शिवार्चनं प्रवक्ष्यामि भक्तिमुक्तिकरं परम् ।
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम्
śivārcanaṃ pravakṣyāmi bhaktimuktikaraṃ param |
śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः ॥
17 श्लोक · 22 में से 241
सूत भक्ति और मुक्ति देने वाली शिवपूजा बताते हैं। शिव शान्त, सर्वव्यापी, शून्य रूप हैं, जो नाद की बारह मात्राओं से परे हैं। ह्रस्व स्वरों से पाँच मुख, बिन्दु सहित दीर्घ स्वरों से अंग बनते हैं, और महामन्त्र हौं सब अर्थ देता है। हाथों और अंगों पर न्यास होता है। हृदय में धर्म, ज्ञान, वैराग्य और ऐश्वर्य पूजे जाते हैं, फिर वृषभ चिह्न वाले कमल मण्डल पर शम्भु का पूजन होता है। आग्नेय में अर्धचन्द्र आकार का कुण्ड बनाकर गर्भाधान आदि संस्कारों से अग्नि को शुद्ध किया जाता है। फिर पृथ्वी से ऊपर पाँच तत्त्वों में, निवृत्ति से शान्त्यतीत तक दीक्षा होती है। इस गोपनीय संस्कार से शुद्ध हुआ साधक निश्चय ही शिवत्व पाता है।
सूत उवाच
शिवार्चनं प्रवक्ष्यामि भक्तिमुक्तिकरं परम् ।
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम्
śivārcanaṃ pravakṣyāmi bhaktimuktikaraṃ param |
śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam
पञ्च वक्त्राणि ह्रस्वानि दीर्घाण्यंगानि बिन्दुना ।
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः
pañca vaktrāṇi hrasvāni dīrghāṇyaṃgāni bindunā |
savisargaṃ vadedastraṃ śiva ūrghvaṃ tathā punaḥ
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः ।
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्तमस्तकम्
ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ |
hastābhyāṃ saṃspṛśetpādāvūrdhvaṃ pādāntamastakam
महामुद्रा हि सर्वेषां करांगन्यासमाचरेत् ।
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत्
mahāmudrā hi sarveṣāṃ karāṃganyāsamācaret |
tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet
कनिष्ठामादितः कृत्वा तर्जन्यंगानि विन्यसेत् ।
पूजनं संप्रवक्ष्यामि कर्णिकायां हृदम्बुजे
kaniṣṭhāmāditaḥ kṛtvā tarjanyaṃgāni vinyaset |
pūjanaṃ saṃpravakṣyāmi karṇikāyāṃ hṛdambuje
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यादि हृदार्चयेत् ।
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत्
dharmaṃ jñānaṃ ca vairāgyamaiśvaryyādi hṛdārcayet |
āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet
आचामं स्नपनं पूजामेकाधारणतुल्यकाम् ।
अग्निकार्य्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत्
ācāmaṃ snapanaṃ pūjāmekādhāraṇatulyakām |
agnikāryyavidhiṃ vakṣye astreṇollekhanaṃ caret
वर्म्मणाभ्युक्षणं कार्य्यं शक्तिन्यासं हृदा चरेत् ।
हृदि वा शक्तिगर्त्ते च प्रक्षिपेज्जातवेदसम्
varmmaṇābhyukṣaṇaṃ kāryyaṃ śaktinyāsaṃ hṛdā caret |
hṛdi vā śaktigartte ca prakṣipejjātavedasam
गर्भाधानादिकं कृत्वा निष्कृतिं चास्य पश्चिमाम् ।
हृदा कृत्वा सर्वकर्म्म शिवं सांगं तु होमयेत्
garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cāsya paścimām |
hṛdā kṛtvā sarvakarmma śivaṃ sāṃgaṃ tu homayet
पूजयेन्मण्डले शम्भुं पद्मगर्भे गवांकितम् ।
चतुः षष्ट्यन्तमष्टादि स्वाक्षि खाद्यादिमण्डलम्
pūjayenmaṇḍale śambhuṃ padmagarbhe gavāṃkitam |
catuḥ ṣaṣṭyantamaṣṭādi svākṣi khādyādimaṇḍalam
खाक्षीन्द्रसूर्य्यगं सर्वखादिवेदेन्दु
वर्त्तनम् ।
आग्नेय्यां कारयेत्कुण्डमर्द्धचन्द्रनिभं शुभम्
khākṣīndrasūryyagaṃ sarvakhādivedendu
varttanam |
āgneyyāṃ kārayetkuṇḍamarddhacandranibhaṃ śubham
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते ।
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः
agniśāstra parāyustho tdṛdayādigaṇocyate |
astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे ।
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः
dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare |
nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ
शान्त्यतीतं भवेद्धोम तत्परं शान्तमव्ययम् ।
एकैकस्य शतं होमित्येवं पंच होमयेत्
śāntyatītaṃ bhaveddhoma tatparaṃ śāntamavyayam |
ekaikasya śataṃ homityevaṃ paṃca homayet
पश्चात्पूर्णाहुतिं दत्त्वा प्रा
सादेन शिवं स्मरेत् ।
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात्
paścātpūrṇāhutiṃ dattvā prā
sādena śivaṃ smaret |
prāyaścittaviśuddhyarthamekaikāṣṭāhutiṃ kramāt
होमयेदस्त्रबीजेन एवं दीक्षां समाप्येत् ।
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम्
homayedastrabījena evaṃ dīkṣāṃ samāpyet |
yajanavyatirekeṇa gopyaṃ saṃskāramuttamam
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम्
evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)