पूर्व खण्ड — आचार काण्ड

अध्याय 105: महापातक और उनके प्रायश्चित्त

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तप्रायश्चित्तविवेको नाम पञ्चोत्तरशततमोऽध्यायः ॥

73 श्लोक · 105 में से 241

इस अध्याय में क्या होता है

महापातक और उनके प्रायश्चित्त

विहित कर्म न करने, निषिद्ध कर्म करने और इन्द्रियों को न रोकने से मनुष्य पतित होता है, इसलिए यत्न से प्रायश्चित्त करना चाहिए; उसके बिना और पश्चाताप के बिना पापी रौरव, तामिस्र, अवीचि, कुम्भीपाक आदि नरकों में जाते हैं। ब्रह्महत्या, सुरापान, स्वर्ण की चोरी और गुरुपत्नीगमन महापातक हैं, और उपपातक भी गिनाए गए हैं। प्रायश्चित्त स्पष्ट कहे गए हैं: ब्रह्महत्या के लिए खोपड़ी का ध्वज लेकर बारह वर्ष भिक्षा पर जीवन; स्वर्ण चोर राजा को मूसल देकर उसके प्रहार से शुद्ध होता है; गुरुपत्नीगामी के लिए शास्त्र लिङ्गच्छेद और मृत्यु, या प्राजापत्य कृच्छ्र और चान्द्रायण विधान करता है। गोवध, क्षत्रिय, वैश्य, शूद्र या पशुओं के वध पर क्रम से दान और व्रत हैं। गुप्त पापों के लिए रहस्य व्रत हैं, और अनुक्त पाप चान्द्रायण से शुद्ध होते हैं।

105.1

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति

vihitasyānanuṣṭhānānninditasya ca sevanāt |
anigrahāccendriyāṇāṃ naraḥ patanamṛcchati

105.2

तस्माद्यत्नेन कर्त्तव्यं प्रायश्चित्तं विशुद्धये ।
एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति

tasmādyatnena karttavyaṃ prāyaścittaṃ viśuddhaye |
evamasyāntarātmā ca lokaścaiva prasīdati

105.3

लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः ।
प्रायश्चित्तमकुर्वाणाः पश्चात्तापविवर्जिताः

lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ |
prāyaścittamakurvāṇāḥ paścāttāpavivarjitāḥ

105.4

नरकान्यान्ति पापा वै महारौरवरौरवान् ।
तामिस्रं लोहशङ्कुं च पूतिगन्धसमाकुलम्

narakānyānti pāpā vai mahārauravarauravān |
tāmisraṃ lohaśaṅkuṃ ca pūtigandhasamākulam

105.5

हंसाभं लोहितोदं च सञ्जीवननदीपथम् ।
महानिलयकाकोलमन्धतामिस्रवापनम्

haṃsābhaṃ lohitodaṃ ca sañjīvananadīpatham |
mahānilayakākolamandhatāmisravāpanam

105.6

अविचीं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः ।
ब्रह्महा मद्यपः स्तेयी संयोगी गुरुतल्पगः

avicīṃ kumbhīpākaṃ ca yānti pāpā hyapuṇyataḥ |
brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ

105.7

गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे ।
निषिद्धभक्षणं जिह्मक्रियाचरणमेव च

gurunindā vedanindā brahmahatyāsame hyubhe |
niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca

105.8

रजस्वलामुखास्वादः सुरापानसमानि तु ।
अश्वरत्नादिहरणं सुवर्णस्तेयसम्मितम्

rajasvalāmukhāsvādaḥ surāpānasamāni tu |
aśvaratnādiharaṇaṃ suvarṇasteyasammitam

105.9

सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु तथा स्त्रीषु गुरुतल्पसमं स्मृतम्

sakhibhāryākumārīṣu svayoniṣvantyajāsu ca |
sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam

105.10

पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि ।
मातुः सपत्नीं भगिनीमाचार्य्यतनयां तथा

pituḥ svasāraṃ mātuśca mātulānīṃ snuṣāmapi |
mātuḥ sapatnīṃ bhaginīmācāryyatanayāṃ tathā

105.11

आचार्य्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ।
छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा

ācāryyapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ |
chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā

105.12

गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया ।
अनाहिताग्निताऽपण्यविक्रयः परिवेदनम्

govadho vrātyatāsteyamṛṇānāṃ ca parikriyā |
anāhitāgnitā'paṇyavikrayaḥ parivedanam

