केन वर्णविभागेन विज्ञेया कपिला भवेत् ।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा
kena varṇavibhāgena vijñeyā kapilā bhavet |
kati vā lakṣaṇānyasyā dṛṣṭāni munibhiḥ purā
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥
17 श्लोक · 127 में से 274
शुकदेव पूछते हैं कि कपिला कैसे पहचानी जाए। व्यास बताते हैं कि कपिला छह प्रकार की है, आँखों, सींगों, खुरों, अण्डकोष, कानों या नथुनों में पीली, और एक लक्षण भी हो तो वह कपिला है। आँखों की कपिला अग्नि की, खुरों की महेश्वर की, गर्दन की विष्णु की है, नथुनों की पूषा से उपजी। गायें, ब्राह्मण, गायत्री, सत्य, वसन्त और सुवर्ण साथ जन्मे। फिर व्यास कपिला को अनुचित ढंग से जोतने या दुहनेवालों को चेताते हैं। आँखों की कपिला का दुरुपयोग नरक, पशुयोनि और फिर जन्मान्धता देता है। दूसरी कपिलाओं के दुरुपयोग से बार बार पशुयोनि, निर्धनता, कीड़े या चाण्डाल का जन्म, रोग और अल्पायु मिलती है। द्वेष से कपिला हाँकनेवाले प्रलय तक नरक में रहते हैं।
शुक उवाच
केन वर्णविभागेन विज्ञेया कपिला भवेत् ।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा
kena varṇavibhāgena vijñeyā kapilā bhavet |
kati vā lakṣaṇānyasyā dṛṣṭāni munibhiḥ purā
श्रीव्यास उवाच
शृणु तात यथा गोषु विज्ञेया कपिला भवेत् ।
नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च ।
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः
śṛṇu tāta yathā goṣu vijñeyā kapilā bhavet |
netrayoḥ śṛṅgayoścaiva khureṣu vṛṣaṇeṣu ca |
karṇato ghrāṇataścāpi ṣaḍvidhāḥ kapilāḥ smṛtāḥ
एतेषां लक्षणानां तु यद्येकमपि दृश्यते ।
कपिलां तां विजानीयादेवमाहुर्मनीषिणः
eteṣāṃ lakṣaṇānāṃ tu yadyekamapi dṛśyate |
kapilāṃ tāṃ vijānīyādevamāhurmanīṣiṇaḥ
आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत् ।
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत
āgneyī netrakapilā khurairmāheśvarī bhavet |
grīvāyāṃ vaiṣṇavī jñeyā pūṣṇo ghrāṇādajāyata
कर्णतस्तु वसन्तेन स्वयोनिमभिजायते ।
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता
karṇatastu vasantena svayonimabhijāyate |
gāyatryāśca vṛṣaṇayorutpattiḥ ṣaḍguṇā smṛtā
एवं गावश्च विप्राश्च गायत्री सत्यमेव च ।
वसन्तश्च सुवर्णश्च एकतः समजायत
evaṃ gāvaśca viprāśca gāyatrī satyameva ca |
vasantaśca suvarṇaśca ekataḥ samajāyata
नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा ।
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते
netrayoḥ kapilāṃ yastu vāhayeta duheta vā |
sa pāpakarmā narakaṃ pratiṣṭhāṃ pratipadyate
नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते ।
यदा लभेत मानुष्यं जात्यन्धो जायते नरः
narakādvipramuktastu tiryagyoniṃ niṣevate |
yadā labheta mānuṣyaṃ jātyandho jāyate naraḥ
शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा ।
तिर्यग्योनिं स लभते जायमानः पुनः पुनः
śṛṅgayoḥ kapilāṃ yastu vāhayeta duheta vā |
tiryagyoniṃ sa labhate jāyamānaḥ punaḥ punaḥ
खुरेषु कपिलां यस्तु वाहयेत दुहेत वा ।
तमस्यपारे मज्जेत धनहीनो नराधमः
khureṣu kapilāṃ yastu vāhayeta duheta vā |
tamasyapāre majjeta dhanahīno narādhamaḥ
कपिलां वालधानेषु वाहयेत दुहेत वा ।
निराश्रयः सदा चैव जायते यदि चेत्कृमिः
kapilāṃ vāladhāneṣu vāhayeta duheta vā |
nirāśrayaḥ sadā caiva jāyate yadi cetkṛmiḥ
कर्णेन कपिलां यस्तु जानन्नप्युपजीवति ।
सहस्रशः शुचिर्भुत्वा मानुष्यं प्राप्नुयादथ ।
चण्डालः पापयोनिश्च जायते स नराधमः
karṇena kapilāṃ yastu jānannapyupajīvati |
sahasraśaḥ śucirbhutvā mānuṣyaṃ prāpnuyādatha |
caṇḍālaḥ pāpayoniśca jāyate sa narādhamaḥ
घ्राणेन कपिलां यस्तु प्रमादादुपजीवति ।
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते
ghrāṇena kapilāṃ yastu pramādādupajīvati |
so'pi varṣasahasrāṇi tiryagyonau prajāyate
व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः
vyādhigrasto jaḍo rogī bhavenmānuṣyamāgataḥ
मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः ।
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते
madhusarpissugandhāstu kapilāḥ śāstrataḥ smṛtāḥ |
etāḥ samupajīveta so'pi tiryakṣu jāyate
स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत् ।
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः
sthāvaratvamanuprāpto yadi mānuṣyatāṃ labhet |
alpāyuḥ sa bhavejjāto hīnavarṇakulodbhavaḥ
ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च ।
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम्
ye tu pāpā hyasūyante kapilāṃ vāhayanti ca |
nirayeṣu pratiṣṭhante yāvadābhūtasamplavam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)