आदि पर्व

अध्याय 190: वसिष्ठ कौन हैं और पुरोहित क्यों आवश्यक

इति श्रीमन्महाभारते आदिपर्वमि चैत्ररथपर्वणि नवत्यधिकशततमोऽध्यायः ॥

16 श्लोक · 190 में से 261

इस अध्याय में क्या होता है

वसिष्ठ कौन हैं और पुरोहित क्यों आवश्यक

अर्जुन गन्धर्व से पूछते हैं कि उनके पूर्वजों के पुरोहित वसिष्ठ कौन थे। गन्धर्व बताता है कि वसिष्ठ ब्रह्मा के मानस पुत्र और अरुन्धती के पति हैं। जिन काम और क्रोध को देवता भी नहीं जीत पाते, वे उनकी तपस्या से जीते जाकर उनके चरण दबाते थे। विश्वामित्र के अपराध से पुत्रों के मारे जाने पर, और उन्हें यमलोक से लौटा लाने में समर्थ होकर भी, उन्होंने कुशिक वंश का नाश नहीं किया और काल की मर्यादा नहीं लाँघी। उन्हें पुरोहित पाकर इक्ष्वाकु राजाओं ने पृथ्वी जीती। अन्त में गन्धर्व सीधी सलाह देता है कि पृथ्वी जीतने का इच्छुक क्षत्रिय पहले किसी विद्वान, जितेन्द्रिय ब्राह्मण को पुरोहित बनाए।

वैशंपायन उवाच

190.1

स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ ।
अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ

sa gandharvavacaḥ śrutvā tattadā bharatarṣabha |
arjunaḥ parayā bhaktyā pūrṇacandra ivābabhau

190.2

उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः ।
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात्

uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ |
jātakautūhalo'tīva vasiṣṭhasya tapobalāt

190.3

वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम् ।
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे

vasiṣṭha iti tasyaitadṛṣernāma tvayeritam |
etadicchāmyahaṃ śrotuṃ yathāvattadvadasva me

190.4

य एष गन्धर्वपते पूर्वेषां नः पुरोहितः ।
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः

ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ |
āsīdetanmamācakṣva ka eṣa bhagavānṛṣiḥ

गन्धर्व उवाच

190.5

ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः ।
तपसा निर्जितौ शश्वदजेयावमरैरपि

brahmaṇo mānasaḥ putro vasiṣṭho'rundhatīpatiḥ |
tapasā nirjitau śaśvadajeyāvamarairapi

190.6

कामक्रोधावुभौ यस्य चरणौ समुवाहतुः ।
इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते

kāmakrodhāvubhau yasya caraṇau samuvāhatuḥ |
indriyāṇāṃ vaśakaro vaśiṣṭha iti cocyate

190.7

यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः ।
जितारयो जिता लोकाः पन्थानश्च जिता दिशः

yathā kāmaśca krodhaśca nirjitāvajitau naraiḥ |
jitārayo jitā lokāḥ panthānaśca jitā diśaḥ

190.8

यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः ।
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम्

yastu nocchedanaṃ cakre kuśikānāmudāradhīḥ |
viśvāmitrāparādhena dhārayanmanyumuttamam

190.9

पुत्रव्यसनसंतप्तः शक्तिमानप्यशक्तवत् ।
विश्वामित्रविनाशाय न चक्रे कर्म दारुणम्

putravyasanasaṃtaptaḥ śaktimānapyaśaktavat |
viśvāmitravināśāya na cakre karma dāruṇam

190.10

मृतांश्च पुनराहर्तुं शक्तः पुत्रान्यमक्षयात् ।
कृतान्तं नातिचक्राम वेलामिव महोदधिः

mṛtāṃśca punarāhartuṃ śaktaḥ putrānyamakṣayāt |
kṛtāntaṃ nāticakrāma velāmiva mahodadhiḥ

190.11

यं प्राप्य विजितात्मानं महात्मानं नराधिपाः ।
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम्

yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ |
ikṣvākavo mahīpālā lebhire pṛthivīmimām

190.12

पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम् ।
ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दन

purohitamimaṃ prāpya vasiṣṭhamṛṣisattamam |
ījire kratubhiścaiva nṛpāste kurunandana

190.13

स हि तान्याजयामास सर्वान्नृपतिसत्तमान् ।
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान्

sa hi tānyājayāmāsa sarvānnṛpatisattamān |
brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatirivāmarān

190.14

तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः ।
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रतिदृश्यताम्

tasmāddharmapradhānātmā vedadharmavidīpsitaḥ |
brāhmaṇo guṇavānkaścitpurodhāḥ pratidṛśyatām

190.15

क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता ।
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये

kṣatriyeṇābhijātena pṛthivīṃ jetumicchatā |
pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye

190.16

महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःस्कृतम् ।
तस्मात्पुरोहितः कश्चिद्गुणवान्विजितेन्द्रियः ।
विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित्

mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥskṛtam |
tasmātpurohitaḥ kaścidguṇavānvijitendriyaḥ |
vidvānbhavatu vo vipro dharmakāmārthatattvavit

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)