एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam |
snātuṃ nandastu kālindyāṃ dvādaśyāṃ jalamāviśat
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः ॥
17 श्लोक · 28 में से 90
एकादशी का उपवास कर और जनार्दन की पूजा कर नन्द द्वादशी के स्नान को यमुना में उतरते हैं, यह ध्यान दिए बिना कि अभी रात्रि की आसुरी बेला है। वरुण का एक सेवक उन्हें पकड़कर वरुणलोक ले जाता है। गोप कृष्ण और राम को पुकारते हैं। कृष्ण वरुण के पास जाते हैं; वरुण उनकी पूजा कर सेवक की अज्ञानता के लिए क्षमा माँगता है, और कृष्ण पिता को लेकर लौटते हैं। नन्द गोपों को बताते हैं कि लोकपाल ने उनके पुत्र का कैसा सम्मान किया। विस्मित गोप आशा करते हैं कि वे हमें अपना सूक्ष्म धाम दिखाएँगे। करुणा से कृष्ण उन्हें ब्रह्मह्रद में डुबकी लगवाते हैं, जहाँ आगे अक्रूर को दर्शन होने थे, और बाहर निकालकर अन्धकार से परे सनातन ब्रह्मलोक दिखाते हैं, जहाँ वेद उनकी स्तुति करते हैं।
श्रीशुक उवाच
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam |
snātuṃ nandastu kālindyāṃ dvādaśyāṃ jalamāviśat
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।
अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि
taṃ gṛhītvānayad bhṛtyo varuṇasyāsuro'ntikam |
avajñāyāsurīṃ velāṃ praviṣṭamudakaṃ niśi
चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः ।
भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ।
तदन्तिकं गतो राजन् स्वानामभयदो विभुः
cukruśustamapaśyantaḥ kṛṣṇa rāmeti gopakāḥ |
bhagavāṃstadupaśrutya pitaraṃ varuṇāhṛtam |
tadantikaṃ gato rājan svānāmabhayado vibhuḥ
प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया ।
महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः
prāptaṃ vīkṣya hṛṣīkeśaṃ lokapālaḥ saparyayā |
mahatyā pūjayitvā''ha taddarśanamahotsavaḥ
श्रीवरुण उवाच
अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो ।
त्वत्पादभाजो भगवन् अवापुः पारमध्वनः
adya me nibhṛto deho adyaivārtho'dhigataḥ prabho |
tvatpādabhājo bhagavan avāpuḥ pāramadhvanaḥ
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोकसृष्टिविकल्पना
namastubhyaṃ bhagavate brahmaṇe paramātmane |
na yatra śrūyate māyā lokasṛṣṭivikalpanā
अजानता मामकेन मूढेनाकार्यवेदिना ।
आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति
ajānatā māmakena mūḍhenākāryavedinā |
ānīto'yaṃ tava pitā tad bhavān kṣantumarhati
ममाप्यनुग्रहं कृष्ण कर्तुं अर्हस्यशेषदृक् ।
गोविन्द नीयतामेष पिता ते पितृवत्सल
mamāpyanugrahaṃ kṛṣṇa kartuṃ arhasyaśeṣadṛk |
govinda nīyatāmeṣa pitā te pitṛvatsala
श्रीशुक उवाच
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः ।
आदायागात् स्वपितरं बन्धूनां चावहन् मुदम्
evaṃ prasāditaḥ kṛṣṇo bhagavān īśvareśvaraḥ |
ādāyāgāt svapitaraṃ bandhūnāṃ cāvahan mudam
नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत्
nandastvatīndriyaṃ dṛṣṭvā lokapālamahodayam |
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito'bravīt
ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् ।
अपि नः स्वगतिं सूक्ष्मां उपाधास्यदधीश्वरः
te cautsukyadhiyo rājan matvā gopāstamīśvaram |
api naḥ svagatiṃ sūkṣmāṃ upādhāsyadadhīśvaraḥ
इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् ।
सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत्
iti svānāṃ sa bhagavān vijñāyākhiladṛk svayam |
saṅkalpasiddhaye teṣāṃ kṛpayaitadacintayat
जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्
jano vai loka etasmin avidyākāmakarmabhiḥ |
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman
इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम्
iti sañcintya bhagavān mahākāruṇiko hariḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param
सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः
satyaṃ jñānamanantaṃ yad brahma jyotiḥ sanātanam |
yaddhi paśyanti munayo guṇāpāye samāhitāḥ
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा
te tu brahmahradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśurbrahmaṇo lokaṃ yatrākrūro'dhyagāt purā
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः ।
कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः
nandādayastu taṃ dṛṣṭvā paramānandanivṛtāḥ |
kṛṣṇaṃ ca tatracchandobhiḥ stūyamānaṃ suvismitāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)