आदि पर्व

अध्याय 234: उलूपी द्वारा अर्जुन को नागलोक ले जाना

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥

37 श्लोक · 234 में से 261

इस अध्याय में क्या होता है

उलूपी द्वारा अर्जुन को नागलोक ले जाना

वेदपारङ्गत ब्राह्मण और पुराण कहने वाले सूत अर्जुन के साथ गङ्गाद्वार पहुँचते हैं और तट पर अग्निहोत्र जलाते हैं। अर्जुन गङ्गा में स्नान कर पितरों का तर्पण करते हैं। निकलते समय नाग कौरव्य की पुत्री उलूपी उन्हें जल के भीतर अपने पिता के भवन में खींच ले जाती है। वहाँ अग्निकार्य पूरा कर वे उसका परिचय पूछते हैं। वह प्रेम प्रकट करती है। अर्जुन ब्रह्मचर्य का व्रत बताते हैं। उलूपी कहती है कि वह नियम केवल द्रौपदी के विषय में है, शरणागत की रक्षा धर्म है, और न मानने पर वह प्राण त्याग देगी। धर्म का विचार कर अर्जुन मान जाते हैं। उस रात से इरावान का जन्म होता है। सूर्योदय पर उलूपी उन्हें गङ्गाद्वार लौटाती है और जल में अजेय होने का वर देती है।

वैशंपायन उवाच

234.1

तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः

taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram |
anujagmurmahātmāno brāhmaṇā vedapāragāḥ

234.2

वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः ।
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये

vedavedāṅgavidvāsastathaivādhyātmacintakāḥ |
bhaikṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye

234.3

कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः

kathakāścāpare rājañśramaṇāśca vanaukasaḥ |
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ

234.4

एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः ।
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः

etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ |
vṛtaḥ ślakṣṇakathaiḥ prāyānmarudbhiriva vāsavaḥ

234.5

रमणीयानि चित्राणि वनानि च सरांसि च ।
सरितः सागरांश्चैव देशानपि च भारत

ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca |
saritaḥ sāgarāṃścaiva deśānapi ca bhārata

234.6

पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः ।
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः

puṇyānyapi ca tīrthāni dadarśa bharatarṣabhaḥ |
sa gaṅgādvāramāśritya niveśamakarotprabhuḥ

234.7

तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय ।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः

tatra tasyādbhutaṃ karma śṛṇu tvaṃ janamejaya |
kṛtavānyadviśuddhātmā pāṇḍūnāṃ pravaro hi saḥ

234.8

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः

niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata |
agnihotrāṇi viprāste prāduścakruranekaśaḥ

234.9

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च ।
कृतपुष्पोपहारेषु तीरान्तरगतेषु च

teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca |
kṛtapuṣpopahāreṣu tīrāntaragateṣu ca

234.10

कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथे स्थितैः ।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः

kṛtābhiṣekairvidvadbhirniyataiḥ satpathe sthitaiḥ |
śuśubhe'tīva tadrājangaṅgādvāraṃ mahātmabhiḥ

234.11

तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः ।
अभिषेकाय कौन्तेयो गङ्गामवततार ह

tathā paryākule tasminniveśe pāṇḍavarṣabhaḥ |
abhiṣekāya kaunteyo gaṅgāmavatatāra ha

234.12

तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया

tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān |
uttitīrṣurjalādrājannagnikāryacikīrṣayā

234.13

अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।
अन्तर्जले महाराज उलूप्या कामयानया

apakṛṣṭo mahābāhurnāgarājasya kanyayā |
antarjale mahārāja ulūpyā kāmayānayā

234.14

ददर्श पाण्डवस्तत्र पावकं सुसमाहितः ।
कौरव्यस्याथ नागस्य भवने परमार्चिते

dadarśa pāṇḍavastatra pāvakaṃ susamāhitaḥ |
kauravyasyātha nāgasya bhavane paramārcite

234.15

तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः ।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः

tatrāgnikāryaṃ kṛtavānkuntīputro dhanañjayaḥ |
aśaṅkamānena hutastenātuṣyaddhutāśanaḥ

234.16

अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।
प्रसहन्निव कौन्तेय इदं वचनमब्रवीत्

agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā |
prasahanniva kaunteya idaṃ vacanamabravīt

234.17

किमिदं साहसं भीरु कृतवत्यसि भामिनि ।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा

kimidaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini |
kaścāyaṃ subhage deśaḥ kā ca tvaṃ kasya vātmajā

