अनुशासन पर्व

अध्याय 117: गोलोक ब्रह्मलोक से ऊपर क्यों है

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥

24 श्लोक · 117 में से 274

इस अध्याय में क्या होता है

गोलोक ब्रह्मलोक से ऊपर क्यों है

युधिष्ठिर पूछते हैं कि सबके स्रष्टा ब्रह्मा के लोक से भी ऊपर गोलोक कैसे है। भीष्म पुराणों की कथा सुनाते हैं। देवताओं, अमृत और यज्ञ के लिए घोर तप से रोहिणी नाम की सुरभि रची गईं। तब एक तेजस्वी पुरुष प्रकट हुआ, जो उन्हें देखते ही कामना से व्याकुल हो गया। ब्रह्मा ने उससे कहा, आर्त मत हो, और उसका नाम मार्तण्ड रखा। उन्होंने सुरभि को मार्तण्ड को दिया और कहा कि इस मिलन में कोई दोष नहीं लगेगा और इनकी सन्तान पवित्र होगी। उनका दूध श्रेष्ठ हवि होगा, और रोहिणी की सन्तान की सेवा करनेवाले गोलोक जाएँगे। इसी वर से उसकी सन्तान ब्रह्मा के लोक से भी ऊपर रहेगी और देवता उसके स्तनों का अमृत पिएँगे। सुरभि वर स्वीकार कर लोक में आईं।

*युधिष्ठिर उवाच

117.1

सुराणामसुराणां च भूतानां च पितामह ।
प्रभुः स्रष्टा च भगवान्मुनिभिः स्तूयते भुवि

surāṇāmasurāṇāṃ ca bhūtānāṃ ca pitāmaha |
prabhuḥ sraṣṭā ca bhagavānmunibhiḥ stūyate bhuvi

117.2

तस्योपरि कथं ह्येष गोलोकः स्थानतां गतः ।
संशयो मे महानेष तन्मे व्याख्यातुमर्हसि

tasyopari kathaṃ hyeṣa golokaḥ sthānatāṃ gataḥ |
saṃśayo me mahāneṣa tanme vyākhyātumarhasi

भीष्म उवाच

117.3

मनोवाग्बुद्धयस्तावदेकस्थाः कुरुसत्तम ।
ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यमुत्तमम्

manovāgbuddhayastāvadekasthāḥ kurusattama |
tato me śṛṇu kārtsnyena gomahābhāgyamuttamam

117.4

पुण्यं यशस्यमायुष्यं तथा स्वस्त्ययनं महत् ।
कीर्तिर्विहरता लोके गवां यो गोषु भक्तिमान्

puṇyaṃ yaśasyamāyuṣyaṃ tathā svastyayanaṃ mahat |
kīrtirviharatā loke gavāṃ yo goṣu bhaktimān

117.5

श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् ।
संस्थाने सर्वलोकानां देवानां चापि सम्भवे

śrūyate hi purāṇeṣu maharṣīṇāṃ mahātmanām |
saṃsthāne sarvalokānāṃ devānāṃ cāpi sambhave

117.6

देवतार्थेऽमृतार्थे च यज्ञार्थे चैव भारत ।
सुरभिर्नाम विख्याता रोहिणी कामरूपिणी

devatārthe'mṛtārthe ca yajñārthe caiva bhārata |
surabhirnāma vikhyātā rohiṇī kāmarūpiṇī

117.7

सङ्कल्प्य मनसा पूर्वं रोहिणी ह्यमृतात्मना ।
घोरं तपः समास्थाय निर्मिती विस्वकर्मणा

saṅkalpya manasā pūrvaṃ rohiṇī hyamṛtātmanā |
ghoraṃ tapaḥ samāsthāya nirmitī visvakarmaṇā

117.8

पुरुषं चासृजद्भूस्तेजसा तपसा च ह ।
देदीप्यमानं वपुषा समिद्धमिव पावकम्

puruṣaṃ cāsṛjadbhūstejasā tapasā ca ha |
dedīpyamānaṃ vapuṣā samiddhamiva pāvakam

117.9

सोऽपश्यदिष्टरूपां तां सुरभिं रोहिणीं तदा ।
दृष्ट्वैव चातिविमनाः सोऽभवत्काममोहितः

so'paśyadiṣṭarūpāṃ tāṃ surabhiṃ rohiṇīṃ tadā |
dṛṣṭvaiva cātivimanāḥ so'bhavatkāmamohitaḥ

117.10

तं कामार्तमथो ज्ञात्वा स्वयंभूर्लोकभावनः ।
माऽऽर्तो भव तथा चैष भगवानभ्यभाषत

taṃ kāmārtamatho jñātvā svayaṃbhūrlokabhāvanaḥ |
mā''rto bhava tathā caiṣa bhagavānabhyabhāṣata

