पूर्व खण्ड — आचार काण्ड

अध्याय 101: नवग्रहों के लिए ग्रहयज्ञ

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमोऽध्यायः ॥

12 श्लोक · 101 में से 241

इस अध्याय में क्या होता है

नवग्रहों के लिए ग्रहयज्ञ

जो श्री या शान्ति चाहता हो, या ग्रहों की दृष्टि अथवा अभिचार से पीड़ित हो, वह ग्रहयज्ञ करे। नौ ग्रह हैं: सूर्य, सोम, मङ्गल, बुध, बृहस्पति, शुक्र, शनैश्चर, राहु और केतु। उनकी प्रतिमाएँ ताँबे, स्फटिक, रक्तचन्दन, सोने, चाँदी, लोहे, सीसे और काँसे की बनें, और उनके वर्ण क्रम से लाल, श्वेत, लाल, पीला, पीला, श्वेत, काला और काला हैं। हर ग्रह को स्नान कराकर स्वर्ण, वस्त्र, पुष्प, गन्ध, गुग्गुल धूप और चरु से पूजा जाए। समिधाएँ क्रम से आक, पलाश, खैर, अपामार्ग, पीपल, गूलर, शमी, दूर्वा और कुशा हैं, जो मधु, घी और दही के साथ होमी जाती हैं। हर ग्रह का अलग भोजन है, गुड़ भात से खीर तक, और अलग दक्षिणा: धेनु, शङ्ख, बैल, स्वर्ण, वस्त्र, अश्व, काली गाय, लोहा और बकरा।

याज्ञवल्क्य उवाच

101.1

श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान् ।
ग्रहयंज्ञं समं कुर्य्याद्ग्रहाश्चैते बुधैः स्मृताः

śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān |
grahayaṃjñaṃ samaṃ kuryyādgrahāścaite budhaiḥ smṛtāḥ

101.2

सूर्य्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुर्ग्रहगणाः स्मृताः

sūryyaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ |
śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ

101.3

ताम्रकांस्यस्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
रजतादयसः सीसात्कांस्याद्वर्णान्निबोधत

tāmrakāṃsyasphāṭikādraktacandanātsvarṇakādubhau |
rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata

101.4

रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः ।
कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः

raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sitositaḥ |
kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ

101.5

स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे ।
स्नापयेद्धोमयेच्चैव ग्रहद्रव्यैर्विधानतः ।
सुवर्णानि प्रदेयानि वासांसि सुसुमानि च

sthāpayedgahavarṇāni homārthaṃ pralikhetpaṭe |
snāpayeddhomayeccaiva grahadravyairvidhānataḥ |
suvarṇāni pradeyāni vāsāṃsi susumāni ca

101.6

गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः ।
कर्त्तव्यास्तत्र मन्त्रैश्च चरवः प्रतिदैवतम्

gandhāśca balayaścaiva dhūpo deyaścagugguluḥ |
karttavyāstatra mantraiśca caravaḥ pratidaivatam

101.7

आकृष्णेन इमंदेवा अग्निर्मूर्द्धादिवः ककुत् ।
उब्दुध्यस्वेति जुहुयादेभिरेव यथाक्रमम्

ākṛṣṇena imaṃdevā agnirmūrddhādivaḥ kakut |
ubdudhyasveti juhuyādebhireva yathākramam

101.8

बृहस्पतेपरिदीयेति सर्वे अन्नात्परिसुतम् ।
शन्नोदेवी कयानश्च केतुंक्रण्वन्निति क्रमात्

bṛhaspateparidīyeti sarve annātparisutam |
śannodevī kayānaśca ketuṃkraṇvanniti kramāt

101.9

अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्

arkaḥ palāśaḥ khadirastvapāmārgo'tha pippalaḥ |
audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt

101.10

होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्वितः ।
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम्

hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ |
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam

101.11

दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ।
दद्याद्गहक्रमादेतान् ग्रहेभ्यो भोजनं ततः

dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca |
dadyādgahakramādetān grahebhyo bhojanaṃ tataḥ

101.12

धेनुः शङ्खस्तथानड्वान्हेम वासो हयस्तथा ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात् ।
ग्रहाः पूज्याः सदा यस्माद्रज्यादि प्राप्यते फलम्

dhenuḥ śaṅkhastathānaḍvānhema vāso hayastathā |
kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt |
grahāḥ pūjyāḥ sadā yasmādrajyādi prāpyate phalam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)