उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 44: दुर्मरण पाने वालों के लिए कर्म

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दुर्मरणे कार्याकार्यक्रियादिनिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः ॥

29 श्लोक · 44 में से 49

इस अध्याय में क्या होता है

दुर्मरण पाने वालों के लिए कर्म

श्रीविष्णु कहते हैं कि जो अपनी इच्छा से, सींग या दाँत वाले पशुओं, सर्प, विष, आघात, जल, अग्नि, गिरने या निराहार से मरते हैं, वे पापकर्मी गिने जाते हैं। उनके लिए आरम्भ में नवश्राद्ध, संस्कार, सपिण्डन और सोलह श्राद्ध नहीं होते। पूरा वर्ष बीतने पर दयालु परिजन शुक्ल पक्ष की एकादशी को विष्णु और यम की पूजा करते हैं, दस पिण्ड मौन होकर देते हैं, और मृतक का नाम-गोत्र लेते हुए उन्हें तीर्थ के जल में डालते हैं। अगले दिन ब्राह्मणों को भोजन कराया जाता है, और विष्णु, ब्रह्मा, शिव, सेवकों सहित यम और प्रेत को पाँच पिण्ड दिए जाते हैं; इससे जीव स्वर्ग जाता है। सर्पदंश से मृत्यु होने पर दोनों पक्षों की पञ्चमी को नागपूजा होती है और स्वर्ण का नाग दान किया जाता है।

श्रीविष्णुरुवाच

44.1

स्वेच्छया तार्क्ष्य मरणं शृङ्गिदंष्ट्रिसरीसृपः ।
चाण्डालाद्यात्मघातैश्च विषाद्यैस्ताडनैस्तथा

svecchayā tārkṣya maraṇaṃ śṛṅgidaṃṣṭrisarīsṛpaḥ |
cāṇḍālādyātmaghātaiśca viṣādyaistāḍanaistathā

44.2

जलाग्निपातवातैश्च निराहारादिभिस्तथा ।
येषामेव भवेन्मृत्युः प्रोक्तास्ते पापकर्मिणः

jalāgnipātavātaiśca nirāhārādibhistathā |
yeṣāmeva bhavenmṛtyuḥ proktāste pāpakarmiṇaḥ

44.3

पाषड्यनाश्रमाश्चैव महापातकिनस्तथा ।
स्त्रियश्च व्यभिचारिण्य आरूढपतितास्तथा

pāṣaḍyanāśramāścaiva mahāpātakinastathā |
striyaśca vyabhicāriṇya ārūḍhapatitāstathā

44.4

न तेषां स्यान्नव श्राद्धं न संस्कारः सपिण्डनम् ।
श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि

na teṣāṃ syānnava śrāddhaṃ na saṃskāraḥ sapiṇḍanam |
śrāddhāni ṣoḍaśoktāni na bhavanti ca tānyapi

44.5

वेतनं यत्क्षिपेदप्सु गृह्याग्निश्च चतुष्पथे ।
पात्राणिनिर्दहेदग्नौ साग्निके पापकर्मणि

vetanaṃ yatkṣipedapsu gṛhyāgniśca catuṣpathe |
pātrāṇinirdahedagnau sāgnike pāpakarmaṇi

44.6

पूर्णे संवत्सरे तेषामित्थं कार्यं दयालुभिः ।
एकादशीं समासाद्य शुक्लपक्षे च काश्यप

pūrṇe saṃvatsare teṣāmitthaṃ kāryaṃ dayālubhiḥ |
ekādaśīṃ samāsādya śuklapakṣe ca kāśyapa

44.7

विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः ।
दश पिण्डान् घृताक्तांश्च दर्भेषु मधुसंयुतान्

viṣṇuṃ yamaṃ ca sampūjya gandhapuṣpākṣatādibhiḥ |
daśa piṇḍān ghṛtāktāṃśca darbheṣu madhusaṃyutān

