अनुशासन पर्व

अध्याय 128: श्री गायों से निवास माँगती हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टविंशत्यधिकशततमोऽध्यायः ॥

27 श्लोक · 128 में से 274

इस अध्याय में क्या होता है

श्री गायों से निवास माँगती हैं

युधिष्ठिर ने सुना है कि गोबर में श्री का वास है, और पूछते हैं कैसे। भीष्म पुरानी कथा सुनाते हैं। श्री सुन्दर रूप धरकर गायों के झुण्ड में आईं और विस्मित गायों ने पूछा कि तुम कौन हो। उन्होंने कहा कि मैं श्री हूँ, जिन दैत्यों को मैंने छोड़ा वे नष्ट हुए, और देवता, ऋषि, इन्द्र, विष्णु तथा अग्नि मेरे कारण दीप्त हैं। मैं तुममें सदा रहना चाहती हूँ। गायों ने मना किया कि तुम चञ्चल हो और अनेकों की हो। श्री ने विनती की कि तुम्हारे ठुकराने से मैं सब जगह अपमानित होऊँगी, शरीर का निम्नतम भाग ही दे दो। दयालु गायों ने कहा कि हमारे गोबर और मूत्र में रहो, ये पवित्र हैं। श्री ने धन्यवाद दिया और अन्तर्धान हो गईं।

युधिष्ठिर उवाच

128.1

मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्

mayā gavāṃ purīṣaṃ vai śriyā juṣṭamiti śrutam |
etadicchāmyahaṃ śrotuṃ saṃśayo'tra hi me mahān

भीष्म उवाच

128.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गोभिर्नृपेहं संवादं श्रिया भारतसत्तम

atrāpyudāharantīmamitihāsaṃ purātanam |
gobhirnṛpehaṃ saṃvādaṃ śriyā bhāratasattama

128.3

श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह ।
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम्

śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyeṣu viveśa ha |
gāvo'tha vismitāstasyā dṛṣṭvā rūpasya sampadam

गाव ऊचुः

128.4

काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि ।
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा

kā'si devi kuto vā tvaṃ rūpeṇāpratimā bhuvi |
vismitāḥ sma mahābhāge tava rūpasya sampadā

128.5

इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि ।
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः

icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi |
tattvena hi suvarṇābhe sarvametadbravīhi naḥ

श्रीरुवाच

128.6

लोकस्य कान्तिर्भद्रं वः श्रीर्नामाहं परिश्रुता ।
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः

lokasya kāntirbhadraṃ vaḥ śrīrnāmāhaṃ pariśrutā |
mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ

128.7

मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः ।
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च

mayā'bhipannā devāśca modante śāśvatīḥ samāḥ |
indro vivasvānsomaśca viṣṇurāpo'gnireva ca

128.8

मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा ।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः

mayā'bhipannā dīpyante ṛṣayo devatāstathā |
yānnāviśāmyahaṃ gāvaste vinaśyanti sarvaśaḥ

128.9

धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः ।
एवंप्रभावां मां गावो विजानीत सुखप्रदाम्

dharmaścārthaśca kāmaśca mayā juṣṭāḥ sukhānvitāḥ |
evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām

128.10

इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ।
आगत्य प्रार्थये युष्माञ्श्रीजुष्टा भवताऽनघाः

icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā |
āgatya prārthaye yuṣmāñśrījuṣṭā bhavatā'naghāḥ

गाव ऊचुः

128.11

अध्रुवा चपला च त्वं सामान्या बहुभिः सह ।
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते

adhruvā capalā ca tvaṃ sāmānyā bahubhiḥ saha |
na tvāmicchāma bhadraṃ te gamyatāṃ yatra rocate

128.12

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै ।
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया

vapuṣmantyo vayaṃ sarvāḥ kimasmākaṃ tvayā'dya vai |
yatheṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā

श्रीरुवाच

128.13

किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ ।
न मां सम्प्रतिगृह्णीध्वं कस्माद्वै दुर्लभां सतीम्

kimetadvaḥ kṣamaṃ gāvo yanmāṃ nehābhinandatha |
na māṃ sampratigṛhṇīdhvaṃ kasmādvai durlabhāṃ satīm

128.14

सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः ।
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः

satyaśca lokavādo'yaṃ loke carati suvratāḥ |
svayaṃ prāpte paribhavo bhavatīti viniścayaḥ

128.15

महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः

mahadugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ |
devadānavagandharvāḥ piśācoragarākṣasāḥ

128.16

क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह ।
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे

kṣamametaddhi vo gāvaḥ pratigṛhṇīta māmiha |
nāvamanyā hyahaṃ saumyāstrailokye sacarācare

गाव ऊचुः

128.17

नावमान्यामहे देवि न त्वां परिभवामहे ।
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे

nāvamānyāmahe devi na tvāṃ paribhavāmahe |
adhruvā calacittāsi tatastvāṃ varjayāmahe

128.18

बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि ।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे

bahunā ca kimuktena gamyatāṃ yatra vāñchasi |
vapuṣmantyo vayaṃ sarvāḥ kimasmākaṃ tvayā'naghe

श्रीरुवाच

128.19

अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः ।
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतां मम

avajñātā bhaviṣyāmi sarvalokeṣu mānavaiḥ |
pratyākhyāteti yuṣmābhiḥ prasādaḥ kriyatāṃ mama

128.20

महाभागा भवत्यो वै शरण्याः शरणागताम् ।
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्

mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām |
paritrāyantu māṃ nityaṃ bhajamānāmaninditām

128.21

माननामहमिच्छामि भवत्यः सततं शिवाः ।
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते

mānanāmahamicchāmi bhavatyaḥ satataṃ śivāḥ |
apyekāṅgeṣvadho vastumicchāmi ca sukutsite

128.22

न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ।
पुण्याः पवित्राः सुभगा अवाग्देशं प्रयच्छथ ।
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ

na vo'sti kutsitaṃ kiñcidaṅgeṣvālakṣyate'naghāḥ |
puṇyāḥ pavitrāḥ subhagā avāgdeśaṃ prayacchatha |
vaseyaṃ yatra vo dehe tanme vyākhyātumarhatha

128.23

एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः ।
सम्मान्य सहिताः सर्वाः श्रियमुचुर्नराधिप

evamuktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ |
sammānya sahitāḥ sarvāḥ śriyamucurnarādhipa

128.24

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नः शुभे

avaśyaṃ mānanā kāryā tavāsmābhiryaśasvini |
śakṛnmūtre nivasatāṃ puṇyametaddhi naḥ śubhe

128.25

दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः

diṣṭyā prasādo yuṣmābhiḥ kṛto me'nugrahātmakaḥ |
evaṃ bhavatu bhadraṃ vaḥ pūjitā'smi sukhapradāḥ

भीष्म उवाच

128.26

एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत

evaṃ kṛtvā tu samayaṃ śrīrgobhiḥ saha bhārata |
paśyantīnāṃ tatastāsāṃ tatraivāntaradhīyata

128.27

एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ।
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम

evaṃ gośakṛtaḥ putra māhātmyaṃ te'nuvarṇitam |
māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)