वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् ।
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम्
vakṣye saṅkarajātyādigṛhasthādi vidhiṃ param |
viprānmūrdhāvaṣikto hi kṣāttriyāyāṃ viśaḥ striyām
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः ॥
73 श्लोक · 96 में से 241
पुष्पिका में श्राद्ध का नाम है, पर विषय याज्ञवल्क्य द्वारा वर्णसंकर और गृहस्थ आचार है। वे अनुलोम और प्रतिलोम विवाहों से उत्पन्न जातियों के नाम बताते हैं: मूर्धावसिक्त, अम्बष्ठ, निषाद, माहिष्य, करण, सूत, वैदेहक, मागध, आयोगव, और शूद्र पिता तथा ब्राह्मणी माता से उत्पन्न चाण्डाल, जिसे सब वर्ण निन्दित मानते हैं। फिर गृहस्थ का दिन: शौच, सन्ध्या, होम, स्वाध्याय, तर्पण, पाँच महायज्ञ, कुत्तों, कौओं और चाण्डालों के लिए बलि। हर वर्ण के कर्तव्य और सबका साझा धर्म आता है: अहिंसा, सत्य, अस्तेय, शौच, इन्द्रियनिग्रह, क्षमा, सरलता और दान। आगे लम्बे नियम हैं कि कहाँ मल मूत्र न त्यागे, किन सैंतीस अवसरों पर वेदपाठ रुकता है, किसका अन्न न खाए, कौन से भोज्य वर्जित हैं, और प्याज, लहसुन या विधि के बाहर मांस खाने का प्रायश्चित्त क्या है।
याज्ञवल्क्य उवाच
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् ।
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम्
vakṣye saṅkarajātyādigṛhasthādi vidhiṃ param |
viprānmūrdhāvaṣikto hi kṣāttriyāyāṃ viśaḥ striyām
जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा ।
माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः
jāto'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato'pi vā |
māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः ।
ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा
śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ |
brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā
शूद्राज्जातस्तु चांडालः सर्ववर्णविगर्हितः ।
क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षेत्रावमेव च
śūdrājjātastu cāṃḍālaḥ sarvavarṇavigarhitaḥ |
kṣattriyā māgadhaṃ vaiśyācchūdrā kṣetrāvameva ca
शूद्रादयोगवं वैश्या जनयामास वै सुतम् ।
माहिष्येण करण्यां तु रथकारः प्रजायते
śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam |
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate
असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः ।
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा
asatsantastu vai jñeyāḥ pratilomānulomajāḥ |
jātyutkarṣāddvijo jñeyaḥ saptame pañcame'pi vā
व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् ।
कर्म स्मार्त्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही
vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccottarāvaram |
karma smārttaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī
दायकालादृते वापि श्रौतं वैतानिकाग्निषु ।
शरीरचिन्तां निर्वर्त्त्य कृतशौचविधिर्द्विजः
dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu |
śarīracintāṃ nirvarttya kṛtaśaucavidhirdvijaḥ
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ।
हुत्वाग्नौ सूर्य्यदेवत्याञ्जपेन्मन्त्रान्समाहितः
prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam |
hutvāgnau sūryyadevatyāñjapenmantrānsamāhitaḥ
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ।
योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही
vedārthānadhigacchecca śāstrāṇi vividhāni ca |
yogakṣomādisiddhyarthamupeyādīśvaraṃ gṛhī
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ।
वेदानथ पुराणानि सेतिहासानि शक्तितः
snātvā devānpitṝṃścaiva tarpayedarcayettathā |
vedānatha purāṇāni setihāsāni śaktitaḥ
जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ।
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः
japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet |
balikarmasvadhāhomasvādhyāyātithisakriyāḥ
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ।
देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत्
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ |
devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret
अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् ।
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम्
annaṃ bhūmauśvacāṇḍālavāyasebhyaśca niḥ kṣipet |
annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam
स्वाध्यायमन्वहं कुर्य्यान्न पचेच्चान्नमात्मने ।
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः
svādhyāyamanvahaṃ kuryyānna paceccānnamātmane |
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ।
प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन्
saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam |
prāṇāgnihotravidhināśrīyādannamakutsayan
मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् ।
आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते
mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam |
āpośānenopariṣṭādadhastāccaiva bhujyate
अनग्नममृतं चैव कार्य्यमन्नं द्विजन्मना ।
अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्याऽनुपूर्वशः
anagnamamṛtaṃ caiva kāryyamannaṃ dvijanmanā |
atithibhyastu varṇebhyo deyaṃ śaktyā'nupūrvaśaḥ
अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा ।
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च
apraṇodyo'tithiḥ sāyamapi nātra vicāraṇā |
satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca
आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च ।
प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्य्यपार्थिवाः
āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca |
pratisaṃvatsaraṃ tvarcyāḥ snātakācāryyapārthivāḥ
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः ।
