पूर्व खण्ड — आचार काण्ड

अध्याय 95: विवाह और गृहस्थ पत्नी का धर्म

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगृहल्थधर्मनिर्णयो नाम पञ्चनवतितमोऽध्यायः ॥

33 श्लोक · 95 में से 241

इस अध्याय में क्या होता है

विवाह और गृहस्थ पत्नी का धर्म

गुरु को दक्षिणा देकर और स्नान करके ब्रह्मचारी स्वस्थ, पहले किसी को न दी गई, आयु में छोटी कन्या से विवाह करे, जो असपिण्ड हो, समान गोत्र और प्रवर की न हो, माता की ओर से पाँचवीं और पिता की ओर से सातवीं पीढ़ी के बाहर हो। कन्यादान के अधिकारी हैं: पिता, पितामह, भाई, सकुल्य, माता; इनके न रहने पर कन्या स्वयंवर करे। शास्त्र नियोग का प्राचीन नियम स्पष्ट कहता है कि पुत्रहीन विधवा के लिए गुरुजनों की आज्ञा से देवर या सपिण्ड पुत्र उत्पन्न कर सकता है, और वह पुत्र पति का होता है। व्यभिचारिणी पत्नी को अधिकार से हटाकर नीचे शय्या पर रखा जाए; रोगी या वन्ध्या पत्नी का भी भरण करे। पति की आज्ञा मानना स्त्री का परम धर्म है, जिससे उसे स्वर्ग मिलता है।

याज्ञवल्क्य उवाच

95.1

श्रृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः ।
गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया

śrṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ |
gurave ca dhanaṃ dattvā snātvā ca tadanujñayā

95.2

समापितब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम्

samāpitabrahmacaryyo lakṣaṇyāṃ striyamudvahet |
ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm

95.3

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
पञ्चमात्सप्तमादूर्द्ध्वं मातृतः पितृतस्तथा

arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām |
pañcamātsaptamādūrddhvaṃ mātṛtaḥ pitṛtastathā

95.4

दशपुरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
सवर्णः श्रोत्रियो विद्वान्वरो दोषान्वितो न च

daśapuruṣavikhyātācchrotriyāṇāṃ mahākulāt |
savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca

95.5

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम्

yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ |
na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam

95.6

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्त्रियविशां भार्य्याः स्वा शूद्रजन्मनः

tisro varṇānupūrvyeṇa dve tathaikā yathākramam |
brāhmaṇakṣattriyaviśāṃ bhāryyāḥ svā śūdrajanmanaḥ

95.7

ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।
तज्जः पुनात्युभयतः पुरुषोनेकविंशतिम्

brāhmo vivāha āhūya dīyate śaktyalaṅkṛtā |
tajjaḥ punātyubhayataḥ puruṣonekaviṃśatim

95.8

यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट्

yajñasthāyartvije daivamādāyārṣastu goyugam |
caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ

95.9

इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ।
स कायः पावयेत्तज्जः षड्वंश्यानात्मना सह

ityuktvā caratāṃ dharmaṃ saha yā dīyate'rthine |
sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha

95.10

आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात्

āsuro draviṇādānādgāndharvaḥ samayānmithaḥ |
rākṣaso yuddhaharaṇātpaiśācaḥ kanyakācchalāt

95.11

चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ ।
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः

catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau |
rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ

95.12

पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः

pāṇirgrāhyaḥ savarṇāsu gṛhṇīta kṣattriyā śaram |
vaiśyā pratodamādadyādvedane cāgrajanmanaḥ

95.13

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः

pitā pitāmaho bhrātā sakulyo jananī tathā |
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ

95.14

अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।
एषामभावे दातॄणां कन्या कुर्य्यात्स्वयंवरम्

aprayacchansamāpnoti bhrūṇahatyāmṛtāvṛtau |
eṣāmabhāve dātṝṇāṃ kanyā kuryyātsvayaṃvaram

95.15

सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
अदुष्टां हि त्यजन्दण्ड्यः सुदुष्टां तु परित्यजेत्

sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk |
aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet

95.16

अपुत्रीगुर्वनुज्ञातो देवरः पुत्रकान्यगा ।
सपिण्डो वा समोत्रो वा घृताभ्यक्त ऋतावियात्

aputrīgurvanujñāto devaraḥ putrakānyagā |
sapiṇḍo vā samotro vā ghṛtābhyakta ṛtāviyāt