44.8

यज्ञोपवीति सतिलान् ध्यायन् विष्णुं यमं तथा ।
दक्षिणाभिमुखस्तूष्णीमेकैकं निर्वपेत्तुतान्

yajñopavīti satilān dhyāyan viṣṇuṃ yamaṃ tathā |
dakṣiṇābhimukhastūṣṇīmekaikaṃ nirvapettutān

44.9

उद्धृत्य मिश्रितान् पश्चात्तीर्थेऽभ्मः सु विनिः क्षिपेत् ।
क्षिपन् संकीर्तयेन्नाम गोत्रं च मृतकस्य च

uddhṛtya miśritān paścāttīrthe'bhmaḥ su viniḥ kṣipet |
kṣipan saṃkīrtayennāma gotraṃ ca mṛtakasya ca

44.10

पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः ।
धूपदीपैः सनैवेद्यैर्भक्ष्यभोज्यसमन्वितैः

punarapyarcayedviṣṇuṃ yamaṃ kusumacandanaiḥ |
dhūpadīpaiḥ sanaivedyairbhakṣyabhojyasamanvitaiḥ

44.11

तस्मिन्नुपवसेदह्नि विप्रांश्चेव निमन्त्रयेत् ।
कुलविद्यातपोयुक्तान् साधुशीलसमन्वितान्

tasminnupavasedahni viprāṃśceva nimantrayet |
kulavidyātapoyuktān sādhuśīlasamanvitān

44.12

नव सप्ताथवा पञ्च स्वसामर्थ्यानुसारतः ।
अपरेऽहनि मध्याह्ने यमं विष्णुं तथार्चयेत्

nava saptāthavā pañca svasāmarthyānusārataḥ |
apare'hani madhyāhne yamaṃ viṣṇuṃ tathārcayet

44.13

उदङ्मुखांस्तथा विप्रांस्तान् सम्यगुपवेशयेत् ।
आवाहनार्घदानादौ विष्णुं यमसमन्वितम्

udaṅmukhāṃstathā viprāṃstān samyagupaveśayet |
āvāhanārghadānādau viṣṇuṃ yamasamanvitam

44.14

यज्ञोपवीती कुर्वीत प्रेतनाम प्रकीर्तयेत् ।
प्रेतं यमं च विष्णुं च स्मरन् श्राद्धं समापयेत्

yajñopavītī kurvīta pretanāma prakīrtayet |
pretaṃ yamaṃ ca viṣṇuṃ ca smaran śrāddhaṃ samāpayet

44.15

अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेत् ।
पृथग्वा दश पिण्डांश्च पञ्च दद्यात्क्रमेण तु

anyebhyaścāpi sarvebhyaḥ piṇḍadānārthamuddharet |
pṛthagvā daśa piṇḍāṃśca pañca dadyātkrameṇa tu

44.16

प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च ।
सभृत्याय शिवायाथ प्रेतायापि च पञ्चमम्

prathamaṃ viṣṇave dadyādbrahmaṇe ca śivāya ca |
sabhṛtyāya śivāyātha pretāyāpi ca pañcamam

44.17

नाम गोत्रं स्मरेत्तस्य विष्णुशब्दं प्रकीर्तयेत् ।
नमस्कारशिरस्कन्तु पञ्चमं पिण्डमुद्धरेत्

nāma gotraṃ smarettasya viṣṇuśabdaṃ prakīrtayet |
namaskāraśiraskantu pañcamaṃ piṇḍamuddharet

44.18

गोभूमिपिण्डदानाद्यैः शक्त्या प्रेतं स्मरंश्च तम् ।
तिलैस्तिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु

gobhūmipiṇḍadānādyaiḥ śaktyā pretaṃ smaraṃśca tam |
tilaistilāṃstu viprāṇāṃ darbhayukteṣu pāṇiṣu

