sahasreṇa brāhmaṇānāmahaṃ prabho |
imaṃ lokamanuprāpto mā bhūtte'tra vicāraṇā

160.43

कामं यथावद्विहितं विधात्रा
पृष्टेन वाच्यं तु मया यथावत् ।
तपो हि नान्यच्चानशनान्मतं मे
नमोस्तु ते देववर प्रसीद

kāmaṃ yathāvadvihitaṃ vidhātrā
pṛṣṭena vācyaṃ tu mayā yathāvat |
tapo hi nānyaccānaśanānmataṃ me
namostu te devavara prasīda

भीष्म उवाच

160.44

इत्युक्तवन्तं ब्रह्मि तु राजानं स भगीरथम् ।
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा

ityuktavantaṃ brahmi tu rājānaṃ sa bhagīratham |
pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā

160.45

तस्मादनशनैर्युक्तो विप्रान्पूज्य नित्यदा ।
विप्राणां वचनात्सर्वं परत्रेहं च सिध्यति

tasmādanaśanairyukto viprānpūjya nityadā |
viprāṇāṃ vacanātsarvaṃ paratrehaṃ ca sidhyati

160.46

वासोभिरन्नैर्गोभिस्च शुभैर्नैवेशिकैरपि ।
शुभैः सुरक्षणैश्चापि स्तोष्या एव द्विजास्तथा ।
एतदेव परं गुह्यमलोभेन समाचर

vāsobhirannairgobhisca śubhairnaiveśikairapi |
śubhaiḥ surakṣaṇaiścāpi stoṣyā eva dvijāstathā |
etadeva paraṃ guhyamalobhena samācara

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)