आदि पर्व

अध्याय 235: अर्जुन की तीर्थयात्रा और चित्राङ्गदा

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥

28 श्लोक · 235 में से 261

इस अध्याय में क्या होता है

अर्जुन की तीर्थयात्रा और चित्राङ्गदा

अर्जुन हिमालय के साथ अगस्त्यवट, वसिष्ठ पर्वत और भृगुतुङ्ग जाते हैं और ब्राह्मणों को गौएँ देते हैं। फिर पूर्व में नैमिषारण्य, कौशिकी, गया, गङ्गा तथा अङ्ग, वङ्ग और कलिङ्ग के तीर्थ देखते हैं, जहाँ साथी ब्राह्मण विदा लेते हैं। महेन्द्र पर्वत देखकर वे गोदावरी में और कावेरी-सागर सङ्गम पर स्नान करते हैं, फिर तट के साथ मणलूर पहुँचते हैं। वहाँ राजा चित्रवाहन की पुत्री चित्राङ्गदा को देखकर उसे माँगते हैं। राजा बताते हैं कि महादेव ने उनके कुल को हर पीढ़ी में एक ही सन्तान का वर दिया है; यह कन्या पुत्रिका है और इसका पुत्र यहीं रहकर वंश चलाएगा। अर्जुन स्वीकार कर विवाह करते हैं और तीन मास वहाँ रहते हैं।

वैशंपायन उवाच

235.1

कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः

kathayitvā ca tatsarvaṃ brāhmaṇebhyaḥ sa bhārata |
prayayau himavatpārśvaṃ tato vajradharātmajaḥ

235.2

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः

agastyavaṭamāsādya vasiṣṭhasya ca parvatam |
bhṛgutuṅge ca kaunteyaḥ kṛtavāñśaucamātmanaḥ

235.3

प्रददौ गोसहस्राणि सुबहूनि च भारत ।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः

pradadau gosahasrāṇi subahūni ca bhārata |
niveśāṃśca dvijātibhyaḥ so'dadatkurusattamaḥ

235.4

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च

hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ |
dṛṣṭavānpāṇḍavaśreṣṭhaḥ puṇyānyāyatanāni ca

235.5

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः

avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata |
prācīṃ diśamabhiprepsurjagāma bharatarṣabhaḥ

235.6

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति

ānupūrvyeṇa tīrthāni dṛṣṭavānkurusattamaḥ |
nadīṃ cotpalinīṃ ramyāmaraṇyaṃ naimiṣaṃ prati

235.7

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत

nandāmaparanandāṃ ca kauśikīṃ ca yaśasvinīm |
mahānadīṃ gayāṃ caiva gaṅgāmapi ca bhārata

235.8

एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः

evaṃ tīrthāni sarvāṇi paśyamānastathāśramān |
ātmanaḥ pāvanaṃ kurvanbrāhmaṇebhyo dadau ca gāḥ

235.9

अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् ।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च

aṅgavaṅgakaliṅgeṣu yāni tīrthāni kānicit |
jagāma tāni sarvāṇi puṇyānyāyatanāni ca

235.10

दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ।
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत

dṛṣṭvā ca vidhivattāni dhanaṃ cāpi dadau tataḥ |
kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ |
abhyanujñāya kaunteyamupāvartanta bhārata

235.11

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः ।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः

sa tu tairabhyanujñātaḥ kuntīputro dhanañjayaḥ |
sahāyairalpakaiḥ śūraḥ prayayau yatra sāgaraḥ

235.12

स कलिङ्गानतिक्रम्य देशानायतनानि च ।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः

sa kaliṅgānatikramya deśānāyatanāni ca |
harmyāṇi ramaṇīyāni prekṣaṇāṇo yayau prabhuḥ

235.13

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।
गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः

mahendraparvataṃ dṛṣṭvā tāpasairupaśobhitam |
godāvaryāṃ tataḥ snātvā tāmatītya mahābalaḥ

235.14

कावेरीं तां समासाद्य सङ्गमे सागरस्य च ।
स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह

kāverīṃ tāṃ samāsādya saṅgame sāgarasya ca |
snātvā saṃpūjya devāṃśca pitṝṃśca munibhiḥ saha

235.15

समुद्रतीरेण शनैर्मणलूरं जगाम ह

samudratīreṇa śanairmaṇalūraṃ jagāma ha

235.16

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्

tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca |
abhigamya mahābāhurabhyagacchanmahīpatim

235.17

मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना

maṇalūreśvaraṃ rājandharmajñaṃ citravāhanam |
tasya citrāṅgadā nāma duhitā cārudarśanā

235.18

तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्

tāṃ dadarśa pure tasminvicarantīṃ yadṛcchayā |
dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhanīm

235.19

अभिगम्य च राजानमवदत्स्वं प्रयोजनम् ।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने

abhigamya ca rājānamavadatsvaṃ prayojanam |
dehi me khalvimāṃ rājankṣatriyāya mahātmane

235.20

तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् ।
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः

tacchrutvā tvabravīdrājā kasya putro'si nāma kim |
uvāca taṃ pāṇḍavo'haṃ kuntīputro dhanañjayaḥ

235.21

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह

tamuvācātha rājā sa sāntvapūrvamidaṃ vacaḥ |
rājā prabhañjano nāma kule'sminsaṃbabhūva ha

235.22

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ।
उग्रेण तपसा तेन देवदेवः पिनाकधृक्

aputraḥ prasavenārthī tapastepe sa uttamam |
ugreṇa tapasā tena devadevaḥ pinākadhṛk

235.23

ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः ।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले

īśvarastoṣitaḥ pārtha devadevaḥ umāpatiḥ |
sa tasmai bhaghavānprādādekaikaṃ prasavaṃ kule

235.24

एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे

ekaikaḥ prasavastasmādbhavatyasminkule sadā |
teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire

235.25

एका च मम कन्येयं कुलस्योत्पादनी भृशम् ।
पुत्रो ममायमिति मे भावना पुरुषर्षभ

ekā ca mama kanyeyaṃ kulasyotpādanī bhṛśam |
putro mamāyamiti me bhāvanā puruṣarṣabha

235.26

पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ ।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया

putrikāhetuvidhinā saṃjñitā bharatarṣabha |
tasmādekaḥ suto yo'syāṃ jāyate bhārata tvayā

235.27

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव

etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatāmiha |
etena samayenemāṃ pratigṛhṇīṣva pāṇḍava

235.28

स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च ।
मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् ।
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह

sa tatheti pratijñāya tāṃ kanyāṃ pratigṛhya ca |
māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām |
uvāsa nagare tasminmāsāṃstrīnsa tayā saha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)