षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः ।
अष्टावङ्गारके चैव बुधै सप्तदश स्मृताः
ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ |
aṣṭāvaṅgārake caiva budhai saptadaśa smṛtāḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डं प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहदशादिनिरूपणं नाम षष्टितमोऽध्यायः ॥
23 श्लोक · 60 में से 241
हरि ग्रहों की दशा के वर्ष बताते हैं: सूर्य छह, चन्द्र पन्द्रह, मंगल आठ, बुध सत्रह, शनि दस, गुरु उन्नीस, राहु बारह और शुक्र इक्कीस। सूर्य की दशा दुःख और राजभय देती है, चन्द्र की वैभव, मंगल की हानि, बुध की कोशवृद्धि, शनि की राज्यनाश, और गुरु की राज्य और धर्म। फिर राशियों के स्वामी हैं, मंगल मेष और वृश्चिक के, शुक्र वृष और तुला के, और इसी प्रकार आगे। यात्रा के शकुन गिनाए गए हैं: हिरण, सर्प, कुत्ता, पक्षी, स्त्री या भरा घड़ा शुभ हैं; सियार और गधा बाईं ओर शुभ हैं। दिशा के अनुसार हिचकी का फल है: पूर्व में लाभ, ईशान में मृत्यु। अन्त में सूर्यचक्र है, जिसमें मनुष्याकार चित्र पर नक्षत्र रखकर अल्पायु, चोरी या धन का फल बताया जाता है।
हरिरुवाच
षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः ।
अष्टावङ्गारके चैव बुधै सप्तदश स्मृताः
ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ |
aṣṭāvaṅgārake caiva budhai saptadaśa smṛtāḥ
शनैश्चरे दश ज्ञेया गुरोरेकोनविंशतिः ।
राहोर्द्वादशवर्षाणि एकविंशतिर्भार्गवे
śanaiścare daśa jñeyā gurorekonaviṃśatiḥ |
rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave
रवेर्दशा दुः खदा स्यादुद्वेगनृपनाशकृत् ।
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा
raverdaśā duḥ khadā syādudveganṛpanāśakṛt |
vibhūtidā somadaśā sukhamiṣṭānnadā tathā
दुः खप्रदा कुजदशा राज्यादेः स्याद्विनाशिनी ।
दिव्यस्त्रीदा बुधदशा राज्यदा कोशवृद्धिदा
duḥ khapradā kujadaśā rājyādeḥ syādvināśinī |
divyastrīdā budhadaśā rājyadā kośavṛddhidā
शनेर्दशा राज्यनाशबन्धुदुः खकरी भवेत् ।
गुरोर्दशा राज्यदा स्यात्सुखधर्मादिदायिनी
śanerdaśā rājyanāśabandhuduḥ khakarī bhavet |
gurordaśā rājyadā syātsukhadharmādidāyinī
राहोर्दशा राज्यनाशव्याधिदा दुः खदा भवेत् ।
हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत्
rāhordaśā rājyanāśavyādhidā duḥ khadā bhavet |
hastyaśvadā śukradaśā rājyastrīlābhadā bhavet
मेष अङ्गारकक्षेत्रं वृषः शुक्रस्य कीर्त्तितः ।
मिथुनस्य बुधो ज्ञेयः सोमः कर्कटकस्य च
meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrttitaḥ |
mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca
सूर्य्यक्षेत्रं भवेत्सिंहः कन्या क्षेत्रं बुधस्य च ।
भार्गवस्य तुला क्षेत्रं वृश्चिकोंगारकस्य च
sūryyakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca |
bhārgavasya tulā kṣetraṃ vṛścikoṃgārakasya ca
धनुः सुर गुरोश्चैव शनेर्मकरकुम्भकौ ।
मीनः सुरगुरोश्चैव ग्रहक्षेत्रं प्रकीर्त्तितम्
dhanuḥ sura guroścaiva śanermakarakumbhakau |
mīnaḥ suraguroścaiva grahakṣetraṃ prakīrttitam
पौर्णमास्याद्वयं तत्र पूर्वाषाढाद्वयं भवेत् ।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे
paurṇamāsyādvayaṃ tatra pūrvāṣāḍhādvayaṃ bhavet |
dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe
अश्विनी रेवती चित्रा धनिष्ठा स्यादलङ्कृतौ ।
मृगाहिकपिमार्जारश्वानः सूकरपक्षिणः
aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau |
mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ
नकुलो मूषकश्चैव यात्रायां दक्षिणे शुभः ।
विप्रकन्या शिवा एषां शङ्खभेरीवसुन्धराः
nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ |
viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ
वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनं शुभम् ।
जम्बूकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः
veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham |
jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ
कार्पासौषधितैलं च पक्वाङ्गारभुजङ्गमाः ।
मुक्तकेशी रक्तमाल्यनग्नाद्यशुभमीक्षितम्
kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ |
muktakeśī raktamālyanagnādyaśubhamīkṣitam
हिक्काय लक्षणं वक्ष्ये लभत्पूर्वे महाफलम् ।
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात्
hikkāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam |
āgneye śokasantāpau dakṣiṇe hānimāpnuyāt
नैर्ऋत्य शोकसन्तापौ मिष्टान्नं चैव पश्चिमे ।
अर्थं प्राप्नोति वायव्ये उत्तरे कलहोभवेत्
nairṛtya śokasantāpau miṣṭānnaṃ caiva paścime |
arthaṃ prāpnoti vāyavye uttare kalahobhavet
ईशाने मरणं प्रोक्तं हिक्कायाश्चफलाफलम् ।
विलिख्य रविचक्रं तु भास्करो नरसन्निभः
īśāne maraṇaṃ proktaṃ hikkāyāścaphalāphalam |
vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ
यस्मिन्नृक्षे वसद्भानुस्तदांदि त्रीणि मस्तके ।
त्रयं वक्त्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत्
yasminnṛkṣe vasadbhānustadāṃdi trīṇi mastake |
trayaṃ vaktre pradātavyamekaikaṃ skandhayornyaset
एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्वयोः ।
हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत्
ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ |
hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet
ऋक्षमेकं न्यसेद्गुह्ये एकैकं जानुके न्यसेत् ।
नक्षत्राणि च शेषाणि रविपादे नियोजयेत्
ṛkṣamekaṃ nyasedguhye ekaikaṃ jānuke nyaset |
nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet
चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः ।
विदशेगमनं जानौ गुह्यस्थे परदारवान्
caraṇasthena ṛkṣeṇa alpāyurjāyate naraḥ |
vidaśegamanaṃ jānau guhyasthe paradāravān
नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः ।
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्धजे
nābhisthenālpasantuṣṭo hṛtsthena syānmaheśvaraḥ |
pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaje
स्कन्धस्थिते धनपतिर्मुखे मिष्टान्नमाप्नुयात् ।
मस्तके पदृवस्त्रं स्यान्नक्षत्रं यदि स्थितम्
skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt |
mastake padṛvastraṃ syānnakṣatraṃ yadi sthitam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)