105.13

भृत्याचाध्ययनादानं भृतकाध्यापनमन्तथा ।
पारदार्य्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया

bhṛtyācādhyayanādānaṃ bhṛtakādhyāpanamantathā |
pāradāryyaṃ pārivittyaṃ vārddhuṣyaṃ lavaṇakriyā

105.14

सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता ।
नास्तिक्यं व्रतलोपश्च शूल्यं गोश्वेव विक्रयः

sacchūdraviṭkṣattrabandhorninditārthopajīvitā |
nāstikyaṃ vratalopaśca śūlyaṃ gośveva vikrayaḥ

105.15

पितृमातृसुहृत्त्यागस्तडागारामविक्रयः ।
कन्यायादूषण चैव परिविन्दकयाजनम्

pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ |
kanyāyādūṣaṇa caiva parivindakayājanam

105.16

कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ।
आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्

kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam |
ātmano'rthe kriyārambho madyapastrīniṣevaṇam

105.17

स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ।
असच्छास्त्राभिगमनं भार्य्यात्मपरिवि क्रयः

svādhyāyāgnisutatyāgo bāndhavatyāga eva ca |
asacchāstrābhigamanaṃ bhāryyātmaparivi krayaḥ

105.18

उपपापानि चोक्तानि प्रायश्चित्तं निबोधत ।
शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन्

upapāpāni coktāni prāyaścittaṃ nibodhata |
śiraḥ kapāladhvajavān bhikṣāśī karma vedayan

105.19

ब्रह्महा द्वादश समा मितभुक् शुद्धिमाप्नुयात् ।
लोमभ्यः स्वाहेति च वा लोमप्रभृति वै तनुम्

brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt |
lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum

105.20

मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम् ।
शुद्धिः स्याद्ब्राह्मणत्राणात्कृत्वैवं शुद्धिरेव च

majjāntāṃ juhuyādvāpi svasvamantrairyathākramam |
śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca

105.21

निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतोऽपि वा ।
अरण्ये नियतो जुप्त्वा त्रिः कृत्वो वेदसंहिताम्

nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato'pi vā |
araṇye niyato juptvā triḥ kṛtvo vedasaṃhitām

105.22

सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत् ।
यागस्थक्षत्त्रविड्घाते चरेद्ब्रह्महणो व्रतम्

sarasvatīṃ vā saṃsevyaṃ dhanaṃ pātre samarpayet |
yāgasthakṣattraviḍghāte caredbrahmahaṇo vratam

105.23

गर्भहा वा यथावर्णं तथात्रेयीनिषू
दनम् ।
चरेद्वरतमहत्वापि घातनार्थमुपागतः

garbhahā vā yathāvarṇaṃ tathātreyīniṣū
danam |
caredvaratamahatvāpi ghātanārthamupāgataḥ

105.24

द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत् ।
सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः

dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret |
surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ

105.25

अग्निवर्णं घृतं वापि चीरवास जटी भवेत् ।
व्रतं ब्रह्महणः कुर्य्यात्पुनः संस्कारमर्हति

agnivarṇaṃ ghṛtaṃ vāpi cīravāsa jaṭī bhavet |
vrataṃ brahmahaṇaḥ kuryyātpunaḥ saṃskāramarhati

105.26

रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा ।
पतिलोकपरिभ्रष्टा गृध्री स्यात्सूकरी शुनी

reteviṇmūtrapānācca surāpā brāhmaṇī tathā |
patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī

105.27

स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा ।
कर्मणः ख्यापनं कृत्वा हतस्तेन भवेच्छुचिः

svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā |
karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ

105.28

आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः ।
शयने सार्द्धमायस्यां योषिता निभृतं स्वपेत्

ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ |
śayane sārddhamāyasyāṃ yoṣitā nibhṛtaṃ svapet

105.29

उच्छेद्य लिङ्गं वृषणं नैर्ऋत्यामुत्सृजोद्दिशि ।
प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः

ucchedya liṅgaṃ vṛṣaṇaṃ nairṛtyāmutsṛjoddiśi |
prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ

105.30

चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम् ।
पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः

cāndrāyaṇaṃ vā trīnmāsanabhyasedvedasaṃhitām |
pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ

105.31

गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ।
उपपातकशुद्धिः स्याच्चान्द्रायणव्रतेन च

goṣṭheśayo go'nugāmī gopradānena śudhyati |
upapātakaśuddhiḥ syāccāndrāyaṇavratena ca

