विनायकोपसृष्टस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति
vināyakopasṛṣṭasya lakṣaṇāni nibodhata |
svapne'vagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः ॥
17 श्लोक · 100 में से 241
याज्ञवल्क्य विनायक से पीड़ित व्यक्ति के लक्षण बताते हैं: स्वप्न में वह गहरे जल में डूबता है और मुण्डित सिर देखता है; वह उदास रहता है, बिना कारण उसके कार्य विफल होते हैं; राजा को राज्य, कन्या को पति और गर्भिणी को पुत्र नहीं मिलता। शुभ दिन उसे विधिपूर्वक स्नान कराया जाता है, सफेद सरसों के लेप और घी से उबटन होता है, और वह लाल बैल के चर्म पर भद्रासन पर बैठता है जबकि ब्राह्मण स्वस्तिवाचन करते हैं। चार कलशों के जल से सहस्राक्ष, शतधार पवित्र मन्त्र द्वारा अभिषेक होता है। फिर विनायक को चावल, तिल, मोदक, पुष्प और तीन प्रकार की सुरा आदि भेंट होती है। अन्त में वह अम्बिका से रूप, यश, भाग्य, पुत्र और श्री माँगता है और ब्राह्मणों को भोजन कराता है।
याज्ञवल्क्य उवाच
विनायकोपसृष्टस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति
vināyakopasṛṣṭasya lakṣaṇāni nibodhata |
svapne'vagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati
विमना विफलारम्भः संसदित्यनिमित्ततः ।
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी
vimanā viphalārambhaḥ saṃsadityanimittataḥ |
rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī
नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सारितस्य तु
nāpnuyātsnāpanaṃ tasya puṇye'hnividhipūrvakam |
gaurasarṣapakalkena sājyenotsāritasya tu
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान्
sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā |
bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत् ।
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात्
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥ kṣipet |
yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा ।
सहस्त्राक्षं शतधारमृषिभिः पावनं स्मृतम्
carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā |
sahastrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ smṛtam
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ।
भगं तु वरुणो राजा भगं सूर्य्यो बृहस्पतिः
tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te |
bhagaṃ tu varuṇo rājā bhagaṃ sūryyo bṛhaspatiḥ
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ |
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrddhani
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुंतु ते सदा ।
स्नातस्य सार्षपं तैलं स्नुवेणौदुम्बरेण तु
lalāṭe karṇayorakṣṇorāpastadghnuṃtu te sadā |
snātasya sārṣapaṃ tailaṃ snuveṇaudumbareṇa tu
जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ।
मितश्चसमितश्चैव तथा शालकटङ्कटौ
juhuyānmūrddhani kuśānsavyena parigṛhya ca |
mitaścasamitaścaiva tathā śālakaṭaṅkaṭau
कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः ।
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य्य सर्वशः
kuṣmāṇḍo rājaputraśca ante svāhāsamanvitaiḥ |
dadyāccatuṣpathe bhūmau kuśānāstīryya sarvaśaḥ
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि
kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca |
puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi
मूलकं पूरिकापूपं तथैवौण्डेरकस्रजः ।
दधि पायसमन्नं च गुडपिष्टं समोदकम्
mūlakaṃ pūrikāpūpaṃ tathaivauṇḍerakasrajaḥ |
dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ।
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः
etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ |
ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ
दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः ।
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम्
dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ |
kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm
रूपं देहि यशोदेहि भाग्यं भगवति देहि मे ।
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे
rūpaṃ dehi yaśodehi bhāgyaṃ bhagavati dehi me |
putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me
ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः ।
वस्त्रयुग्मंगुरोर्दद्यासंपूज्य च ग्रहांस्तथा ।
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा
brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ |
vastrayugmaṃgurordadyāsaṃpūjya ca grahāṃstathā |
śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)