उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 45: वार्षिक श्राद्ध और अन्य श्राद्ध

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रत्याब्दिकादिश्राद्धनिरूपणं नाम पञ्चचत्वारिंशोऽध्यायः ॥

33 श्लोक · 45 में से 49

इस अध्याय में क्या होता है

वार्षिक श्राद्ध और अन्य श्राद्ध

श्रीविष्णु प्रत्याब्दिक, अर्थात हर वर्ष मृत्यु-तिथि पर होने वाले श्राद्ध की विधि बताते हैं। अग्निहोत्री पुत्र, या जिनके पिता अग्निहोत्री थे, इसे तीन पीढ़ियों के लिए पार्वण रूप में करते हैं; कुछ आचार्य इसे एक व्यक्ति के लिए एकोद्दिष्ट मानते हैं। पुत्रहीन पुरुषों और स्त्रियों के लिए एकोद्दिष्ट होता है। उस दिन सूतक हो तो सूतक समाप्त होने पर श्राद्ध किया जाता है। मृत्यु का दिन ज्ञात न हो तो ज्ञात मास की अमावस्या को, और दोनों अज्ञात हों तो घर से निकलने के दिन या समाचार मिलने के दिन श्राद्ध होता है। अनजाने सूतक का दोष न दाता को लगता है न भोक्ता को। फिर वे नित्य श्राद्ध, देवश्राद्ध, और शुभ कार्यों से पहले होने वाले वृद्धिश्राद्ध का वर्णन करते हैं।

श्रीविष्णुरुवाच

45.1

प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर ।
प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ

pratyabdaṃ śrāddhamevaṃ te kathayāmi khageśvara |
pratyabdaṃ pārvaṇenaiva kuryātāṃ kṣetrajorasau

45.2

विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम्

vidhinācetarairevamekoddiṣṭaṃ na pārvaṇam

45.3

अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ ।
एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम्

anagneśca sutau syātāmanagnī kṣetrajorasau |
ekoddiṣṭaṃ na kuryātāṃ pratyabdaṃ tau tu pārvaṇam

45.4

यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता ।
प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ

yadā tvanyataraḥ sāgniḥ putro vāpyathavā pitā |
pratyabdaṃ pārvaṇaṃ tatra kuryātāṃ kṣetrajaurasau

45.5

अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा ।
एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन

anagnayaḥ sāgnayo vā putrā vā pitaro'pi vā |
ekoddiṣṭaṃ sutaiḥ kāryaṃ kṣayāha iti kecana

45.6

दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः ।
प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि

darśakāle kṣayo yasya pretapakṣe'tha vā punaḥ |
pratyabdaṃ pārvaṇaṃ kāryaṃ tasya sarvaiḥ sutairapi

45.7

एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि ।
एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि ।
बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा

ekoddiṣṭamaputrāṇāṃ puṃsāṃ syādyopitāmapi |
ekoddiṣṭe kuśā grāhyāḥ samūlā yajñakarmaṇi |
bahirlūnāḥ sakṛllanāḥ śrāddhaṃ vṛddhimṛte sadā

45.8

कर्तव्ये पार्वणे श्राद्धे आशौचं यदि जायते ।
आशौचावगमे कुर्याच्छ्राद्धं हि तदनन्तरम्

kartavye pārvaṇe śrāddhe āśaucaṃ yadi jāyate |
āśaucāvagame kuryācchrāddhaṃ hi tadanantaram

45.9

एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते ।
मासेन्यस्मिन् तिथौ तस्यां कुर्याच्छ्राद्धं तदैव हि

ekoddiṣṭe tu samprāpte yadi vighnaḥ prajāyate |
māsenyasmin tithau tasyāṃ kuryācchrāddhaṃ tadaiva hi

45.10

तूष्णीं श्राद्धान्तु शूद्रस्य भार्यायास्तत्सुतस्य च ।
कन्यायाश्च द्विजातीनामनुपेतद्विजस्य च

tūṣṇīṃ śrāddhāntu śūdrasya bhāryāyāstatsutasya ca |
kanyāyāśca dvijātīnāmanupetadvijasya ca