अध्वनीनोऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः
priyo vivāhyaśca tathā yajñaṃ pratyṛrtvijaḥ punaḥ |
adhvanīno'tithiḥ proktaḥ śrotriyo vedapāragaḥ
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ।
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते
mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ |
parapākarucirna syādanindyāmantraṇādṛte
वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम् ।
श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत्
vākpāṇipādacāpalyaṃ varjayaccātibhojanam |
śrotriyaṃ vātithiṃ tṛptamāsīmāntādanuvrajet
अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ।
उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः
ahaḥ śeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ |
upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ
कुर्य्याद्भृत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् ।
ब्राह्मे मुहूर्त्ते चोत्थाय मान्यो विप्रो धनादिभिः
kuryyādbhṛtyaiḥ samāyuktaiścintayedātmano hitam |
brāhme muhūrtte cotthāya mānyo vipro dhanādibhiḥ
वृद्धार्त्तानां समादेयः पन्था वै भारवाहिनाम् ।
इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च
vṛddhārttānāṃ samādeyaḥ panthā vai bhāravāhinām |
ijyādhyayanadānāni vaiśyasya kṣattriyasya ca
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ।
प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम्
pratigraho'dhiko vipre yājanādhyāpane tathā |
pradhānaṃ kṣattriye karma prajānāṃ paripālanam
कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ।
शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत्
kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam |
śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम्
ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ |
damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ।
त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति
ācaretsadṛśīṃ vṛttimajihmāmaśaṭhāṃ tathā |
traivārṣikā dhikānno yaḥ sa somaṃ pātumarhati
स्यादन्नं वार्षिकं यस्य कुर्य्यात्प्राकसौमिकीं क्रियाम् ।
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा
syādannaṃ vārṣikaṃ yasya kuryyātprākasaumikīṃ kriyām |
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā
कर्त्तव्याऽऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः ।
एषामसम्भवे कुर्य्यादिष्टिं वैश्वानरीं द्विजः
karttavyā''grahaṇeṣṭiśca cāturmāsyāni yatnataḥ |
eṣāmasambhave kuryyādiṣṭiṃ vaiśvānarīṃ dvijaḥ
हीनकल्पं न कुर्वोत सति द्रव्ये फलप्रदम् ।
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात
hīnakalpaṃ na kurvota sati dravye phalapradam |
caṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāta
यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत् ।
कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनोऽपि वा
yajñārthalabdhaṃ nādadyādbhāsaḥ kāko'pi vā bhavet |
kusūtakumbhīdhānyo vā tryāhikaḥ śvastano'pi vā
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ।
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः
jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ |
na svādhyāyavirodhyarthamīheta na yatastataḥ
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत्
rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā |
dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet
शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्य्यादर्शनेऽश्रीयान्नैकवासा न संस्थितः
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ |
na bhāryyādarśane'śrīyānnaikavāsā na saṃsthitaḥ
अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान् ।
देवप्रदक्षिणाङ्कुर्य्याद्यष्टिमान्सकमण्डलुः
apriyaṃ na vadejjātu brahmasūtrī vinītavān |
devapradakṣiṇāṅkuryyādyaṣṭimānsakamaṇḍaluḥ
न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु ।
न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम्
na tu mehennadīcchāyābhasmagoṣṭāmbuvartmasu |
na pratyagnyarkagosomasandhyāmbustrīdvijanmanām
नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च
nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām |
na ca mūtraṃ purīṣaṃ vā svapetpratyakūśirā na ca
ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत्
ṣṭīvanāsṛkśakṛnmūtraviṣāṇyapsu na saṃkṣipet |
pādau pratāpayennāgnau na cainamabhilaṅghayet
पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेच्च कितवैर्व्याधितैश्च न संविशेत्
pibennāñjalinā toyaṃ na śayānaṃ prabodhayet |
nākṣaiḥ krīḍecca kitavairvyādhitaiśca na saṃviśet
विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतटम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम्
viruddhaṃ varjayetkama pretadhūmaṃ nadītaṭam |
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim
नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्वचित् ।
न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्त्तिनः
nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśetkvacit |
na rājñaḥ pratigṛhṇāyāllubdhasyocchāstravarttinaḥ
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च
adhyāyānāmupākarma śrāvaṇyāṃ śravaṇena vā |
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca
पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्वहिः
pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā |
jalānte chandasāṃ kuryyādutsargaṃ vidhivadvahiḥ
अनध्यायस्त्र्यहं प्रेते शिष्यर्त्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते
anadhyāyastryahaṃ prete śiṣyarttviggurubandhuṣu |
upākarmaṇi cotsarge svaśākhaśrotriye mṛte
सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं त्वनिशमारण्यकमधीत्य च
sandhyāgarjitanirghātabhūkampolkānipātane |
samāpya vedaṃ tvaniśamāraṇyakamadhītya ca
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च
pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake |
ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca
पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः ।
कृतेऽन्तरे त्वहोरात्रं शुक्रपाते तथोच्छ्रये
paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ |
kṛte'ntare tvahorātraṃ śukrapāte tathocchraye
श्वक्रोष्टुगर्दभोलूकसामबाणार्त्तनिः स्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके
śvakroṣṭugardabholūkasāmabāṇārttaniḥ svane |
amedhyaśavaśūdrāntyaśmaśānapatitāntike
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते
deśe'śucāvātmani ca vidyutstanitasaṃplave |
bhuktvārdrapāṇirambho'ntararddharātre'timārute
दिग्दाहे पांशुवर्षेषु सन्ध्यानी हारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते
digdāhe pāṃśuvarṣeṣu sandhyānī hārabhītiṣu |
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate
खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः
kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe |
saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ
वेददिष्टं तथाचार्य्यं राजच्छायां परस्त्रियम् ।
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्त्तनानि च
vedadiṣṭaṃ tathācāryyaṃ rājacchāyāṃ parastriyam |
nākrāmedraktaviṇmūtraṣṭhīvanodvarttanāni ca
विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन ।
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत्
viprāhikṣattriyātmāno nāvajñeyāḥ kadācana |
dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet
श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्मणि न स्पृशेत् ।
न निन्दाताडने कुर्य्यात्सुतं शिष्यं च ताडयेत्
śrutismṛtyuktamācāraṃ kuryyānmarmaṇi na spṛśet |
na nindātāḍane kuryyātsutaṃ śiṣyaṃ ca tāḍayet
आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् ।
मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही
ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret |
mātāpitratithībhyāḍhyairvivādaṃ nācaredgṛhī
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।
स्नायान्नदीप्रस्रवणदेवखातह्रदेषु च
pañca piṇḍānanuddhṛtya na snāyātparavāriṣu |
snāyānnadīprasravaṇadevakhātahradeṣu ca
वर्जयेत्परशय्यादि न चाश्रीयादनापदि ।
कदर्य्यबद्धचो
राणां तथा चानम्निकस्य च
varjayetparaśayyādi na cāśrīyādanāpadi |
kadaryyabaddhaco
rāṇāṃ tathā cānamnikasya ca
वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् ।
चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम्
vaiṇābhiśastavārddhuṣyagaṇikāgaṇadīkṣiṇām |
cikitsakāturakruddhaklībaraṅgopajīvinām
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ।
शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम्
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām |
śāstravikrayiṇaścaiva strījitagrāmayājinām
नृशंसराजरजककृतघ्नवधजीविनाम् ।
पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा
nṛśaṃsarājarajakakṛtaghnavadhajīvinām |
piśunānṛtinoścaiva somavikrayiṇastathā
वन्दिनां स्वर्णकाराणामन्नमेषां कदाचन ।
न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम्
vandināṃ svarṇakārāṇāmannameṣāṃ kadācana |
na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam
भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितो
क्षितम् ।
उदक्यास्पृष्टसंघुष्टमपर्य्याप्तं च वर्जयेत्
bhaktaṃ paryyuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patito
kṣitam |
udakyāspṛṣṭasaṃghuṣṭamaparyyāptaṃ ca varjayet
गोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः ।
शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणः
goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭa ca kāmataḥ |
śūdreṣu dāsagopālakulamitrārddhasīriṇaḥ
भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् ।
अन्नं पर्य्युषितं भोज्यं स्नेहाक्तं चिरसंभृ
तम्
bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet |
annaṃ paryyuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛ
tam
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ।
औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत्
asnehā api godhūmayavagorasavikriyāḥ |
auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet
क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ।
सारसैकशफान्हंसान्बलाकबकटिट्टिभान्
kravyādapakṣidātyūhaśukamāṃsāni varjayet |
sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān
वृथा कृसरसंयाव पायसापूपशष्कुलीः ।
कुररं जालपादं च खञ्जरीटमृगद्विजान्
vṛthā kṛsarasaṃyāva pāyasāpūpaśaṣkulīḥ |
kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān
चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः ।
बन्धुरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत्
cāṣānmatsyātraktapādañcagddhvā vai kāmato naraḥ |
bandhuraṃ kāmato jagddhvā sopa vāsastryahaṃ bhavet
पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् ।
श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक्
palāṇḍulaśunādīni jagddhvā cāndrāyaṇaṃ caret |
śrāddhe devānpitṝnprārcya khādanmāṃsaṃ na doṣabhāk
वसेत्स नरके घोर दिनानि पशुरोमतः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ।
मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम्
vasetsa narake ghora dināni paśuromataḥ |
sammitāni durācāro yo hantyavidhinā paśūn |
māṃsaṃ santyajya saṃprārthya kāmānyāti tato harim
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)