सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात्
saptarātrātprajāyante khalvāṭasya kacāḥ śubhāḥ |
dagdhahastidantalepātsājākṣīrarasāñjanāt
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे केशोत्पत्त्यादिवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥
18 श्लोक · 176 में से 241
भगवान विष्णु शिव को केशों के उपचार बताते हैं। बकरी के दूध और रसांजन के साथ जले हाथीदाँत का लेप गंजे सिर पर सात रातों में सुन्दर बाल उगाता है, और गुंजा के साथ भृंगराज के रस में पका तेल बाल बढ़ाता है; गुंजा का लेप इन्द्रलुप्त मिटाता है। आँवले के साथ आम की गुठली का लेप बालों की जड़ें दृढ़ करता और उन्हें घने, लम्बे और चिकने बनाता है। भृंगराज, लौहचूर्ण, त्रिफला, नील और कनेर सफेद बालों को काला करते हैं। कानों में भेड़ का मूत्र व सेंधा नमक या चमेली का रस भरने से दुर्गन्धित स्राव और कृमि मिटते हैं। अन्त में कुष्ठ, उड़द, मिर्च, अश्वगन्धा और सरसों के उबटन बताए गए हैं, जो भुजा, स्तन, कान और पुरुष अंग की वृद्धि करते कहे गए हैं।
श्रीभगवानुवाच
सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात्
saptarātrātprajāyante khalvāṭasya kacāḥ śubhāḥ |
dagdhahastidantalepātsājākṣīrarasāñjanāt
भृङ्गराजरसेनैव चतुर्भागेन साधितम् ।
केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च
bhṛṅgarājarasenaiva caturbhāgena sādhitam |
keśavṛddhikaraṃ tailaṃ guñjācūrṇānvitena ca
एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम् ।
गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत्
elāmāṃsīkuṣṭhamurāyuktamabhyaṅgataḥ śivam |
guñjāphalaṃ samādeyaṃ lepanaṃ candraluptanut
आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च ।
करञ्जामलकैलाललाक्षालेपोऽरुणापहः
āmrāsthicūrṇalepādvai keśāḥ sūkṣmā bhavanti ca |
karañjāmalakailālalākṣālepo'ruṇāpahaḥ
आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै ।
बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च
āmrāsthimajjāmalakalepātkeśā bhavanti vai |
baddhamūlā ghanā dīrghāḥ snagdhāḥ syurnotpatanti ca
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् ।
सचतुर्गुणगोमूत्रं मनसः शिलमेव वा
viḍaṅgagandhapāṣāṇasādhitaṃ tailamuttamam |
sacaturguṇagomūtraṃ manasaḥ śilameva vā
शिरोऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् ।
नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम्
śiro'bhyaṅgācchirājanmayūkālikhyāḥ kṣayaṃ nayet |
navadagdhaṃ śaṅkhacūrṇaṃ ghṛṣṭasīsakalepitam
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज ।
भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम्
kacāḥ ślakṣṇā mahākṛṣṇā bhavanti vṛṣabhadhvaja |
bhṛṅgarājaṃ lohacūrṇaṃ triphalā bījapūrakam
नीली च करवीरं च गुडमेतैः समं शृतम् ।
पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम्
nīlī ca karavīraṃ ca guḍametaiḥ samaṃ śṛtam |
palitānīha kṛṣṇāni kuryāllepānmahauṣadham
आम्रास्थिमज्जा त्रिफला नी
ली च भृङ्ग राजकम् ।
जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत्
āmrāsthimajjā triphalā nī
lī ca bhṛṅga rājakam |
jīrṇaṃ pakvaṃ lohacūrṇaṃ kāñjikaṃ kṛṣṇakeśakṛt
चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् ।
अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत्
cakramardakabījāni kuṣṭhameraṇḍamūlakam |
atyamlakāñjikaṃ piṣṭvā lepānmastakaroganut
सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा ।
शतपुष्पा देवदारु एभिस्तैलं तु साधितम्
saindhavaṃ ca vacā hiṅgu kuṣṭhaṃ nāgeśvaraṃ tathā |
śatapuṣpā devadāru ebhistailaṃ tu sādhitam
गोपुरीपरसेनैव चतुर्भागेन संयुतम् ।
तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत्
gopurīparasenaiva caturbhāgena saṃyutam |
tatkaṇabharaṇādugrakarṇaśūlaṃ kṣayaṃ nayet
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव ।
कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च
meṣamūtrasaindhavābhyāṃ karṇayorbharaṇācchiva |
karṇayoḥ pūtināśaḥ syātkṛmistrāvādikasya ca
मालतीपुप्पदलयो रसेन भरणात्तथा ।
गोजलेनैव पूरेण पूयस्त्रावो विनश्यति
mālatīpuppadalayo rasena bharaṇāttathā |
gojalenaiva pūreṇa pūyastrāvo vinaśyati
कष्ठमाषमरीचानि तगरं मधु पिप्पली ।
अपामार्गोऽश्वगन्धा च बृहती सितसर्षपाः
kaṣṭhamāṣamarīcāni tagaraṃ madhu pippalī |
apāmārgo'śvagandhā ca bṛhatī sitasarṣapāḥ
यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम् ।
लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत् ।
कटुतैलं भल्लातकं बृहती फलदाडिमम्
yavāstilāḥ saindhavaṃ ca pādikodvartanaṃ śubham |
liṅgabāhustanānāṃ ca karṇayorvṛddhikṛdbhavet |
kaṭutailaṃ bhallātakaṃ bṛhatī phaladāḍimam
वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते
valkalaiḥ sādhitairliptaṃ liṅgaṃ tena vivardhate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)