45.11

एककाले गता सूनां बहूनामथ वा द्वयोः ।
तन्त्रेण श्रपणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक्

ekakāle gatā sūnāṃ bahūnāmatha vā dvayoḥ |
tantreṇa śrapaṇaṃ kuryācchrāddhaṃ kuryātpṛthakpṛthak

45.13

दद्यात्पूर्वं मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात्संनिपाते त्वयं विधिः
प्रत्यब्दमेवं यः कुर्याद्यथातथमतन्द्रितः ।
तारयित्वा पितॄन् सर्वान् प्राप्नोति परमां गतिम्

dadyātpūrvaṃ mṛtasyādau dvitīyasya tataḥ punaḥ |
tṛtīyasya tataḥ kuryātsaṃnipāte tvayaṃ vidhiḥ
pratyabdamevaṃ yaḥ kuryādyathātathamatandritaḥ |
tārayitvā pitṝn sarvān prāpnoti paramāṃ gatim

45.14

न ज्ञायते मृताहश्चेत्प्रस्थानदिनमेव च ।
मासश्चेत्स्यात्परिज्ञातस्तद्दर्शे स्यान्मृताहिकम्

na jñāyate mṛtāhaścetprasthānadinameva ca |
māsaścetsyātparijñātastaddarśe syānmṛtāhikam

45.15

यदा मासो न विज्ञातो विज्ञातं दिनमेव च ।
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत्

yadā māso na vijñāto vijñātaṃ dinameva ca |
tadā mārgaśire māsi māghe vā taddinaṃ bhavet

45.16

दिनमासावविज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ श्राद्धे मयोदितौ

dinamāsāvavijñātau maraṇasya yadā punaḥ |
prasthānadinamāsau tu grāhyau śrāddhe mayoditau

45.17

प्रस्थानस्यापि न ज्ञातौ दिनमासौ यदा पुनः ।
मृतवार्ताश्रुतौ ग्राह्यौ पूर्वप्रोक्तक्रमेण तु

prasthānasyāpi na jñātau dinamāsau yadā punaḥ |
mṛtavārtāśrutau grāhyau pūrvaproktakrameṇa tu

45.18

प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा ।
तदानीमपि तौ ग्राह्यौ पूर्ववत्तु मृताहिके

pravāsamantareṇāpi syātāṃ tau vismṛtau yadā |
tadānīmapi tau grāhyau pūrvavattu mṛtāhike

45.19

गृहस्थे प्रोषिते यच्च कश्चित्तु म्रियते गृहे ।
आसौचापगमे यत्र प्रारब्धे श्राद्धकर्मणि

gṛhasthe proṣite yacca kaścittu mriyate gṛhe |
āsaucāpagame yatra prārabdhe śrāddhakarmaṇi

45.20

प्रत्यागतश्चेज्जानाति तत्र वृत्तं गृही तथा ।
आशौचं गृहिणस्तेषां न द्रव्यादेस्तदा भवेत्

pratyāgataścejjānāti tatra vṛttaṃ gṛhī tathā |
āśaucaṃ gṛhiṇasteṣāṃ na dravyādestadā bhavet

45.21

पुत्रादिना यदारब्धं श्राद्धं तत्त्वेन वाखिलम् ।
समापनीयं तत्रापि श्राद्धं गृहीतु दूरतः

putrādinā yadārabdhaṃ śrāddhaṃ tattvena vākhilam |
samāpanīyaṃ tatrāpi śrāddhaṃ gṛhītu dūrataḥ

45.22

दात्रा बोक्त्रा च न ज्ञातं सूतकं मृतकं तथा ।
उभयोरपि तद्दोषं नारोपयति कर्हिचित्

dātrā boktrā ca na jñātaṃ sūtakaṃ mṛtakaṃ tathā |
ubhayorapi taddoṣaṃ nāropayati karhicit

