उदयात्तु समारभ्य राशौ भानुः स्थितो हर ।
स्वराश्याद्यैर्व्रजेदह्नि षडभिः षटभिस्तथा निशि
udayāttu samārabhya rāśau bhānuḥ sthito hara |
svarāśyādyairvrajedahni ṣaḍabhiḥ ṣaṭabhistathā niśi
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे लग्नघटिका प्रमाणादिनिरूपणं नाम द्विषष्टितमोऽध्यायः ॥
19 श्लोक · 62 में से 241
हरि बताते हैं कि सूर्य उदय से दिन में छह और रात में छह राशियाँ पार करता है, और प्रत्येक लग्न की घटिकाएँ देते हैं: मीन और मेष की पाँच, वृष और कुम्भ की चार, मकर और मिथुन की तीन, सिंह और वृश्चिक की छह, कन्या और तुला की सात। फिर लग्न के अनुसार कन्या का भाग्य है, धनु में सौभाग्य, मीन में वैराग्य। चर और स्थिर राशियों में चर और स्थिर कार्य हों। चतुर्थी, नवमी और चतुर्दशी रिक्ता होने से वर्जित हैं; पंचमी, दशमी और पूर्णिमा शुभ हैं। प्रत्येक वार का कार्य है: मंगल को सेनापतित्व और शस्त्राभ्यास, बुध को मन्त्रसिद्धि और यात्रा, गुरु को अध्ययन, देवपूजा और नए वस्त्र, शुक्र को कन्यादान, शनि को स्थापना, गृहप्रवेश और हाथी बाँधना।
हरिरुवाच
उदयात्तु समारभ्य राशौ भानुः स्थितो हर ।
स्वराश्याद्यैर्व्रजेदह्नि षडभिः षटभिस्तथा निशि
udayāttu samārabhya rāśau bhānuḥ sthito hara |
svarāśyādyairvrajedahni ṣaḍabhiḥ ṣaṭabhistathā niśi
मीने मेषे च पञ्च स्युश्चतस्त्रो वृष कुम्भयोः ।
मकरे मिथुने तिस्त्रः पंच चापे च कर्कटे
mīne meṣe ca pañca syuścatastro vṛṣa kumbhayoḥ |
makare mithune tistraḥ paṃca cāpe ca karkaṭe
सिंहे च वृश्चिके षट् च सप्त कन्यातुले तथा ।
एता लग्नप्रमाणेन घटिकाः परिकीर्त्तिताः
siṃhe ca vṛścike ṣaṭ ca sapta kanyātule tathā |
etā lagnapramāṇena ghaṭikāḥ parikīrttitāḥ
रसपूर्वावसानेषु रसाब्धिष्वरिसागराः ।
लङ्कोदया हि तद्वत्त लग्ना मेषादयोऽथ वा
rasapūrvāvasāneṣu rasābdhiṣvarisāgarāḥ |
laṅkodayā hi tadvatta lagnā meṣādayo'tha vā
मेषलग्ने भवेद्वन्ध्या वृषे भवति कामिनी ।
मिथुने सुभगा कन्या वेश्या भवति कर्कटे
meṣalagne bhavedvandhyā vṛṣe bhavati kāminī |
mithune subhagā kanyā veśyā bhavati karkaṭe
सिंहे चैवाल्पपुत्रा च कन्यायां रूपसंयुता ।
तुलायां रूपमैश्वर्य्यं वश्चिके कर्कशा भवेत्
siṃhe caivālpaputrā ca kanyāyāṃ rūpasaṃyutā |
tulāyāṃ rūpamaiśvaryyaṃ vaścike karkaśā bhavet
सौभाग्यधनुषि स्याच्च मकरे नीचगामिनी ।
कुम्भ चैवाल्पपुत्रा स्यान्मीने वैराग्यसंयुता
saubhāgyadhanuṣi syācca makare nīcagāminī |
kumbha caivālpaputrā syānmīne vairāgyasaṃyutā
तुला कर्कटको मेषो मकरश्चैव राशयः ।