105.32

पयसा वापि मासेन पराकेणापि वा पुनः ।
ऋषभैकं सहस्त्रं गा दद्यात्क्षत्त्रवधे पुमान्

payasā vāpi māsena parākeṇāpi vā punaḥ |
ṛṣabhaikaṃ sahastraṃ gā dadyātkṣattravadhe pumān

105.33

ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ।
वैश्यहाऽब्दं च
रेदेतद्दद्याद्वैकशतं गवाम्

brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret |
vaiśyahā'bdaṃ ca
redetaddadyādvaikaśataṃ gavām

105.34

षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश ।
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत्

ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa |
apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret

105.35

मार्जारगोधानकुलपशुमण्डूकघातनात् ।
पिबेत्क्षीरं त्र्यहं पापी कृच्छ्रं वाप्यधिकं चरेत्

mārjāragodhānakulapaśumaṇḍūkaghātanāt |
pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret

105.36

गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम् ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः

gaje nīlānvṛṣānpañca śuke vatsaṃ dvihāyanam |
kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ

105.37

वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् ।
अवकीर्णो भवेद्गत्त्वा ब्रह्मचारी च योषितम्

vṛkṣagulmalatāvīrucchedane japyamṛkśatam |
avakīrṇo bhavedgattvā brahmacārī ca yoṣitam

105.38

गर्दभं पशुमालभ्य नैर्ऋतं च विशुध्यति ।
मधुमांसाशने कार्य्यं कृच्छ्रं शेषव्रतानि च

gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati |
madhumāṃsāśane kāryyaṃ kṛcchraṃ śeṣavratāni ca

105.39

कृच्छ्रत्रयं गुरुः कुर्य्यान्म्रियेत् प्रहितो यदि ।
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति

kṛcchratrayaṃ guruḥ kuryyānmriyet prahito yadi |
pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati

105.40

रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत् ।
क्रियमाणोपकारे च मृते विप्रे न पातकम्

ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet |
kriyamāṇopakāre ca mṛte vipre na pātakam

105.41

महापापोपपापाभ्यां योभिशस्तो मृषा परम् ।
अब्भक्षो मासमासीत स जापी नियतन्द्रियः

mahāpāpopapāpābhyāṃ yobhiśasto mṛṣā param |
abbhakṣo māsamāsīta sa jāpī niyatandriyaḥ

105.42

अनियुक्तो भ्रातृभार्य्यां गच्छंश्चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भवेत्

aniyukto bhrātṛbhāryyāṃ gacchaṃścāndrāyaṇaṃ caret |
trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet

105.43

गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती ।
गायत्त्रीजप्यनिरतो मुच्यतेऽसत्प्रतिग्रहात्

goṣṭhe vasanbrahmacārī māsamekaṃ payovratī |
gāyattrījapyanirato mucyate'satpratigrahāt

105.44

त्रिः कृच्छ्रमाचरेद्व्रात्ययाजकोऽपि चरन्नपि ।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतान्

triḥ kṛcchramācaredvrātyayājako'pi carannapi |
vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān

105.45

प्राणायामत्रयं कुर्य्यात्खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम्

prāṇāyāmatrayaṃ kuryyātkharayānoṣṭrayānagaḥ |
nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam

105.46

गुरुंत्वं कृत्य हुंकृत्य विप्रं निर्जित्य वाद तः ।
प्रसाद्य तं च मुनयस्ततो ह्युपवसेद्दिनम्

guruṃtvaṃ kṛtya huṃkṛtya vipraṃ nirjitya vāda taḥ |
prasādya taṃ ca munayastato hyupavaseddinam

105.47

विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने ।
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः

vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane |
deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ

105.48

प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः ।
गर्भत्यागो भर्त्तृनिन्दा स्त्रीणां पतनकारणम्

prāyaścitaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ |
garbhatyāgo bharttṛnindā strīṇāṃ patanakāraṇam

105.49

एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत् ।
विख्यातदोषः कुर्वीत गुरोरनुमतं व्रतम्

eṣa grahāntike doṣaḥ tasmāttāṃ dūtarastyajet |
vikhyātadoṣaḥ kurvīta guroranumataṃ vratam

105.50

असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् ।
त्रिरात्रोपोषणो जप्त्वा ब्रह्महा त्वघमर्षणम्

asaṃvikhyātadoṣastu rahasyaṃ vratamācaret |
trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam

105.51

अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम् ।
लोमभ्यः स्वाहेति ऋचा दिवसं मारुताशनः

antarjale viśuddhe ca dattvā gāṃ ca payasvinīm |
lomabhyaḥ svāheti ṛcā divasaṃ mārutāśanaḥ

