आदि पर्व

अध्याय 236: सौभद्र तीर्थ में अर्जुन और ग्राह

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥

23 श्लोक · 236 में से 261

इस अध्याय में क्या होता है

सौभद्र तीर्थ में अर्जुन और ग्राह

दक्षिण सागर के तट पर अर्जुन पाँच पवित्र तीर्थ पाते हैं जिनसे तपस्वी दूर रहते हैं: अगस्त्य, सौभद्र, पौलोम, कारन्धम और भारद्वाज तीर्थ। कारण पूछने पर मुनि बताते हैं कि इनमें पाँच ग्राह रहते हैं जो स्नान करने वालों को खींच ले जाते हैं। चेतावनी के बाद भी अर्जुन सौभद्र में उतरते हैं। एक विशाल ग्राह उनका पैर पकड़ लेता है; वे उसे छटपटाते हुए तट पर खींच लाते हैं, और वह आभूषणों से सजी तेजस्वी स्त्री बन जाती है। वह कुबेर की प्रिय अप्सरा वर्गा है। चार सखियों के साथ उसने एक रूपवान युवा ब्राह्मण का तप भङ्ग करने के लिए उसके चारों ओर गाया और हँसी की। वह विचलित न हुआ, और क्रोध में उन्हें सौ वर्ष तक जल में ग्राह बनकर रहने का शाप दे दिया।

वैशंपायन उवाच

236.1

ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभः ।
अभ्यगच्छत्सुपुण्यानि सोभितानि तपस्विभिः

tataḥ samudre tīrthāni dakṣime bharatarṣabhaḥ |
abhyagacchatsupuṇyāni sobhitāni tapasvibhiḥ

236.2

वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः ।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः

varjayanti sma tīrtāni tatra pañca sama tāpasāḥ |
avakīrṇāni yānyāsanpurastāttu tapasvibhiḥ

236.3

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।
कारन्धमं प्रसन्नं च महमेधफलं च तत्

agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam |
kārandhamaṃ prasannaṃ ca mahamedhaphalaṃ ca tat

236.4

भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् ।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः

bhāradvājasya tīrthaṃ tu pāpapraśamanaṃ mahat |
etāni pañca tīrthāni dadarśa kurusattamaḥ

236.5

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः

viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ |
dṛṣṭvā ca varjyamānāni munibhirdharmabuddhibhiḥ

236.6

तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः ।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः

tapasvinastato'pṛcchatprāñjaliḥ kurunandanaḥ |
tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ

तापसा ऊचुः

236.7

ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन

grāhāḥ pañca vasantyeṣu haranti ca tapodhanān |
tata etāni varjyante tīrthāni kurunandana

वैशंपायन उवाच

236.8

तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः

teṣāṃ śrutvā mahābāhurvāryamāṇastapodhanaiḥ |
jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ

236.9

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः

tataḥ saubhadramāsādya maharṣestīrthamuttamam |
vigāhya sahasā śūraḥ snānaṃ cakre parantapaḥ

236.10

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम्

atha taṃ puruṣavyāghramantarjalacaro mahān |
jagrāha caraṇe grāhaḥ kuntīputraṃ dhanañjayam

236.11

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः

sa tamādāya kaunteyo visphurantaṃ jalecaram |
udatiṣṭhanmahābāhurbalena balināṃ varaḥ

236.12

उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना ।
बभूव नारी कल्याणी सर्वाभरणभूषइता

utkṛṣṭa eva grāhastu so'rjunena yaśasvinā |
babhūva nārī kalyāṇī sarvābharaṇabhūṣaitā

236.13

दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः

dīpyamānā śriyā rājandivyarūpā manoramā |
tadadbhutaṃ mahaddṛṣṭvā kuntīputro dhanañjayaḥ

236.14

तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी

tāṃ striyaṃ paramaprīta idaṃ vacanamabravīt |
kā vai tvamasi kalyāṇikuto vā'si jalecarī

236.15

किमर्थं च महत्पापमिदं कृतवती पुरा ।
(वर्गोवाच)
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी

kimarthaṃ ca mahatpāpamidaṃ kṛtavatī purā |
(vargovāca)
apsarā'smi mahābāho devāraṇyavihāriṇī

236.16

इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः

iṣṭā dhanapaternityaṃ vargā nāma mahābala |
mama sakhyaścatasro'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ

236.17

ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् ।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्

tābhiḥ sārdhaṃ prayātā'smi lokapālaniveśanam |
tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam

236.18

रूपवन्तमधीयानमेकमेकान्तचारिणम् ।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम्

rūpavantamadhīyānamekamekāntacāriṇam |
tasyaiva tapasā rājaṃstadvayaṃ tejasā vṛtam

236.19

आदित्य इव तं देशं इत्वं सर्व व्यकाशयत् ।
तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम्

āditya iva taṃ deśaṃ itvaṃ sarva vyakāśayat |
tasya dṛṣṭvā tapastādṛgrūpacādbhutamuttamam

236.20

अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ।
अहं च सौरभेयी च समीची बुद्बुदा लता

avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā |
ahaṃ ca saurabheyī ca samīcī budbudā latā

236.21

यौगपद्येन तं विप्रमभ्यगच्छाम भारत ।
गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं

yaugapadyena taṃ vipramabhyagacchāma bhārata |
gāyantyo'thahasantyaśca lobhayitvā ca taṃ dvijaṃ

236.22

स च नास्मासु कृतवान्मनो वीर कथंचन ।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले

sa ca nāsmāsu kṛtavānmano vīra kathaṃcana |
nākampata mahātejāḥ sthitastapasi nirmale

236.23

सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः

so'śapatkupito'smāṃstu brāhmaṇaḥ kṣatriyarṣabha |
grāhabhūtā jale yūyaṃ cariṣyatha śataṃ samāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)