आदि पर्व

अध्याय 250: अर्जुन की अग्नि से अस्त्रों की माँग

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥

21 श्लोक · 250 में से 261

इस अध्याय में क्या होता है

अर्जुन की अग्नि से अस्त्रों की माँग

निराश अग्नि फिर भगवान ब्रह्मा के पास गए। ब्रह्मा ने कहा, कुछ समय प्रतीक्षा करो: प्राचीन देव नर और नारायण देवताओं के कार्य के लिए मनुष्य लोक में जन्म लेंगे, और उनके साथ तुम वन जलाओगे। अब वह समय आ गया है, ब्रह्मा ने कहा; वे अर्जुन और वासुदेव हैं, और वे मिलकर हर प्राणी को और स्वयं इन्द्र को रोक लेंगे। इसलिए अग्नि उनकी सहायता माँगने आए हैं। अर्जुन उत्तर देते हैं कि मेरे पास अनेक दिव्य अस्त्र हैं, मैं कई वज्रधारियों से भी लड़ सकता हूँ, पर मेरी भुजाओं के बल के योग्य धनुष नहीं, अक्षय तूणीर नहीं, बाणों का भार सह सके ऐसा रथ नहीं, वायु-वेग वाले श्वेत घोड़े नहीं। श्रीकृष्ण के योग्य भी कोई आयुध नहीं। साधन दीजिए, अर्जुन कहते हैं, कर्म मैं करूँगा।

वैशंपायन उवाच

250.1

स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः ।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः

sa tu nairāśyamāpannaḥ sadā glānisamanvitaḥ |
pitāmahamupāgacchatsaṃkruddho havyavāhanaḥ

250.2

तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत् ।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु

tacca sarvaṃ yathānyāyaṃ brahmaṇe saṃnyavedayat |
uvāca caivanaṃ bhagavānmuhūrtaṃ sa vicintya tu

250.3

उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ ।
कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान्

upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase'nagha |
kālaṃ ca kaṃcitkṣamatāṃ tatastaddhakṣyate bhavān

250.4

भविष्यतः सहायौ ते नरनारायणौ तदा ।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन

bhaviṣyataḥ sahāyau te naranārāyaṇau tadā |
tābhyāṃ tvaṃ sahito dāvaṃ dhakṣyase havyavāhana

250.5

एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत ।
संभूतौ तौ विदित्वा तु नरनारायणावृषी

evamastviti taṃ vahnirbrahmāṇaṃ pratyabhāṣata |
saṃbhūtau tau viditvā tu naranārāyaṇāvṛṣī

250.6

कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः ।
अनुस्मृत्य जगामाथ पुनरेव पितामहम्

kālasya mahato rājaṃstasya vākyaṃ svayaṃbhuvaḥ |
anusmṛtya jagāmātha punareva pitāmaham

250.7

अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल ।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः

abravīcca tadā brahmā yathā tvaṃ dhakṣyase'nala |
khāṇḍavaṃ dāvamadyaiva miṣato'sya śacīpateḥ

250.8

नरनारायणौ यौ तौ पूर्वदेवौ विभावसो ।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्

naranārāyaṇau yau tau pūrvadevau vibhāvaso |
saṃprāptau mānuṣe loke kāryārthaṃ hi divaukasām

250.9

अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते ।
तावेतौ सहितावेहि खाण्डवस्य समीपतः

arjunaṃ vāsudevaṃ ca yau tau loko'bhimanyate |
tāvetau sahitāvehi khāṇḍavasya samīpataḥ

250.10

तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च ।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि

tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca |
tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśairapi

250.11

तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः ।
देवराजं च सहितौ तत्र मे नास्ति संशयः

tau tu satvāni sarvāṇi yatnato vārayiṣyataḥ |
devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ

250.12

एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः ।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत

etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ |
kṛṣṇapārthāvupāgamya yamarthaṃ tvabhyabhāṣata

250.13

तं ते कथितवानस्मि पूर्वमेव नृपोत्तम ।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्

taṃ te kathitavānasmi pūrvameva nṛpottama |
tacchrutvā vacanaṃ tvagnerbībhatsurjātavedasam

250.14

अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः ।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः

abravīnnṛpaśārdūla tatkālasadṛśaṃ vacaḥ |
didhakṣuṃ khāṇḍavaṃ dāvamakāmasya śatakratoḥ

अर्जुन उवाच

250.15

उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्

uttamāstrāṇi me santi divyāni ca bahūni ca |
yairahaṃ śaknuyāṃ yoddhumapi vajradharānbahūn

250.16

धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् ।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम

dhanurme nāsti bhagavanbāhuvīryeṇa saṃmitam |
kurvataḥ samare yatnaṃ vegaṃ yadviṣahenmama

250.17

शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः ।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्

śaraiśca me'rtho bahubhirakṣayaiḥ kṣipramasyataḥ |
na hi voḍhuṃ rathaḥ śaktaḥ śarānmama yathepsitān

250.18

अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्

aśvāṃśca divyāniccheyaṃ pāṇḍurānvātaraṃhasaḥ |
rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam

250.19

तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे

tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam |
yena nāgānpiśācāṃśca nihanyānmādhavo raṇe

250.20

उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि ।
निवारयेयं येनेन्द्रं वर्षमाणं महावने

upāyaṃ karmasiddhau ca bhaghavanvaktumarhasi |
nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane

250.21

पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक ।
करणानि समर्थानि भगवन्दातुमर्हसि

pauruṣeṇa tu yatkāryaṃ tatkartā'haṃ sma pāvaka |
karaṇāni samarthāni bhagavandātumarhasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)