केषां देवा महाभागाः सन्नमन्ते महात्मनाम् ।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम
keṣāṃ devā mahābhāgāḥ sannamante mahātmanām |
loke'smiṃstanṛṣīnsarvañśrotumicchāmi sattama
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥
17 श्लोक · 153 में से 274
युधिष्ठिर पूछते हैं कि देवता स्वयं किन महात्माओं को नमन करते हैं। भीष्म वृत्र-वध के बाद का प्रसङ्ग सुनाते हैं। इन्द्र वैभव के साथ लौट रहे थे, तब सारथि मातलि ने पूछा कि सबके पूज्य आप स्वयं किसे नमस्कार करते हैं। इन्द्र श्लोकों की माला में उत्तर देते हैं, हर श्लोक के अन्त में कहते हैं, मातलि, मैं उन्हें नमन करता हूँ। जिनकी बुद्धि धर्म, अर्थ और काम का विचार करते हुए कभी अधर्म में नहीं जाती; जो रूपवान होकर भी भोगों से विरक्त हैं; जो अपने में सन्तुष्ट, मधुरभाषी और मान-रहित हैं। वे अग्निहोत्री पवित्र गृहस्थों, ब्राह्मणों, गौओं और पतिव्रता नारियों को प्रणाम करते हैं, उन्हें भी जो युवावस्था में भोग कर बाद में तप से स्वर्ग पाते हैं, और पर्वत जैसे अचल संन्यासियों को।
युधिष्ठिर उवाच
केषां देवा महाभागाः सन्नमन्ते महात्मनाम् ।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम
keṣāṃ devā mahābhāgāḥ sannamante mahātmanām |
loke'smiṃstanṛṣīnsarvañśrotumicchāmi sattama
भीष्म उवाच
इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः ।
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर
itihāsamimaṃ viprāḥ kīrtayanti purāvidaḥ |
asminnarthe mahāprājñāstaṃ nibodha yudhiṣṭhira
वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम् ।
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः
vṛtraṃ hatvā'pyupāvṛttaṃ tridaśānāṃ puraskṛtam |
mahendramanusamprāptaṃ stūyamānaṃ maharṣibhiḥ
श्रिया परमया युक्तं रथस्थं हरिवाहनम् ।
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुघाच ह
śriyā paramayā yuktaṃ rathasthaṃ harivāhanam |
mātaliḥ prāñjalirbhūtvā devamindramughāca ha
नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः ।
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम
namaskṛtānāṃ sarveṣāṃ bhagavaṃstvaṃ puraskṛtaḥ |
yeṣāṃ loke namaskuryāttānbravītu bhavānmama
तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः ।
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः
tasya tadvacanaṃ śrutvā devarājaḥ śacīpatiḥ |
yantāraṃ paripṛcchantaṃ tamindraḥ pratyuvāca saḥ
धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः ।
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले
dharmaṃ cārthaṃ ca kāmaṃ ca yeṣāṃ cintayatāṃ matiḥ |
nādharme vartate nityaṃ tānnamasyāmi mātale
ये रूपगुणसम्पन्नाः प्रमदाहृदयंगमाः ।
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले
ye rūpaguṇasampannāḥ pramadāhṛdayaṃgamāḥ |
nivṛttāḥ kāmabhogeṣu tānnamasyāmi mātale
स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः ।
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले
sveṣu bhogeṣu santuṣṭāḥ suvāco vacanakṣamāḥ |
amānakāmāścārghārhāstānnamasyāmi mātale
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम् ।
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम्
dhanaṃ vidyāstathaiśvaryaṃ yeṣāṃ na calayenmatim |
calitāṃ ye nigṛhṇanti tānnityaṃ pūjayāmyaham
इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम् ।
चतुष्पादकुटुम्बानां मातिले प्रणमाम्यहम्
iṣṭairdārairupetānāṃ śucīnāmagnihotriṇām |
catuṣpādakuṭumbānāṃ mātile praṇamāmyaham
महतस्तपसा प्राप्तौ धनस्य विपुलस्य च ।
कत्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते
mahatastapasā prāptau dhanasya vipulasya ca |
katyāgastasya na vai kāryo yo''tmānaṃ nāvabudhyate
येषामर्थस्तथा कामो धर्ममूलविवर्धितः ।
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले
yeṣāmarthastathā kāmo dharmamūlavivardhitaḥ |
dharmārthau tasya niyatau tānnamasyāmi mātale
धर्ममूलार्थकामानां ब्राह्मणानां गवामपि ॥
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम्
dharmamūlārthakāmānāṃ brāhmaṇānāṃ gavāmapi ||
pativratānāṃ nārīṇāṃ praṇāmaṃ prakaromyaham
ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले ।
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम्
ye bhuktvā mānuṣānbhogānpūrve vayasi mātale |
tapasā svargamāyānti śaśvattānpūjayāmyaham
असंभोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान् ।
संन्यस्तानचलप्रख्यान्मनसा पूजयामि तान्
asaṃbhogānnacāsaktāndharmanityāñjitendriyān |
saṃnyastānacalaprakhyānmanasā pūjayāmi tān
ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम् ।
परैः कीर्तितशौचानां मातले तान्नमाम्यहम्
jñānaprasannavidyānāṃ nirūḍhaṃ dharmamīpsitam |
paraiḥ kīrtitaśaucānāṃ mātale tānnamāmyaham
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)