शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम् ।
यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम्
śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām |
yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवरात्रिव्रतं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥
23 श्लोक · 124 में से 241
भगवान शिव ने गौरी को शिवरात्रि व्रत बताया था, वही ब्रह्मा सुनाते हैं। माघ और फाल्गुन के बीच की कृष्ण चतुर्दशी को रात भर जागकर रुद्र की पूजा करने से भोग और मोक्ष मिलते हैं। अर्बुद का पापी निषादराज सुन्दरसेन कुत्तों के साथ शिकार को गया, कुछ न मिला, और भूखा एक सरोवर के किनारे झाड़ी में रात भर जागता रहा। वहाँ एक लिंग था। अनजाने में उसके पत्ते लिंग पर गिरे, धूल रोकने को छिड़का जल लिंग पर पड़ा, और गिरा हुआ बाण उठाने को झुककर उसने लिंग छू लिया। मृत्यु पर यमदूत उसे बाँधकर ले चले, पर शिव के गणों ने उन्हें हराकर छुड़ाया और वह कुत्ते सहित गण बना। फिर विधि है: उपवास, ओं नमः शिवाय, होम, चारों प्रहर पूजा, प्रातः क्षमा-प्रार्थना और भक्तों को भोजन।
ब्रह्मोवाच
शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम् ।
यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम्
śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām |
yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam
ईश्वरौवाच ।
माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी ।
तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः
īśvarauvāca |
māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī |
tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ
कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः ।
उपोषितैः पूजितः सन्नरकात्तरयत्तथा
kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ |
upoṣitaiḥ pūjitaḥ sannarakāttarayattathā
निषादश्चर्बुदे राजा पापी सुन्दरसेनकः ।
स कुक्रुरैः समायुक्तो मृगान्हन्तुं वनं गतः
niṣādaścarbude rājā pāpī sundarasenakaḥ |
sa kukruraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ
मृगादि कमसंप्राप्य क्षुत्पिपासार्दितो गिरौ ।
रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः
mṛgādi kamasaṃprāpya kṣutpipāsārdito girau |
rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः ।
पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः
tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ |
parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ
तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके ।
शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात्
tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake |
śaraḥ pramādenaikastu pracyutaḥ karapallavāt
जानुभ्यामवनीं गत्वा लिङ्गं स्प्टष्ट्वा गृहीतवान् ।
एवं स्नानं स्पर्शनं च पूजनं जागरोऽभवत्
jānubhyāmavanīṃ gatvā liṅgaṃ spṭaṣṭvā gṛhītavān |
evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro'bhavat
प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च ।
काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते
prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca |
kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च ।
कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः
tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca |
kukkureṇa sahaivābhūdgaṇo matpārśvago'malaḥ
एवमज्ञानतः पुण्यञ्ज्ञानात्पुण्यमथाक्षयम् ।
त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती
evamajñānataḥ puṇyañjñānātpuṇyamathākṣayam |
trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī
प्रातर्देव चतुर्दश्यां जागरिष्याम्यहं निशि ।
पूजां दानं तपो होमं करिष्याम्यात्मशक्तितः
prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi |
pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ
चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनि ।
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर
caturdaśyāṃ nirāhāro bhūtvā śambho pare'hani |
bhokṣye'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara
पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुं श्रितः ।
ओं नमो नमः शिवाय गन्धाद्यः पूजयेद्धरम्
pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ |
oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam
तिलतण्डुलव्रीहींश्च जुहुयात्सघृतं चरुम् ।
हुत्वा पूर्णाहुतिं दत्त्वा शृणुयाद्गीतसत्कथाम्
tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum |
hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām
अर्धरात्रे त्रियामे च चतुर्थे च पुनयर्जत् ।
मूलमन्त्रं तथा जप्त्वा प्रभाते तु क्षमापयेत्
ardharātre triyāme ca caturthe ca punayarjat |
mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet
अविघ्नेन व्रतं देव त्वत्प्रसदान्मयार्चितम् ।
क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर
avighnena vrataṃ deva tvatprasadānmayārcitam |
kṣamasva jagatāṃ nātha trailokyādhipate hara
यन्मयाद्य कृतं पुण्यं यद्रुद्रस्य निवेदितम् ।
त्वत्प्रसादान्मया देव व्रतमद्य समापितम्
yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam |
tvatprasādānmayā deva vratamadya samāpitam
प्रसन्नो भव मे श्रीमन् गृहं प्रति च गम्यताम् ।
त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः
prasanno bhava me śrīman gṛhaṃ prati ca gamyatām |
tvadālokanamātreṇa pavitro'smi na saṃśayaḥ
भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ।
देवादिदेव भूतेश लोकानुग्रहकारक
bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet |
devādideva bhūteśa lokānugrahakāraka
यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ।
इति क्षमाप्य च व्रती कुर्याद्वादशवार्षिकम्
yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ |
iti kṣamāpya ca vratī kuryādvādaśavārṣikam
कीर्तिश्रीपुत्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ।
द्वादशेष्वपि मासेषु प्रकुर्यादिह जागरम्
kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet |
dvādaśeṣvapi māseṣu prakuryādiha jāgaram
व्रती द्वादश संभोज्य दीपदः स्वर्गमाप्नुयात्
vratī dvādaśa saṃbhojya dīpadaḥ svargamāpnuyāt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)