95.17

आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जात क्षेत्रपस्य भवेत्सुतः

āgarbhasambhavaṃ gacchetpatitastvanyathā bhavet |
anena vidhinā jāta kṣetrapasya bhavetsutaḥ

95.18

हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् ।
परिभूतामधः शय्यां वासयेद्य्वभिचारिणीम्

hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm |
paribhūtāmadhaḥ śayyāṃ vāsayedyvabhicāriṇīm

95.19

सोमः शौचं ददौ तासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो यतः

somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram |
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ

95.20

व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च ।
गर्भभर्त्तृवधे तासां तथा महति पातके

vyabhicārādṛtauśuddhirgarbhetyāgaṃ karoti ca |
garbhabharttṛvadhe tāsāṃ tathā mahati pātake

95.21

सुरापी व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा ।
अधिविन्ना च भर्तव्या महदेनोन्यथा भवेत्

surāpī vyādhitā dveṣṭrī vandhyārthaghnyapriyaṃvadā |
adhivinnā ca bhartavyā mahadenonyathā bhavet

95.22

यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्द्धते ।
मृते जीवति या पत्यौ या नान्यमुपगच्छति

yatrāvirodho dampatyostrivargastattra varddhate |
mṛte jīvati yā patyau yā nānyamupagacchati

95.23

सेह कीर्त्तिमवाप्नोति मोदते चोमया सह ।
शुद्धां त्यजंस्तृतीयांशं दद्यादामरणं स्त्रियाः

seha kīrttimavāpnoti modate comayā saha |
śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyādāmaraṇaṃ striyāḥ

95.24

स्त्रीभिर्भर्तुर्वचः कार्य्यमेष धर्मः परः स्त्रियाः ।
षोडशर्त्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत्

strībhirbharturvacaḥ kāryyameṣa dharmaḥ paraḥ striyāḥ |
ṣoḍaśarttuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet

95.25

ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत् ।
एवं गच्छं स्त्रियं क्षामां मघां मूलां च वर्जयेत्

brahmacārī ca parvāṇyādyāśtatastrastu varjayet |
evaṃ gacchaṃ striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet

95.26

लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम् ।
यथा कामी भवेद्वापि स्त्रीणां
वलमनुस्मरन्

lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam |
yathā kāmī bhavedvāpi strīṇāṃ
valamanusmaran

95.27

स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः ।
भर्त्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः

svadāranirataścaiva striyo rakṣyā yatastataḥ |
bharttṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ

95.28

बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।
संयतो पस्करा दक्षा हृष्टा व्ययपराङूमुखी

bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ |
saṃyato paskarā dakṣā hṛṣṭā vyayaparāṅūmukhī

95.29

श्वश्रूश्वशुरयोः कुर्य्यात्पादयोर्वन्दनं सदा ।
क्रीडाशरीरसंस्कारसमाजोत्सवदर्शनम्

śvaśrūśvaśurayoḥ kuryyātpādayorvandanaṃ sadā |
krīḍāśarīrasaṃskārasamājotsavadarśanam

95.30

हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका ।
रक्षेत्कन्यां पिता बाल्ये यौवने पतिरेव ताम्

hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā |
rakṣetkanyāṃ pitā bālye yauvane patireva tām

95.31

वार्द्धक्ये रक्षते पुत्रो ह्यन्यथा ज्ञातयस्तथा ।
पतिं विना न तिष्ठेत्तु दिवा वा यदि वा निशि

vārddhakye rakṣate putro hyanyathā jñātayastathā |
patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi

95.32

ज्येष्ठां धर्मविधौ कुर्य्यान्न कनिष्ठां कदाचन ।
दाहयेदग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः

jyeṣṭhāṃ dharmavidhau kuryyānna kaniṣṭhāṃ kadācana |
dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ

95.33

आहरेद्विधिवद्दारानग्निं चैवाविलम्बितः ।
हिता भर्त्तुर्दिवं गच्छेदिह कीर्त्तीरवाप्य च

āharedvidhivaddārānagniṃ caivāvilambitaḥ |
hitā bhartturdivaṃ gacchediha kīrttīravāpya ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)