117.11

ततः स भगवांस्तत्र मार्ताण्ड इति विश्रुतः ।
चकार नाम तं दृष्ट्वा तस्यार्तीभावमुत्तमम्

tataḥ sa bhagavāṃstatra mārtāṇḍa iti viśrutaḥ |
cakāra nāma taṃ dṛṣṭvā tasyārtībhāvamuttamam

117.12

सोऽददाद्भगवांस्तस्मै मार्ताण्डाय महात्मने ।
सुरूपां सुरभिं कन्यां तपस्तेजोमयीं शुभाम्

so'dadādbhagavāṃstasmai mārtāṇḍāya mahātmane |
surūpāṃ surabhiṃ kanyāṃ tapastejomayīṃ śubhām

117.13

यथा मयैष चोद्भूतस्त्वं चैवषा च रोहिणी ।
मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा

yathā mayaiṣa codbhūtastvaṃ caivaṣā ca rohiṇī |
maithunaṃ gatavantau ca tathā cotpatsyati prajā

117.14

प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् ।
न चाप्यगम्यागमनाद्दोषं प्राप्स्यसि कर्हिचित्

prajā bhaviṣyate puṇyā pavitraṃ paramaṃ ca vām |
na cāpyagamyāgamanāddoṣaṃ prāpsyasi karhicit

117.15

त्वत्प्रजासम्भवं क्षीरं भविष्यति परं हविः ।
यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः

tvatprajāsambhavaṃ kṣīraṃ bhaviṣyati paraṃ haviḥ |
yajñeṣu cājyabhāgānāṃ tvatprajāmūlajo vidhiḥ

117.16

प्रजाशुश्रूषवश्चैव ये भविष्यन्ति रोहिणि ।
तव तेनैव पुण्येनि गोलोकं यान्तु मानवाः

prajāśuśrūṣavaścaiva ye bhaviṣyanti rohiṇi |
tava tenaiva puṇyeni golokaṃ yāntu mānavāḥ

117.17

इदं पवित्रं परममृषभं नाम कर्हिचित् ।
यद्वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसङ्करात्

idaṃ pavitraṃ paramamṛṣabhaṃ nāma karhicit |
yadvai jñātvā dvijā loke mokṣyante yonisaṅkarāt

117.18

एतत्क्रियाः प्रवर्तन्ते मन्त्रब्राह्मणसंस्कृताः ।
देवतानां वितॄणां च हव्यकव्यपुरोगमाः

etatkriyāḥ pravartante mantrabrāhmaṇasaṃskṛtāḥ |
devatānāṃ vitṝṇāṃ ca havyakavyapurogamāḥ

117.19

तत एतेन पुण्येन प्रजास्तव तु रोहिणि ।
ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः

tata etena puṇyena prajāstava tu rohiṇi |
ūrdhvaṃ mamāpi lokasya vatsyante nirupadravāḥ

117.20

भद्रं तेभ्यश्च भद्रं ते ये प्रजासु भवन्ति वै ।
युगन्धराश्च ते पुत्राः सन्तु लोकस्य धारणे

bhadraṃ tebhyaśca bhadraṃ te ye prajāsu bhavanti vai |
yugandharāśca te putrāḥ santu lokasya dhāraṇe

117.21

यान्यान्कामयसे लोकांस्ताँल्लोकाननुयास्यसि ।
सर्वदेवगणश्चैव तव यास्यन्ति पुत्रताम् ।
तव स्तनसमुद्भूतं पिबन्तोऽमृतमुत्तमम्

yānyānkāmayase lokāṃstām̐llokānanuyāsyasi |
sarvadevagaṇaścaiva tava yāsyanti putratām |
tava stanasamudbhūtaṃ pibanto'mṛtamuttamam

117.22

एवमेतान्वरान्सर्वानगृह्णात्सुरभिस्तदा ।
ब्रुवतः सर्वलोकेशान्निर्वृतिं चागमत्पराम्

evametānvarānsarvānagṛhṇātsurabhistadā |
bruvataḥ sarvalokeśānnirvṛtiṃ cāgamatparām

117.23

सृष्ट्वा प्रजाश्च विपुला लोकसन्धारणाय वै ।
ब्रह्मणा समनुज्ञाता सुरभिर्लोकमाविशत्

sṛṣṭvā prajāśca vipulā lokasandhāraṇāya vai |
brahmaṇā samanujñātā surabhirlokamāviśat

117.24

एवं वरप्रदानेन स्वयंभोरेव भारत ।
उपरिष्टाद्गवां लोकः प्रोक्तस्ते सर्वमादितः

evaṃ varapradānena svayaṃbhoreva bhārata |
upariṣṭādgavāṃ lokaḥ proktaste sarvamāditaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)