शिवार्चनं प्रवक्ष्यामि धर्म्मकामादिसाधनम् ।
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः
śivārcanaṃ pravakṣyāmi dharmmakāmādisādhanam |
tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशोऽध्यायः ॥
58 श्लोक · 23 में से 241
सूत सम्पूर्ण दैनिक शिवपूजा बताते हैं। आरम्भ आत्मतत्त्व, विद्यातत्त्व और शिवतत्त्व के तीन आचमन, भस्मस्नान और तर्पण से होता है। रुद्र गायत्री का जप होता है: तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नो रुद्रः प्रचोदयात्। नवग्रहों सहित शिवसूर्य का पूजन होता है। द्वार पर नन्दी और महाकाल, गंगा और यमुना, और वामा से मनोन्मनी तक नौ शक्तियों वाला आसन पूजा जाता है। फिर लम्बी भूतशुद्धि आती है, जिसमें मूल से शिखा तक कमलों में पृथ्वी, जल, अग्नि, वायु और आकाश को विलीन किया जाता है। तब सदाशिव का ध्यान है: श्वेत, सोलह वर्ष के, पंचमुख, त्रिनेत्र, दस भुजाओं में शूल, खट्वांग, सर्प, अक्षमाला, डमरू और नीलकमल लिए। अन्त में श्वास की गति से शेष आयु के लक्षण बताए गए हैं।
सूत उवाच
शिवार्चनं प्रवक्ष्यामि धर्म्मकामादिसाधनम् ।
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः
śivārcanaṃ pravakṣyāmi dharmmakāmādisādhanam |
tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ
ॐ हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा ।
ॐ हूं शिवतत्त्वाय स्वाहा हृदा स्याश्रोत्रवंदनम्
oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā |
oṃ hūṃ śivatattvāya svāhā hṛdā syāśrotravaṃdanam
भस्मस्न्नानं तर्पणं च ॐ हां स्वाहा सर्वमन्त्रकाः ।
सर्वे देवाः सर्वमुनिर्नमोऽन्तो वौषडन्तकः
bhasmasnnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ |
sarve devāḥ sarvamunirnamo'nto vauṣaḍantakaḥ
स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः ।
ॐ हां प्रपितामहेभ्यस्तथा मातामहादयः
svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ |
oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ
हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः ।
आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः
hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ |
ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ
ॐ हां तन्महेशाय विद्महे, वाग्विशुद्धाय धीमहि, तन्नो रुद्रः प्रचोदयात्
oṃ hāṃ tanmaheśāya vidmahe, vāgviśuddhāya dhīmahi, tanno rudraḥ pracodayāt
सूर्य्योपस्थानकं कृत्वा सूर्य्यमन्त्रैः प्रपूजयेत् ।
ॐ हां हीं हूं हैं हौं हः शिवसूर्य्याय नमः ।
ॐ हं खखोल्काय सूर्य्यमूर्त्तये नमः ।
ॐ ह्रां ह्रीं सः सूर्य्याय नमः
sūryyopasthānakaṃ kṛtvā sūryyamantraiḥ prapūjayet |
oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ śivasūryyāya namaḥ |
oṃ haṃ khakholkāya sūryyamūrttaye namaḥ |
oṃ hrāṃ hrīṃ saḥ sūryyāya namaḥ
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् ।
अग्नयादौ विमलेशानमाराध्य परमं सुखम्
daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret |
agnayādau vimaleśānamārādhya paramaṃ sukham
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें ।
भद्रां च रैं विभूतिं रों विमलां रौममोधि
काम्
yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ |
bhadrāṃ ca raiṃ vibhūtiṃ roṃ vimalāṃ raumamodhi
kām
रं विद्युतां च पूर्वादौ रा
मध्ये सर्वतोमुखीम् ।
अर्कासनं सूर्य्यमूर्त्तिं ह्रां ह्रूं
सः सूर्य्यमर्च्चयेत्
raṃ vidyutāṃ ca pūrvādau rā
madhye sarvatomukhīm |
arkāsanaṃ sūryyamūrttiṃ hrāṃ hrūṃ
saḥ sūryyamarccayet
ॐ आं हृदयार्काय च शिरः शिखा च भूर्भुवः स्वरोम् ।
ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम्
oṃ āṃ hṛdayārkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom |
jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām
यजेत्सूर्य्यहृदा सर्वान्सों सोमं मं च मंगलम् ।
बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम्
yajetsūryyahṛdā sarvānsoṃ somaṃ maṃ ca maṃgalam |
baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram
रं राहुं कं यजेत्केतुं ॐ तेजश्चण्डमर्च्चयेत् ।
सूर्य्यमभ्यर्च्य चाचम्य कनिष्ठातोऽङ्गकांन्यसेत्
raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarccayet |
sūryyamabhyarcya cācamya kaniṣṭhāto'ṅgakāṃnyaset
हां हृच्छिरो हूं शिखा हैं वर्म्म हौं चैव नेत्रकम् ।
होऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत्
hāṃ hṛcchiro hūṃ śikhā haiṃ varmma hauṃ caiva netrakam |
ho'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत्
arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः ।
द्वारे नन्दिमहाकालौ गंगा च यमुनाथ गौः
ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ |
dvāre nandimahākālau gaṃgā ca yamunātha gauḥ
श्रीवत्सं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् ।
शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्म्मकादिकम्
śrīvatsaṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum |
śaktyanantau yajenmadhye pūrvādau dharmmakādikam
अधर्म्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके ।
वामाज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः
adharmmādyaṃ ca vahnyādau madhye padmasya karṇike |
vāmājyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ
ॐ हौं कलविकरिण्यै बलविकरिणी ततः ।
बलप्रमथिनी सर्वभूतानां दमनी ततः
oṃ hauṃ kalavikariṇyai balavikariṇī tataḥ |
balapramathinī sarvabhūtānāṃ damanī tataḥ
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः ।
शिवासनं महामूर्त्ति मूर्त्तिमध्ये शिवाय च
manonmanī yajedetāḥ paṭhimadhye śivāgrataḥ |
śivāsanaṃ mahāmūrtti mūrttimadhye śivāya ca
आवाहनं स्थापनं च सन्निधानं निरोधनम् ।
सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम्
āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam |
sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam
आचामाभ्यङ्गमुद्वर्त्तं स्नानं निर्म्मथनं चरेत् ।
वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत्
ācāmābhyaṅgamudvarttaṃ snānaṃ nirmmathanaṃ caret |
vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet
आचामं मुखवासं च ताम्बूलं हस्तशोधनम् ।
छत्रचामरपावित्रं परमीकरणं चरेत्
ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam |
chatracāmarapāvitraṃ paramīkaraṇaṃ caret
रूपकल्पके चैकाहजपो जाप्यसमर्पणम् ।
स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम्
rūpakalpake caikāhajapo jāpyasamarpaṇam |
stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम् ।
इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत्
agnīśarakṣo vāyavye madhye pūrvāditantrakam |
indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः
guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me deva tatprasādāttvayi sthitiḥ
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम् ।
तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर
yatkiñcitkriyate karma sadā sukṛtaduṣkṛtam |
tanme śivapadasthasya rudra kṣapaya śaṅkara
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।
शिवो जयति सर्वत्र यः शिवः सोऽहमेव च
śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat |
śivo jayati sarvatra yaḥ śivaḥ so'hameva ca
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव ।
त्वं त्राता विश्वनेता च नान्योनाथोऽस्तिमेशिव
yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava |
tvaṃ trātā viśvanetā ca nānyonātho'stimeśiva
अथान्येन प्रकारेण शिवपूजां वदाम्यहम् ।
गणः सरस्वती नंदी महाकालोऽथगंगया
athānyena prakāreṇa śivapūjāṃ vadāmyaham |
gaṇaḥ sarasvatī naṃdī mahākālo'thagaṃgayā
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे ।
इंद्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम्
pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime |
iṃdrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam
तेजो वायुर्व्योम गंधो रसरूपे च शब्दकः ।
स्पर्शो वाक् पाणि पादं च पायूपस्थं श्रुतित्वचम्
tejo vāyurvyoma gaṃdho rasarūpe ca śabdakaḥ |
sparśo vāk pāṇi pādaṃ ca pāyūpasthaṃ śrutitvacam
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि ।
पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि
cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi |
pumānnāgo buddhividye kalā kālo niyatyapi
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः ।
शक्तिः शिवश्च तान्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत्
māyā ca śuddha vidyā ca īśvaraśca sadāśivaḥ |
śaktiḥ śivaśca tānjñātvā mukto jñānī śivo bhavet
यः शिवः स हरिर्ब्रह्मा सोऽहं ब्रह्मास्मि शङ्कर
yaḥ śivaḥ sa harirbrahmā so'haṃ brahmāsmi śaṅkara
भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत् ।
हृत्पद्मे सद्योमंत्रः स्यान्निवृत्तिश्च कला इडा
bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet |
hṛtpadme sadyomaṃtraḥ syānnivṛttiśca kalā iḍā
पिंगला द्वे च नाड्यौ तु प्राणोऽपानश्च मारुतौ ।
इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम्
piṃgalā dve ca nāḍyau tu prāṇo'pānaśca mārutau |
indro deho brahmahetuścaturastraṃ ca maṇḍalam
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः ।
हृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम्
vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ |
hṛtsthānasādṛśyarutaṃ śatakoṭipravistaram
ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् ।
