आदि पर्व

अध्याय 184: व्यास द्रौपदी के पूर्वजन्म की कथा कहते हैं

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥

16 श्लोक · 184 में से 261

इस अध्याय में क्या होता है

व्यास द्रौपदी के पूर्वजन्म की कथा कहते हैं

पाण्डव छिपकर रह रहे हैं, तभी सत्यवती पुत्र व्यास उनसे मिलने आते हैं। व्यास पूछते हैं कि क्या वे धर्म और शास्त्र के अनुसार चलते हैं और ब्राह्मणों का आदर करते हैं। फिर वे एक तपोवन की ऋषिकन्या की कथा कहते हैं, जिसे अपने पूर्व कर्मों से पति नहीं मिला। उसने उग्र तप से भगवान शंकर को प्रसन्न किया। वर माँगने पर उसने बार बार कहा, मुझे सर्वगुणसम्पन्न पति चाहिए। शंकर ने कहा, तुम्हारे पाँच पति होंगे, क्योंकि तुमने पाँच बार माँगा। उसने कहा, मुझे एक ही चाहिए, पर शंकर बोले, दूसरे देह में यही होगा। वही कन्या अब द्रुपद के घर कृष्णा बनकर जन्मी है, तुम्हारी पत्नी होने के लिए। पांचाल जाओ, यह कहकर व्यास चले जाते हैं।

वैशंपायन उवाच

184.1

वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु ।
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः

vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu |
ājagāmātha tāndraṣṭuṃ vyāsaḥ satyavatīsutaḥ

184.2

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः ।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा

tamāgatamabhiprekṣya pratyudgamya parantapāḥ |
praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā

184.3

समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् ।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः

samanujñāpya tānsarvānāsīnānmunirabravīt |
pracchannaṃ pūjitaḥ pārthaiḥ prītipūrvamidaṃ vacaḥ

184.4

अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः ।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते

api dharmeṇa vartadhvaṃ śāstreṇa ca parantapāḥ |
api vipreṣu pūjā vaḥ pūjārheṣu na hīyate

184.5

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः ।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्

atha dharmārthavadvākyamuktvā sa bhagavānṛṣiḥ |
vicitrāśca kathāstāstāḥ punarevedamabravīt

184.6

आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता

āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ |
vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā

184.7

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती

karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata |
nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī

184.8

तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः ।
तोषयामास तपसा सा किलोग्रेण शङ्करम्

tapastaptumathārebhe patyarthamasukhā tataḥ |
toṣayāmāsa tapasā sā kilogreṇa śaṅkaram

184.9

तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम् ।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः

tasyāḥ sa bhagavāṃstuṣṭastāmuvāca yaśasvinīm |
varaṃ varaya bhadraṃ te varado'smīti śaṅkaraḥ

184.10

अथेश्वरमुवाचेदमात्मनः सा वचो हितम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः

atheśvaramuvācedamātmanaḥ sā vaco hitam |
patiṃ sarvaguṇopetamicchāmīti punaḥpunaḥ

184.11

तामथ प्रत्युवाचेदमीशानो वदतां वरः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः

tāmatha pratyuvācedamīśāno vadatāṃ varaḥ |
pañca te patayo bhadre bhaviṣyantīti bhāratāḥ

184.12

एवमुक्ता ततः कन्या देवं वरदमब्रवीत् ।
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो

evamuktā tataḥ kanyā devaṃ varadamabravīt |
ekamicchāmyahaṃ deva tvatprasādātpatiṃ prabho

184.13

पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः

punarevābravīddeva idaṃ vacanamuttamam |
pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ

184.14

देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ।
(व्यास उवाच)
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी

dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati |
(vyāsa uvāca)
drupadasya kule jajñe sā kanyā devarūpiṇī

184.15

निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ।
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः ।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः

nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā |
pāñcālanagare tasmānnivasadhvaṃ mahābalāḥ |
sukhinastāmanuprāpya bhaviṣyatha na saṃśayaḥ

184.16

एवमुक्त्वा महाभागः पाण्डवान्स पितामहः ।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः

evamuktvā mahābhāgaḥ pāṇḍavānsa pitāmahaḥ |
pārthānāmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)