सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः ।
शुक्लपक्षे द्वितीयस्तु पंचमो नवमस्तथा
saptamopacayādyasthaścandraḥ sarvatra śobhanaḥ |
śuklapakṣe dvitīyastu paṃcamo navamastathā
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहाणां शुभाशुभस्थानादिनिरूपणं नामैकपष्टितमोऽध्यायः ॥
18 श्लोक · 61 में से 241
हरि जन्मराशि से गोचर का विचार बताते हैं। चन्द्रमा पहले, सातवें और उपचय स्थानों में शुभ है, और शुक्लपक्ष में दूसरे, पाँचवें और नौवें में भी। तीन तीन नक्षत्रों पर उसकी बारह अवस्थाएँ होती हैं: प्रवास, पुनर्दर्शन, मृत, जय, हास्य, प्रमोद, विषाद, ज्वर आदि। भावों के अनुसार फल हैं: तीसरे में राजसम्मान, चौथे में कलह, छठे में धनधान्य, आठवें में प्राणसंशय, नौवें में कोशसंचय। फिर प्रत्येक ग्रह के शुभ भाव दिए गए हैं; ग्यारहवें में सब ग्रह और बारहवें में शुक्र शुभ हैं। अन्त में प्रीति देने वाले षडष्टक राशियुग्म हैं: सिंह मकर, कन्या मेष, तुला मीन, कुम्भ कर्क, धनु वृष और मिथुन वृश्चिक।
हरिरुवाच
सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः ।
शुक्लपक्षे द्वितीयस्तु पंचमो नवमस्तथा
saptamopacayādyasthaścandraḥ sarvatra śobhanaḥ |
śuklapakṣe dvitīyastu paṃcamo navamastathā
संपूज्यमानो लोकैस्तु गुरुवदॄश्यते शशी ।
चन्द्रस्य द्वादशावस्था भवन्ति श्रृणु ता अपि
saṃpūjyamāno lokaistu guruvadṝśyate śaśī |
candrasya dvādaśāvasthā bhavanti śrṛṇu tā api
त्रिषु त्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम् ।
प्रवासस्थं पुनर्दृष्टं मृतावस्थं जयावहम्
triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham |
pravāsasthaṃ punardṛṣṭaṃ mṛtāvasthaṃ jayāvaham
हास्यावस्थं नता
वस्थं प्रमोदावस्थमेव च ।
विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम्
hāsyāvasthaṃ natā
vasthaṃ pramodāvasthameva ca |
viṣādāvasthabhogasthe jvarāvasthaṃ vyavasthitam
कम्पा
वस्थं सुखावस्थं द्वादशावस्थगं भवेत् ।
प्रवासो हानिर्मृत्यु च जयो हासेरतिः सुखम्
kampā
vasthaṃ sukhāvasthaṃ dvādaśāvasthagaṃ bhavet |
pravāso hānirmṛtyu ca jayo hāseratiḥ sukham
शोको भोगो ज्वरः कम्पः सुखं चेति क्रमात्फलम् ।
जन्मस्थः कुरुते तुष्टिं द्वितीये नास्ति निर्वृतिः
śoko bhogo jvaraḥ kampaḥ sukhaṃ ceti kramātphalam |
janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ
तृतीये राजसन्मानं चतुर्थे कलहागमः ।
पञ्चमेन मृगाङ्केन स्त्रीलाभो वै तथा भवेत्
tṛtīye rājasanmānaṃ caturthe kalahāgamaḥ |
pañcamena mṛgāṅkena strīlābho vai tathā bhavet
धनधान्यागमः षष्ठे रतिः पूजा च सप्तमे ।
अष्टमे प्राणसन्देहो नवमे कोशसञ्चयः
dhanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame |
aṣṭame prāṇasandeho navame kośasañcayaḥ
दशमे कार्य्यनिष्पत्तिध्रुवमेकादशे जयः ।
द्वादशेन शशाङ्केन मृत्युरेव न संशयः
daśame kāryyaniṣpattidhruvamekādaśe jayaḥ |
dvādaśena śaśāṅkena mṛtyureva na saṃśayaḥ
कृत्तिकादौ च पूर्वेण सप्तर्क्षाणि च वै व्रजेत् ।
मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे
kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet |
maghādau dakṣiṇe gacchedanurādhādi paścime
प्रशस्ता चोत्तर यात्रा धनिष्ठादिषु सप्तसु ।
अश्विनी रेवती चित्रा धनिष्ठा समलङ्कृतौ
praśastā cottara yātrā dhaniṣṭhādiṣu saptasu |
aśvinī revatī citrā dhaniṣṭhā samalaṅkṛtau
मृगाश्विचित्रापुष्याश्च मूला हस्ता शुभाः सदा ।
कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु
mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā |
kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu
शुक्रचन्द्रौ हि जन्मस्थौ शुभदौ च द्वितीयके ।
शशिज्ञशुक्रजीवाश्च राशौ चाथ तृतीयके
śukracandrau hi janmasthau śubhadau ca dvitīyake |
śaśijñaśukrajīvāśca rāśau cātha tṛtīyake
भौममन्दशशाङ्कार्का बुधः श्रेष्ठस्चतुर्थके ।
शुक्रजीवौ पञ्चमे च चन्द्रकेतुसमाहितौ
bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhascaturthake |
śukrajīvau pañcame ca candraketusamāhitau
मन्दार्कौ च कुजः षष्ठे गुरुचन्द्रौ च सप्तमे ।
ज्ञशुक्रावष्टमे श्रेष्ठौ नवमस्थो गुरुः शुभः
mandārkau ca kujaḥ ṣaṣṭhe gurucandrau ca saptame |
jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ
अर्कार्किचन्द्रा दशमे ग्रहा एकादशेखिलाः ।
बुधोऽथ द्वादशे चैव भार्गवः सुखदो भवेत्
arkārkicandrā daśame grahā ekādaśekhilāḥ |
budho'tha dvādaśe caiva bhārgavaḥ sukhado bhavet
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः ।
तुलया सह मीनस्तु कुम्भेन सहकर्कटः
siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ |
tulayā saha mīnastu kumbhena sahakarkaṭaḥ
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः ।
एतत्षडष्टकं प्रीत्यै भवत्येव न संशयः
dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ |
etatṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)