चरकार्य्याणि कुर्य्याच्च स्थिरकार्य्याणि चैव हि
tulā karkaṭako meṣo makaraścaiva rāśayaḥ |
carakāryyāṇi kuryyācca sthirakāryyāṇi caiva hi
पञ्चाननो वृषः कुम्भा वृश्चिकः स्युः स्थिराणि हि ।
कन्या धनुश्च मीनश्च मिथुनं द्विस्वभावतः
pañcānano vṛṣaḥ kumbhā vṛścikaḥ syuḥ sthirāṇi hi |
kanyā dhanuśca mīnaśca mithunaṃ dvisvabhāvataḥ
द्विस्वभावानि कर्माणि कुर्य्यादेषु विचक्षणः ।
यात्रा चरेण कर्त्तव्या प्रवेष्टव्यं स्थिरेण तु
dvisvabhāvāni karmāṇi kuryyādeṣu vicakṣaṇaḥ |
yātrā careṇa karttavyā praveṣṭavyaṃ sthireṇa tu
देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ।
प्रतिपच्चाथ षष्ठी च नन्दा चैकादशी स्मृता
devasthāpanavaivāhyaṃ dvisvabhāvena kārayet |
pratipaccātha ṣaṣṭhī ca nandā caikādaśī smṛtā
द्वितीया सप्तमी भद्रा द्वादशी वृषभध्वज ।
जयाष्टमी तृतीया च स्मृता रुद्र त्रयोदशी
dvitīyā saptamī bhadrā dvādaśī vṛṣabhadhvaja |
jayāṣṭamī tṛtīyā ca smṛtā rudra trayodaśī
चतुर्थो नवमी रिक्ता सा वर्ज्याथ चतुर्दशी ।
पञ्चमी दशमी पूर्णा पूर्णिमा च शुभाः स्मृताः
caturtho navamī riktā sā varjyātha caturdaśī |
pañcamī daśamī pūrṇā pūrṇimā ca śubhāḥ smṛtāḥ
चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ।
शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः
caraḥ saumyo guruḥ kṣipro mṛduḥ śukro ravirdhruvaḥ |
śaniśca dāruṇo jñeyo bhauma ugraḥ śaśī samaḥ
चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृद्रुध्रुवैः ।
दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्जयकाङ्क्षिभिः
carakṣipraiḥ prayātavyaṃ praveṣṭavyaṃ mṛdrudhruvaiḥ |
dāruṇograiśca yoddhavyaṃ kṣattriyairjayakāṅkṣibhiḥ
नृपाभिषेकोऽग्निकार्य्यं सोमवारे प्रशस्यते ।
सोमे तु लेपमानं च कुर्य्याच्चैव गृहादिकम्
nṛpābhiṣeko'gnikāryyaṃ somavāre praśasyate |
some tu lepamānaṃ ca kuryyāccaiva gṛhādikam
सैनापत्यं शौर्ययुद्धं शस्त्राभ्यासः कुजे स्मृतः ।
सिद्धिकार्य्यं च मन्त्रश्च यात्रा चैव बुधे स्मृता
saināpatyaṃ śauryayuddhaṃ śastrābhyāsaḥ kuje smṛtaḥ |
siddhikāryyaṃ ca mantraśca yātrā caiva budhe smṛtā
पठनं देवपूजा च वस्त्राद्याभरणं गुरौ ।
कन्यादानं गजारोहः शुक्रे स्यात्समयः स्त्रियाः
paṭhanaṃ devapūjā ca vastrādyābharaṇaṃ gurau |
kanyādānaṃ gajārohaḥ śukre syātsamayaḥ striyāḥ
स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः
sthāpyaṃ gṛhapraveśaśca gajabandhaḥ śanau śubhaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)