अनुशासन पर्व

अध्याय 140: सच्चा उपवास, ब्रह्मचर्य और विघसाशी

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥

17 श्लोक · 140 में से 274

इस अध्याय में क्या होता है

सच्चा उपवास, ब्रह्मचर्य और विघसाशी

युधिष्ठिर पूछते हैं कि व्रतधारी द्विज ब्राह्मण के लिए बना अन्न खाएँ तो क्या हो, और क्या केवल उपवास ही तप है। भीष्म कहते हैं कि जो पखवाड़े या महीने भर भूखा रहता है वह अपने ही शरीर को हानि पहुँचाता है, वह न तपस्वी है न धर्मज्ञ। त्याग ही उत्तम तप है। फिर वे गृहस्थ के व्रतों का अर्थ बताते हैं। जो सुबह और साँझ के बीच कुछ नहीं खाता वह सदा उपवासी है। ऋतुकाल में ही पत्नी के पास जाने वाला ब्रह्मचारी है। बिना यज्ञ-कारण मांस न खाने वाला अमांसाशी है। सेवकों और अतिथियों के खा लेने पर खाने वाला अमृत खाता है, और देव, पितर तथा आश्रितों से बचा अन्न खाने वाला विघसाशी है। वे ब्रह्मा के अनन्त लोक पाते हैं।

युधिष्ठिर उवाच

140.1

द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते ।
अन्नं ब्राह्मणकामाय कथमेतत्पितामह

dvijātayo vratopetā haviste yadi bhuñjate |
annaṃ brāhmaṇakāmāya kathametatpitāmaha

भीष्म उवाच

140.2

अवेदोक्तव्रताश्चैव भुञ्जानाः कामकारणे ।
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर

avedoktavratāścaiva bhuñjānāḥ kāmakāraṇe |
vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira

युधिष्ठिर उवाच

140.3

यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।
तपः स्यादेतदेवेह तपोऽन्यद्वाऽपि किं भवेत्

yadidaṃ tapa ityāhurupavāsaṃ pṛthagjanāḥ |
tapaḥ syādetadeveha tapo'nyadvā'pi kiṃ bhavet

भीष्म उवाच

140.4

मासार्धमासोपवासाद्यत्तपो मन्यते जनः ।
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित्

māsārdhamāsopavāsādyattapo manyate janaḥ |
ātmatantropaghātī yo na tapasvī na dharmavit

140.5

त्यागस्य चापि सम्पत्तिः शिष्यते तप उत्तमम् ।
सदोपवासी च भवेद्ब्रह्मचारी तथैव च

tyāgasya cāpi sampattiḥ śiṣyate tapa uttamam |
sadopavāsī ca bhavedbrahmacārī tathaiva ca

140.6

मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् ।
कुटुम्बिको धर्मकामः सदाऽस्वप्नश्च मानवः

muniśca syātsadā vipro devāṃścaiva sadā yajet |
kuṭumbiko dharmakāmaḥ sadā'svapnaśca mānavaḥ

140.7

अमृताशी सदा च स्यात्पवित्रं च सदा पठेत् ।
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत्

amṛtāśī sadā ca syātpavitraṃ ca sadā paṭhet |
ṛtavādī sadā ca syānniyataśca sadā bhavet

140.8

विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ।
अमृताशी सदा च स्यात्पवित्री च सदा भवेत्

vighasāśī kathaṃ ca syātsadā caivātithipriyaḥ |
amṛtāśī sadā ca syātpavitrī ca sadā bhavet

युधिष्ठिर उवाच

140.9

कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव ।
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः

kathaṃ sadopavāsī syādbrahmacārī ca pārthiva |
vighasāśī kathaṃ ca syātkathaṃ caivātithipriyaḥ

भीष्म उवाच

140.10

अन्तरा सायमाशं च प्रातराशं च यो नरः ।
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः

antarā sāyamāśaṃ ca prātarāśaṃ ca yo naraḥ |
sadopavāsī bhavati yo na bhuṅkte'ntarā punaḥ

140.11

भार्या गच्छन्ब्रह्मचारी ऋतौ भवति चैव ह ।
ऋतवादी सदा च स्याद्दानशीलस्तु मानवः

bhāryā gacchanbrahmacārī ṛtau bhavati caiva ha |
ṛtavādī sadā ca syāddānaśīlastu mānavaḥ

140.12

अभक्षयन्वृथा मांसममांसाशी भवत्युत ।
दानं ददत्पवित्री स्यादस्वप्नश्च दिवाऽस्वपन्

abhakṣayanvṛthā māṃsamamāṃsāśī bhavatyuta |
dānaṃ dadatpavitrī syādasvapnaśca divā'svapan

140.13

भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा ।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर

bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā |
amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira

140.14

अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः ।
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत

abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ |
abhojanena tenāsya jitaḥ svargo bhavatyuta

140.15

देवेभ्यश्च पितृभ्यश्च संश्रितेभ्यस्तथैव च ।
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्

devebhyaśca pitṛbhyaśca saṃśritebhyastathaiva ca |
avaśiṣṭāni yo bhuṅkte tamāhurvighasāśinam

140.16

तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः ।
उपस्थिता ह्यप्सरसो गन्धर्वैश्च जनाधिप

teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ |
upasthitā hyapsaraso gandharvaiśca janādhipa

140.17

देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते ।
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा

devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate |
ramante putrapautraiśca teṣāṃ gatiranuttamā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)