पूर्व खण्ड — आचार काण्ड

अध्याय 106: मृत्यु का अशौच और आपद्धर्म

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्ताशौचापद्वृत्त्योर्निरूपणं नाम पडुत्तरशततमोऽध्यायः ॥

27 श्लोक · 106 में से 241

इस अध्याय में क्या होता है

मृत्यु का अशौच और आपद्धर्म

याज्ञवल्क्य मृत्यु के बाद अशौच के नियम बताते हैं। दो वर्ष से छोटे बालक को भूमि में गाड़ा जाता है, उसके लिए जलदान नहीं होता। अन्य मृतकों के पीछे ज्ञाति यमसूक्त का जप करते श्मशान तक जाते हैं और उन्हें लौकिक अग्नि से जलाया जाता है। सातवीं या दसवीं पीढ़ी तक के ज्ञाति जल में उतरकर जलाञ्जलि देते हैं। शोक करने वाले भूमि पर अलग सोते हैं, तीन दिन प्रेत को अन्न देते हैं। शव छूने वाले, और केवल देखने वाले भी, स्नान से शुद्ध होते हैं। राजा, सत्र और व्रत में लगे, दाता और ब्रह्मवेत्ता को, तथा दान, विवाह, यज्ञ, युद्ध और विपत्ति में अशौच नहीं लगता। फिर आपद्धर्म आता है: विपत्ति में ब्राह्मण वैश्यवृत्ति से जी सकता है, पर नमक जैसी वस्तुएँ न बेचे।

याज्ञवल्क्य उवाच

106.1

प्रेता
शौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः ।
ऊनद्विवर्षं निखनेन्न कुर्यादु दकं ततः

pretā
śaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ |
ūnadvivarṣaṃ nikhanenna kuryādu dakaṃ tataḥ

106.2

आ श्मशानादनुव्रज्य इतरैर्ज्ञातिभिर्युतः ।
यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना

ā śmaśānādanuvrajya itarairjñātibhiryutaḥ |
yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā

106.3

स दग्धव्य उपेतश्चैदाहिताग्न्यावृतार्थवत् ।
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयान्त्यपः

sa dagdhavya upetaścaidāhitāgnyāvṛtārthavat |
saptamāddaśamādvāpi jñātayo'bhyupayāntyapaḥ

106.4

अपनः शोशुचदघमनेन पितृदिङ्मुखाः ।
एवं मातामहाचार्यपत्नीनां चोदकक्रियाः

apanaḥ śośucadaghamanena pitṛdiṅmukhāḥ |
evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ

106.5

कामोदकाः पुत्रसखिस्वस्त्रीयश्वशुरर्त्विजः ।
नामगोत्रेण ह्युदकं सकृत्सिञ्चन्ति वाग्यताः

kāmodakāḥ putrasakhisvastrīyaśvaśurartvijaḥ |
nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ

106.6

पाषण्डपतितानां तु न कुर्युरुदकक्रियाः ।
नब्रह्मचारिणो व्रात्या योषितः कामगास्तथा

pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ |
nabrahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā

106.7

सुराप्यस्त्वात्मघातिन्यो नाशौचोदकभाजनाः ।
ततो न रोदितव्यं हि त्वनित्या जीवसं स्थितिः

surāpyastvātmaghātinyo nāśaucodakabhājanāḥ |
tato na roditavyaṃ hi tvanityā jīvasaṃ sthitiḥ

106.8

क्रिया कार्या यथाशक्ति ततो गच्छेद्गृहान्प्रति ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः

kriyā kāryā yathāśakti tato gacchedgṛhānprati |
vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ

106.9

आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः

ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān |
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ

106.10

प्रवेशनादिकं कर्म प्रेतसंस्पर्शनादपि ।
ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात्

praveśanādikaṃ karma pretasaṃsparśanādapi |
īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt

106.11

क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्पृथक् ।
पिण्डयज्ञकृता देयं प्रेतायान्नं दिनत्रयम्

krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak |
piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam

106.12

जलमेकाहमाकाशे स्थाप्यं क्षीरं तु मृन्मये ।
वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः

jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye |
vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ

106.13

आदन्तजन्मनः सद्यः आचूडं नैशिकी स्मृता ।
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम्

ādantajanmanaḥ sadyaḥ ācūḍaṃ naiśikī smṛtā |
trirātramā vratādeśāddaśarātramataḥ param

106.14

त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि

trirātraṃ daśarātraṃ vā śāvamāśaucamucyate |
ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi

106.15

अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति ।
दश द्वादश वर्णानां तथा पञ्चदशैव च

antarā janmamaraṇe śeṣāhobhirviśudhyati |
daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca

106.16

त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम् ।
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम्

triṃśaddināni ca tathā bhavati pretasūtakam |
ahastvadattakanyāsu bāleṣu ca viśodhanam

106.17

गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ।
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च

gurvantevāsyanūcānamātulaśrotriyeṣu ca |
anauraseṣu putreṣu bhāryāsvanyagatāsu ca

106.18

निवासराजनि तथा तदहः शुद्धिकार
म् ।
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्

nivāsarājani tathā tadahaḥ śuddhikāra
m |
hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām

106.19

विषाद्यैश्च हतानां च नाशौचं पृथिवीपतेः ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा

viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ |
satrivratibrahmacāridātṛbrahmavidāṃ tathā

106.20

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि च कष्टायां सद्यः शौचं विधीयते

dāne vivāhe yajñe ca saṃgrāme deśaviplave |
āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate

106.21

कालोऽग्निः कर्ममृद्वायुर्मनो ज्ञानं तपो जपः ।
पश्चात्ताषो निराहारः सर्वेषां शुद्धिहेतवः

kālo'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ |
paścāttāṣo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ

106.22

अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत् ।
क्षात्त्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः

akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt |
kṣāttreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ

106.23

फलसोमक्षौमवीरुद्दधि क्षीरं घृतं जलम् ।
तिलोदनरसक्षारमधु लाक्षा शृतं हविः

phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam |
tilodanarasakṣāramadhu lākṣā śṛtaṃ haviḥ

106.24

वस्त्रोपलासवं पुष्पं शाकमृच्चर्मपादुकम् ।
एणत्वचं च कौशेयं लवणं मासमेव च

vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam |
eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca

106.25

पिण्याकमूलगन्धांश्च वैश्यवृत्तो न विक्रयेत् ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः

piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet |
dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ

106.26

लवणादि न विक्रीयात्तथा चापद्गतो द्विजः ।
हीनाद्विप्रो विगृह्णंश्च लिप्यते नार्कवद्द्विजः

lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ |
hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ

106.27

कुर्यात्कृष्यादिकं तद्वदविक्रेया हयास्तथा ।
बुभुक्षितस्त्र्यं स्थित्वा दृष्ट्वा वृत्तिविवर्जितम् ।
राजा धर्म्यां प्रकुर्वीत वृत्तिं विप्रादिकस्य च

kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā |
bubhukṣitastryaṃ sthitvā dṛṣṭvā vṛttivivarjitam |
rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)