व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् ।
एकभक्तेन नक्तेन मासं वायाचितेन वा
vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet |
ekabhaktena naktena māsaṃ vāyācitena vā
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भीष्मपञ्चकादिव्रतं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥
15 श्लोक · 123 में से 241
ब्रह्मा कार्तिक के व्रत बताते हैं: पूरे मास एक समय या केवल रात में भोजन करे, या दूध, शाक और फल पर रहे, या उपवास करे। इनमें श्रेष्ठ भीष्मपंचक है, जो शुक्ल एकादशी से पाँच दिन चलता है। व्रती मौन रखता है, प्रतिमा को पंचगव्य से नहलाकर कपूर का लेप करता है, घी में गुग्गुल का धूप देता है और ओं नमो वासुदेवाय से एक सौ आठ आहुतियाँ देता है। पहले दिन कमल से चरण, दूसरे दिन बिल्वपत्र से घुटने, फिर नाभि, कन्धे और सिर पूजे जाते हैं; व्रती भूमि पर सोता है और प्रतिदिन गाय का एक द्रव्य लेता है। अन्त में मिश्र तिथियों का निर्णय है: द्वादशी से युक्त एकादशी में हरि रहते हैं, दशमी से युक्त में असुर।
ब्रह्मोवाच
व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् ।
एकभक्तेन नक्तेन मासं वायाचितेन वा
vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet |
ekabhaktena naktena māsaṃ vāyācitena vā
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः ।
सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत्
dugdhaśākaphalādyairvā upavāsena vā punaḥ |
sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने ।
चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम्
sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane |
cāturmāsye tatastasmātkārtike bhīṣmapañcakam
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् ।
स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम्
tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret |
snātvā trikālaṃ pitrādīnyavādyairarcayeddharim
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः ।
स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत्
yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ |
snāpayitvātha karpūramukhaiścaivānulepayet
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् ।
नैवेद्यं परमान्नं तु जपेदष्टोत्तरं शतम्
ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet |
naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam
ओं नमो वासुदेवाय घृतव्रीहितिलादिकम् ।
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत्
oṃ namo vāsudevāya ghṛtavrīhitilādikam |
aṣṭākṣareṇa mantreṇa svāhāntena tu homayet
प्रथमेऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितीयक ।
बिल्वपत्रैर्जानुदेशं नाभिं गन्धेन चापरे
prathame'hni hareḥ pādau yajetpadmairdvitīyaka |
bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare
स्कन्धा बिल्वजवाभिश्च पञ्चमेऽह्नि शिरोऽर्चयेत् ।
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात्
skandhā bilvajavābhiśca pañcame'hni śiro'rcayet |
mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् ।
नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक्
gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam |
naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः ।
अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम्
ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ |
aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam
एकादशी द्वादशी च निशान्ते च त्रयोदशी ।
नित्यमेकादशी यत्र तत्र सन्निहितो हरिः
ekādaśī dvādaśī ca niśānte ca trayodaśī |
nityamekādaśī yatra tatra sannihito hariḥ
दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः ।
द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत्
daśamyekādaśī yatra tatrasthāścāsurādayaḥ |
dvādaśyāṃ pāraṇa kuryātsūtake mṛtake caret
चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् ।
पौर्णमास्याममावास्यां प्रतिपन्मिश्रितां मुने
caturdaśīṃ pratipadaṃ pūrvamiśrāmupāvaset |
paurṇamāsyāmamāvāsyāṃ pratipanmiśritāṃ mune
द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् ।
चतुर्थ्या सङ्गतां नित्यं चतुर्थीञ्चानया युताम् ।
पञ्चमीं षष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम्
dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāñcāpyupāvaset |
caturthyā saṅgatāṃ nityaṃ caturthīñcānayā yutām |
pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāñca saptamīm
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)