105.52

जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः ।
त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः

jale japtvā tu juhuyāccātvāriṃśadghṛtāhutīḥ |
trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ

105.53

सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ।
सहस्त्रशीर्षाजप्येन मुच्यते गुरुतल्पगः

surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ |
sahastraśīrṣājapyena mucyate gurutalpagaḥ

105.54

प्राणायामशतं कुर्य्यात्सर्वपापापनुक्त्ये ।
ॐकाराभियुतं सोमसलिलप्रशनाच्छुचिः

prāṇāyāmaśataṃ kuryyātsarvapāpāpanuktye |
oṃkārābhiyutaṃ somasalilapraśanācchuciḥ

105.55

कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः ।
अज्ञानकृतपापस्य नाशः सन्ध्यात्रये कृते

kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśanedvijaḥ |
ajñānakṛtapāpasya nāśaḥ sandhyātraye kṛte

105.56

रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः ।
वेदाभ्यासरतं शान्तं पञ्चयज्ञक्रियापरम्

rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ |
vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam

105.57

न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः ।
जप्त्वा सहस्त्रगायत्त्रीं शुचिर्ब्रह्महणादृते

na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ |
japtvā sahastragāyattrīṃ śucirbrahmahaṇādṛte

105.58

ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता ।
अहिंसा स्तेयमाधुर्य्ये दमश्चैते यमाः स्मृताः

brahmacaryyaṃ dayā kṣāntirdhyānaṃ satyamakalkatā |
ahiṃsā steyamādhuryye damaścaite yamāḥ smṛtāḥ

105.59

स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः ।
तपोऽक्रोधो गुरोर्भक्तिः शौचं च नियमाः स्मृताः

snānamaunopavāsojyāsvādhyāyopasthanigrahaḥ |
tapo'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ

105.60

पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम् ।
जग्ध्वा परेह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत्

pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam |
jagdhvā parehnyupavasetkṛcchraṃ sāntapanaṃ caret

105.61

पृथक् सान्तपनैर्द्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः

pṛthak sāntapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ |
saptāhena tu kṛcchro'yaṃ mahāsāntapanaḥ smṛtaḥ

105.62

पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहाभ्यस्तैः पर्ण कृच्छ्र उदाहृतः

parṇodumbararājīvabīlvapatrakuśodakaiḥ |
pratyekaṃ pratyahābhyastaiḥ parṇa kṛcchra udāhṛtaḥ

105.63

तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः

taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet |
ekarātropavāsaśca taptakṛcchraśca pāvanaḥ

105.64

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन पादकृच्छ्र उदाहृतः

ekabhaktena naktena tathaivāyācitena ca |
upavāsena caikena pādakṛcchra udāhṛtaḥ

105.65

यथा कथञ्चित्त्रिगुणः प्रजापत्योऽयमुच्यते ।
अयमेवातिकृच्छ्रः स्यात्पाणिपूर्णाम्बुभोजनात्

yathā kathañcittriguṇaḥ prajāpatyo'yamucyate |
ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt

105.66

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासैश्च पराकः समुदाहृतः

kṛcchrātikṛcchraṃ payasā divasānekaviṃśatim |
dvādaśāhopavāsaiśca parākaḥ samudāhṛtaḥ

105.67

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
एकैकमुपवासश्च कृच्छ्रः सौम्योऽयमुच्यते

piṇyākācāmatakrāmbusaktūnāṃ prativāsaram |
ekaikamupavāsaśca kṛcchraḥ saumyo'yamucyate

105.68

एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात् ।
तुलापुरुष इत्येष ज्ञेयः पंचदशाहिकः

eṣāṃ trirātramabhyāsādekaikaṃ syādyathākramāt |
tulāpuruṣa ityeṣa jñeyaḥ paṃcadaśāhikaḥ

105.69

तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसम्मितान् ।
एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत्

tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasammitān |
ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret

105.70

यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम्

yathākathañcitpiṇḍānāṃ catvāriṃśacchatadvayam |
māsenaivopabhuñjīta cāndrāyaṇamathāparam

105.71

कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् ।
पवित्राणि जपेत्पिण्डान् गायत्त्र्या चाभिमन्त्रयेत्

kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret |
pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet

105.72

अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु ।
धर्मार्थो यश्चरेदेतच्चन्द्रस्यैति सलोकताम्

anādiṣṭeṣu pāpeṣu śuddhiścāndrāyaṇena tu |
dharmārtho yaścaredetaccandrasyaiti salokatām

105.73

कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते

kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)