ॐ ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट् ।
चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम्
oṃ hrīṃ pratiṣṭhāyai hrūṃ hraḥ phaṭ |
oṃ hrīṃ hrūṃ vidyāyai hraṃ hraḥ phaṭ |
caturaśītikoṭīnāmucchrayaṃ bhūmitantrakam
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् ।
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम्
tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet |
adhomukhīṃ tataḥ pṛthvīṃ tattacchudhdaṃ bhaveddhruvam
वामादेवी प्रतिष्ठा च सुषुम्ना धारिका तथा ।
समानोदानवरुणौ देवता विष्णु कारणम्
vāmādevī pratiṣṭhā ca suṣumnā dhārikā tathā |
samānodānavaruṇau devatā viṣṇu kāraṇam
उद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च ।
एवं कुर्य्यात्कण्ठपद्ममर्द्धचन्द्राख्यमण्डलम्
uddhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca |
evaṃ kuryyātkaṇṭhapadmamarddhacandrākhyamaṇḍalam
पद्मांकितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत् ।
चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम्
padmāṃkitaṃ dviviṃśatikakoṭivistīrṇamau smaret |
caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham
तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः ।
नाभ्यो
ष्ठयोर्हस्तिजिह्वाध्यानो नागोग्निदेवता
tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ |
nābhyo
ṣṭhayorhastijihvādhyāno nāgognidevatā
रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम् ।
ज्वालाकृते त्रिकोणं च चतुः कोटिशतानि च
rudrahetustriruddhātāstriguṇā raktavarṇakam |
jvālākṛte trikoṇaṃ ca catuḥ koṭiśatāni ca
विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत् ।
ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः
कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम् ।
द्विरुद्धातो गुणौ द्वौ च धूम्रषट्कोणमण्डलम्
vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet |
lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ
kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam |
dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam
बिंद्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा ।
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत्
biṃdvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā |
caturdaśādhikaṃ koṭivāyutattvaṃ vicintayet
द्वादशति सरसिजे शान्त्यतीतास्तथेश्वराः ।
कुहूश्च शङखिनी नाड्यो देवदत्तो धनञ्जयः
dvādaśati sarasije śāntyatītāstatheśvarāḥ |
kuhūśca śaṅakhinī nāḍyo devadatto dhanañjayaḥ
शिखेशानकारणं च सदाशिव इति स्मृतः ।
गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत्
śikheśānakāraṇaṃ ca sadāśiva iti smṛtaḥ |
guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret
षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम् ।
वर्त्तुलं चिंतयेव्द्योम भूतशुद्धिरुदाहृता
ṣoḍaśakoṭivistīrṇaṃ pañcaviṃśatikocchrayam |
varttulaṃ ciṃtayevdyoma bhūtaśuddhirudāhṛtā
गुणयो गुरुर्बीजगुरुः शक्तयनंतौ च धर्म्मकः ।
ज्ञानवैराग्यमैश्वर्य्यैस्ततः पूर्वादिपत्रके
guṇayo gururbījaguruḥ śaktayanaṃtau ca dharmmakaḥ |
jñānavairāgyamaiśvaryyaistataḥ pūrvādipatrake
अधोर्द्ध्ववदने द्वे च पद्मकर्णिककेसरम् ।
वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम्
adhorddhvavadane dve ca padmakarṇikakesaram |
vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam
तत्त्वं शिवासने मूर्त्तिर्ही हौं विद्यादेहाय नमः ।
बद्धपद्मासनासीनः सितः षोडशवार्षिकः
tattvaṃ śivāsane mūrttirhī hauṃ vidyādehāya namaḥ |
baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ
पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन् ।
अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः
pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan |
abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ
दक्षैः करैर्वामकैश्च भुजंगं चाक्षसूत्रकम् ।
डमरुकं नीलोत्पलं बीजपूरकमुत्तमम्
dakṣaiḥ karairvāmakaiśca bhujaṃgaṃ cākṣasūtrakam |
ḍamarukaṃ nīlotpalaṃ bījapūrakamuttamam
इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः ।
एवं शिवार्च्चनध्यानी सर्वदा कालवर्जितः
icchājñānakriyāśaktistrinetro hi sadāśivaḥ |
evaṃ śivārccanadhyānī sarvadā kālavarjitaḥ
इहाहोरा वचारेण त्रीणि वर्षाणि जीवति ।
दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः
ihāhorā vacāreṇa trīṇi varṣāṇi jīvati |
dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ
दिनत्रयस्य चारेण वर्षमेकं स जीवति ।
नाकाले शीतले मृत्युरुष्णे चैव तु कारके
dinatrayasya cāreṇa varṣamekaṃ sa jīvati |
nākāle śītale mṛtyuruṣṇe caiva tu kārake
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)