उलूप्युवाच

234.18

ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी

airāvatakule jātaḥ kauravyo nāma pannagaḥ |
tasyāsmi duhitā rājannulūpī nāma pannagī

234.19

साऽहं त्वामभिषेकार्थमवतीर्णं समुद्गाम् ।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता

sā'haṃ tvāmabhiṣekārthamavatīrṇaṃ samudgām |
dṛṣṭvaiva puruṣavyāghra kandarpeṇābhimūrcchitā

234.20

तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन ।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ

tāṃ māmanaṅgaglapitāṃ tvatkṛte kurunandana |
ananyāṃ nandayasvādya pradānenātmano'nagha

अर्जुन उवाच

234.21

ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम् ।
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः

brahmacaryamidaṃ bhadre mama dvādaśamāsikam |
dharmarājena cādiṣṭaṃ nāhamasmi svayaṃ vaśaḥ

234.22

तव चापि प्रियं कर्तुमिच्छामि जलचारिणि ।
अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्

tava cāpi priyaṃ kartumicchāmi jalacāriṇi |
anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit

234.23

कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत् ।
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे

kathaṃ ca nānṛtaṃ me syāttava cāpi priyaṃ bhavet |
na ca pīḍyeta me dharmastathā kuryā bhujaṅgame

उलूप्युवाच

234.24

जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः

jānāmyahaṃ pāṇḍaveya yathā carasi medinīm |
yathā ca te brahmacaryamidamādiṣṭavānguruḥ

234.25

परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति ।
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशमासिकम्

parasparaṃ vartamānāndrupadasyātmajāṃ prati |
yo no'nupraviśenmohātsa vai dvādaśamāsikam

234.26

वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ।
तदिदं दौपदीहेतोरन्योन्यस्य प्रवासनम्

vane caredbrahmacaryamiti vaḥ samayaḥ kṛtaḥ |
tadidaṃ daupadīhetoranyonyasya pravāsanam

234.27

कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ।
परित्राणं च कर्तव्यमार्तानां पृथुलोचन

kṛtavāṃstatra dharmārthamatra dharmo na duṣyati |
paritrāṇaṃ ca kartavyamārtānāṃ pṛthulocana

234.28

कृत्वा मम परित्राणं तव धर्मो न लुप्यते ।
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः

kṛtvā mama paritrāṇaṃ tava dharmo na lupyate |
yadi vāpyasya dharmasya sūkṣmo'pi syādvyatikramaḥ

234.29

स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन ।
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो

sa ca te dharma eva syāddatvā prāṇānmamārjuna |
bhaktāṃ ca bhaja māṃ pārtha satāmetanmataṃ prabho

234.30

न करिष्यसि चेदेवं मृतां मामुपधारय ।
प्राणदानान्महाबाहो चर धर्ममनुत्तमम्

na kariṣyasi cedevaṃ mṛtāṃ māmupadhāraya |
prāṇadānānmahābāho cara dharmamanuttamam

234.31

शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ।
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः

śaraṇaṃ ca prapannāsmi tvāmadya puruṣottama |
dīnānanāthānkaunteya parirakṣasi nityaśaḥ

234.32

साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता ।
याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम् ।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि

sā'haṃ śaṟaṇamabhyemi roravīmi ca duḥkhitā |
yāce tvāṃ cābhikāmāhaṃ tasmātkuru mama priyam |
sa tvamātmapradānena sakāmāṃ kartumarhasi

वैशंपायन उवाच

234.33

एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम्

evamuktastu kaunteyaḥ pannageśvarakanyayā |
kṛtavāṃstattathā sarvaṃ dharmamuddiśya kāraṇam

234.34

स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।
पुत्रमुत्पादयामास स तस्यां सुमनोहरम्

sa nāgabhavane rātriṃ tāmuṣitvā pratāpavān |
putramutpādayāmāsa sa tasyāṃ sumanoharam

234.35

इरावन्तं महाभागं महाबलपराक्रमम् ।
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्

irāvantaṃ mahābhāgaṃ mahābalaparākramam |
udite'bhyutthitaḥ sūrye kauravyasya niveśanāt

234.36

आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह ।
परित्यज्य गता साध्वी उलूपी निजमन्दिरं

āgatastu punastatra gaṅgādvāraṃ tayā saha |
parityajya gatā sādhvī ulūpī nijamandiraṃ

234.37

दत्त्वा वरमजेयत्वं जले सर्वत्र भारत ।
साध्या जलचराः सर्वे भविष्यन्ति न संशयः

dattvā varamajeyatvaṃ jale sarvatra bhārata |
sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)