44.19

दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा ।
एवं शिष्टतमं विप्रं हरिण्येन प्रपूजयेत्

dadyādannaṃ dvijānāṃ ca tāmbūlaṃ dakṣiṇāṃ tathā |
evaṃ śiṣṭatamaṃ vipraṃ hariṇyena prapūjayet

44.20

नाम गोत्रं स्मरन् दद्याद्विष्णुप्रीतोस्त्विति ब्रुवन् ।
अनुव्रज्य द्विजान् पश्चात्त्यक्ताम्भो दक्षिणामुखः

nāma gotraṃ smaran dadyādviṣṇuprītostviti bruvan |
anuvrajya dvijān paścāttyaktāmbho dakṣiṇāmukhaḥ

44.21

कीर्तयन्नामगोत्रे तु भुवि प्रीतोस्त्विति क्षिपेत् ।
मित्रबन्धुजनैः सार्धं शेषं भुञ्जीत वाग्यतः ।
प्रतिसंवत्सरादि स्यादेकोद्दिष्टविधानतः

kīrtayannāmagotre tu bhuvi prītostviti kṣipet |
mitrabandhujanaiḥ sārdhaṃ śeṣaṃ bhuñjīta vāgyataḥ |
pratisaṃvatsarādi syādekoddiṣṭavidhānataḥ

44.22

एवं कृते गमिष्यन्ति स्वर्लोकं पापकर्मिणः ।
सपिण्डीकरणादौ तु कृते चैवाप्नुवन्तिते

evaṃ kṛte gamiṣyanti svarlokaṃ pāpakarmiṇaḥ |
sapiṇḍīkaraṇādau tu kṛte caivāpnuvantite

44.23

अथ कश्चित्प्रमादेन म्रियते ह्युदकादिभिः ।
संसारप्रमुखस्तस्य सर्वं कुर्याद्यथाविधि

atha kaścitpramādena mriyate hyudakādibhiḥ |
saṃsārapramukhastasya sarvaṃ kuryādyathāvidhi

44.24

प्रमादादिच्छया मर्त्यो न गच्छेत्सर्पसंमुखः ।
पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेत्

pramādādicchayā martyo na gacchetsarpasaṃmukhaḥ |
pakṣayorubhayornāgaṃ pañcamīṣu prapūjayet

44.25

कुर्यात्पिष्टमयीं लेखां नागानामाकृतिं भुवि ।
अर्चयेत्तां सितैः पुष्पैः सुगन्धैश्चन्दनेनच

kuryātpiṣṭamayīṃ lekhāṃ nāgānāmākṛtiṃ bhuvi |
arcayettāṃ sitaiḥ puṣpaiḥ sugandhaiścandanenaca

44.26

प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान् क्षिपेत् ।
आमपिष्टं तथैवान्नं क्षीरञ्च विनिवेदयेत्

pradadyāddhūpadīpantu taṇḍulāṃśca sitān kṣipet |
āmapiṣṭaṃ tathaivānnaṃ kṣīrañca vinivedayet

44.27

उपस्थाय वदेदेवं मुञ्चन्मुद्रांशुकानि च ।
मधुरं तद्दिनेऽश्रीयाद्देवश्राद्धं समापयेत्

upasthāya vadedevaṃ muñcanmudrāṃśukāni ca |
madhuraṃ taddine'śrīyāddevaśrāddhaṃ samāpayet

44.28

सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे ।
धेनुं दत्त्वा ततो ब्रूयात्प्रीयतां नागराडिति

sauvarṇaṃ śaktito nāgaṃ tato dadyāddvijottame |
dhenuṃ dattvā tato brūyātprīyatāṃ nāgarāḍiti

44.29

यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत् ।
स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम् ।
प्रेतत्वान्मोचयेत्तांस्तु स्वर्गमार्गं नयेत्च

yathāvibhavyaṃ kurvīta karmāṇyanyāni pūrvavat |
svaśākhoktavidhānena itthaṃ kuryādyathātatham |
pretatvānmocayettāṃstu svargamārgaṃ nayetca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)