आदि पर्व

अध्याय 85: चारों आश्रमों का धर्म

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाशीतितमोऽध्यायः ॥

22 श्लोक · 85 में से 261

इस अध्याय में क्या होता है

चारों आश्रमों का धर्म

अष्टक पूछते हैं कि गृहस्थ, भिक्षु, आचार्य और वानप्रस्थ धर्म का पालन कैसे करें। ययाति उत्तर देते हैं। ब्रह्मचारी बुलाने पर पढ़ता है, बिना कहे गुरु की सेवा करता है, पहले उठता और बाद में सोता है। गृहस्थ धर्म से कमाए धन से यज्ञ करे, दान दे, अतिथियों को भोजन कराए और बिना दिया कुछ न ले, यही गृहस्थ की प्राचीन उपनिषद् है। वनवासी मुनि अपने परिश्रम पर जीता है, किसी को कष्ट नहीं देता, आहार और चेष्टा को संयम में रखता है। भिक्षु किसी शिल्प से नहीं जीता, बिना घर के अकेला विचरता है, इन्द्रियाँ जीतकर। सच्चा मुनि गाँव में रहकर भी गाँव को पीछे रखता है। क्रोध, लोभ, मत्सर, शठता, दर्प और चुगली छोड़नी चाहिए। मुनि आठ ग्रास खाए, वनवासी सोलह, गृहस्थ बत्तीस, ब्रह्मचारी जितना चाहे।

अष्टक उवाच

85.1

चरन्गृहस्थः कथमेति धर्मान्कथं भिक्षुः कथमाचार्यकर्मा ।
वानप्रस्थः सत्पथे सन्निविष्टो
बहून्यस्मिन्संप्रति वेदयन्ति

carangṛhasthaḥ kathameti dharmānkathaṃ bhikṣuḥ kathamācāryakarmā |
vānaprasthaḥ satpathe sanniviṣṭo
bahūnyasminsaṃprati vedayanti

ययातिरुवाच

85.2

आहूताध्यायी गुरुकर्मस्वचोद्यः
पूर्वोत्थायी चरमं चोपशायी ।
मृदुर्दान्तो धृतिमानप्रमत्तः
स्वाध्याशीलः सिध्यति ब्रह्मचारी

āhūtādhyāyī gurukarmasvacodyaḥ
pūrvotthāyī caramaṃ copaśāyī |
mṛdurdānto dhṛtimānapramattaḥ
svādhyāśīlaḥ sidhyati brahmacārī

85.3

धर्मागतं प्राप्य धनं यजेत
दद्यात्सदैवातिथीन्भोजयेच्च ।
अनाददानश्च परैरदत्तं
सैषा गृहस्थोपनिषत्पुराणी

dharmāgataṃ prāpya dhanaṃ yajeta
dadyātsadaivātithīnbhojayecca |
anādadānaśca parairadattaṃ
saiṣā gṛhasthopaniṣatpurāṇī

85.4

स्ववीर्यजीवी वृजिनान्निवृत्तो
दाता परेभ्यो न परोपतापी ।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां
वसन्नरण्ये नियताहारचेष्टः

svavīryajīvī vṛjinānnivṛtto
dātā parebhyo na paropatāpī |
tādṛṅmuniḥ siddhimupaiti mukhyāṃ
vasannaraṇye niyatāhāraceṣṭaḥ

85.5

अशिल्पजीवी गुणवांश्चैव नित्यं
जितेन्द्रियः सर्वतो विप्रयुक्तः ।
अनोकशायी लघुरल्पप्रसार-
श्चरन्देशानेकचरः स भिक्षुः

aśilpajīvī guṇavāṃścaiva nityaṃ
jitendriyaḥ sarvato viprayuktaḥ |
anokaśāyī laghuralpaprasāra-
ścarandeśānekacaraḥ sa bhikṣuḥ

85.6

रात्र्या यया वाऽभिजिताश्च लोका
भवन्ति कामाभिजिताः सुखाश्च ।
तामेव रात्रिं प्रयतेत विद्वा-
नरण्यसंस्थो भवितुं यतात्मा

rātryā yayā vā'bhijitāśca lokā
bhavanti kāmābhijitāḥ sukhāśca |
tāmeva rātriṃ prayateta vidvā-
naraṇyasaṃstho bhavituṃ yatātmā

85.7

दशैव पूर्वान्दश चापरांश्च
ज्ञातीनथात्मानमथैकविंशम् ।
अरण्यवासी सुकृते दधाति
विमुच्यारण्ये स्वशरीरधातून्

daśaiva pūrvāndaśa cāparāṃśca
jñātīnathātmānamathaikaviṃśam |
araṇyavāsī sukṛte dadhāti
vimucyāraṇye svaśarīradhātūn

अष्टक उवाच

85.8

कतिस्विदेव मुनयः कति मौनानि चाप्युत ।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्

katisvideva munayaḥ kati maunāni cāpyuta |
bhavantīti tadācakṣva śrotumicchāmahe vayam

ययातिरुवाच

85.9

अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप

araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ |
grāme vā vasato'raṇyaṃ sa muniḥ syājjanādhipa

अष्टक उवाच

85.10

कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः

kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ |
grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ

ययातिरुवाच

85.11

न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् ।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः

na grāmyamupayuñjīta ya āraṇyo munirbhavet |
tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ

85.12

अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः ।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्

anagniraniketaścāpyagotracaraṇo muniḥ |
kaupīnācchādanaṃ yāvattāvadicchecca cīvaram

85.13

यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् ।
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः

yāvatprāṇābhisandhānaṃ tāvadicchecca bhojanam |
tathā'sya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ

85.14

यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात्

yastu kāmānparityajya tyaktakarmā jitendriyaḥ |
ātiṣṭhecca munirmaunaṃ sa loke siddhimāpnuyāt

85.15

धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् ।
असितं सितकर्माणं कस्तमर्हति नार्चितुम्

dhautadantaṃ kṛttanakhaṃ sadā snātamalaṅkṛtam |
asitaṃ sitakarmāṇaṃ kastamarhati nārcitum

85.16

तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः ।
स च लोकमिमं जित्वा लोकं विजयते परम्

tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ |
sa ca lokamimaṃ jitvā lokaṃ vijayate param

85.17

यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ।
अथ लोकमिमं जित्वा लोकं विजयते परम्

yadā bhavati nirdvandvo munirmaunaṃ samāsthitaḥ |
atha lokamimaṃ jitvā lokaṃ vijayate param

85.18

आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते

āsyena tu yadā'hāraṃ govanmṛgayate muniḥ |
athāsya lokaḥ sarvo'yaṃ so'mṛtatvāya kalpate

85.19

सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा ।
विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम् ।
क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित्

sāmānyadharmaḥ sarveṣāṃ krodho lobho druhā'kṣamā |
vihāya matsaraṃ śāṭhyaṃ darpaṃ dambhaṃ ca paiśunam |
krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit

अष्टक उवाच

85.20

नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः ।
नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते

nityāśano brahmacārī gṛhastho vanago muniḥ |
nādharmamaśanātprāpyetkathaṃ brūhīha pṛcchate

ययातिरुवाच

85.21

अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः

aṣṭau grāsā muneḥ proktāḥ ṣoḍaśāraṇyavāsinaḥ |
dvātriṃśattu gṛhasthasya amitaṃ brahmacāriṇaḥ

85.22

इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम्

ityevaṃ kāraṇairjñeyamaṣṭakaitacchubhāśubham

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)