45.23

यदा त्वन्यतरज्ञातं सूतकं मृतकं तथा ।
भोक्तुरेव तदा दोषो नान्यो दाता प्रदुष्यति

yadā tvanyatarajñātaṃ sūtakaṃ mṛtakaṃ tathā |
bhoktureva tadā doṣo nānyo dātā praduṣyati

45.24

इत्युक्तेन प्रकारेण यः कुर्यान्मृतवासरम् ।
अविज्ञातमृताहस्य सततं तारयत्यसौ

ityuktena prakāreṇa yaḥ kuryānmṛtavāsaram |
avijñātamṛtāhasya satataṃ tārayatyasau

45.25

नित्यश्राद्धेऽथ गन्धाद्यैर्द्विजानभ्यर्च्य भक्तितः ।
सर्वान् पितृगणान् सम्यक्सहैवोद्दिश्य योजयेत्

nityaśrāddhe'tha gandhādyairdvijānabhyarcya bhaktitaḥ |
sarvān pitṛgaṇān samyaksahaivoddiśya yojayet

45.26

आवाहनं स्वधाकारो पिण्डाग्नौकरणादिकम् ।
ब्रह्मचर्यादिनियमा विश्वदेवास्तथैव च

āvāhanaṃ svadhākāro piṇḍāgnaukaraṇādikam |
brahmacaryādiniyamā viśvadevāstathaiva ca

45.27

नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत् ।
दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत्

nityaśrāddhe tyajedetān bhojyamannaṃ prakalpayet |
dattvā tu dakṣiṇāṃ śaktyā namaskārairvisarjayet

45.28

देवानुद्दिश्य विश्वादीन् यद्दद्याद्द्विजभोजनम् ।
तन्नित्यश्राद्धवत्कार्यं देवश्राद्धं तदुच्यते

devānuddiśya viśvādīn yaddadyāddvijabhojanam |
tannityaśrāddhavatkāryaṃ devaśrāddhaṃ taducyate

45.29

मातृश्राद्धन्तु पूर्वेण कर्मादौ पैतृकं तथा ।
उत्तरेऽहनि वृद्धौ स्यान्मातामहगणस्य तु

mātṛśrāddhantu pūrveṇa karmādau paitṛkaṃ tathā |
uttare'hani vṛddhau syānmātāmahagaṇasya tu

45.30

श्राद्धत्रयं प्रकुर्र्वीत वैश्वदेवन्तुतान्त्रिकम्

śrāddhatrayaṃ prakurrvīta vaiśvadevantutāntrikam

45.31

मातृभ्यः कल्पयेत्पूर्वं पितृभ्यस्तदनन्तरम् ।
मातामहेभ्यश्च तथा दद्यादित्थं क्रमेण तु

mātṛbhyaḥ kalpayetpūrvaṃ pitṛbhyastadanantaram |
mātāmahebhyaśca tathā dadyāditthaṃ krameṇa tu

45.32

मातृश्राद्धे तु विप्राणामभावे सुकुलोद्गताः ।
पतिपुत्रान्विताः साध्व्यो योषितोऽष्टौ च भावयेत्

mātṛśrāddhe tu viprāṇāmabhāve sukulodgatāḥ |
patiputrānvitāḥ sādhvyo yoṣito'ṣṭau ca bhāvayet

45.33

इष्टापूर्तादिके श्राद्धं कुर्यादाभ्युदयं तथा ।
उत्पातादिनिमित्तेषु नित्य श्राद्धवदेव तु

iṣṭāpūrtādike śrāddhaṃ kuryādābhyudayaṃ tathā |
utpātādinimitteṣu nitya śrāddhavadeva tu

45.34

नित्यं दैवञ्च वृद्धिञ्च काम्यं नैमित्तिकं तथा ।
श्राद्धान्युक्तप्रकारेण कुर्वन् सिद्धिमवाप्नुयात् ।
इति ते कथितं तार्क्ष्य किमन्यत्परिपृच्छसि

nityaṃ daivañca vṛddhiñca kāmyaṃ naimittikaṃ tathā |
śrāddhānyuktaprakāreṇa kurvan siddhimavāpnuyāt |
iti te kathitaṃ tārkṣya kimanyatparipṛcchasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)