स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च ।
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान्
snātvā pretaśilādau tu varuṇāsthāmṛtena ca |
piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः ॥
23 verses · 85 of 241
After bathing at Pretashila, the pilgrim invokes the ancestors on darbha with sesame water and offers pinda with set formulas, given here in full. Each verse names a class of the dead and ends with the refrain that this pinda is given for their uplift: those of the father's line and the mother's, of the maternal grandfather's family, those who died with no rites and no path, those burnt or not burnt, killed by fire, lions, tigers, tusked or horned beasts, lightning or thieves, kin and non-kin, kin of other births, and ancestors still in preta form. The pilgrim then calls Brahma, Ishana and the devas to witness that he has come to Gaya, done the pitri-karya before Gadadhara and is free of the three debts.
ब्रह्मोवाच
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च ।
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान्
snātvā pretaśilādau tu varuṇāsthāmṛtena ca |
piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः
asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate |
āvāhayiṣyetānsarvān darbhapṛṣṭhe tilodakaiḥ
पितृवंशे मृता ये च मातृवंशे च ये मृताः ।
तेषामुद्धरणार्थाये इमं पिण्डं ददाम्यहम्
pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ |
teṣāmuddharaṇārthāye imaṃ piṇḍaṃ dadāmyaham
मातामहकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
mātāmahakule ye ca gatiryeṣāṃ na vidyate |
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
ajātadantā ye kecidye ca garbhe prapīḍitāḥ |
teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः ।
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
bandhuvargāśca ye kecinnāmagotravivarjitāḥ |
svagotre paragotre vā gatiryeṣāṃ na vidyate |
teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
उद्बन्धनमृता ये च विषशस्रहताश्च ये ।
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम्
udbandhanamṛtā ye ca viṣaśasrahatāśca ye |
ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये ।
दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम्
agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye |
daṃṣṭribhiḥ śrṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ।
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम्
agnidagdhāśca ye kecinnāgnidagdhāstathāpare |
vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham
रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
raurave cāndhatāmistre kālasūtre ca ye gatāḥ |
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
असिपत्रवने घोरे कुम्भीपाके च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
asipatravane ghore kumbhīpāke ca ye gatāḥ |
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
anyeṣāṃ yātanā sthānāṃ pretalokanivāsinām |
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः ।
अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम्
puśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ |
athavā vṛkṣayoni sthāstebhyaḥ piṇḍaṃ dadāmyaham
असंख्ययातनासंस्था ये नीता यमशासनैः ।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम्
asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ |
teṣāmuddharaṇārthāya imaṃ piṃḍaṃ dadāmyaham
जात्यन्तरसहस्त्रेषु भ्रमन्ति स्वेन कर्मणा ।
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम्
jātyantarasahastreṣu bhramanti svena karmaṇā |
mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham
ये बान्धवाऽबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा
ye bāndhavā'bāndhavā vā ye'nyajanmani bāndhavāḥ |
te sarvetṛptimāyāntu piṇḍadānena sarvadā
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा
ye kecitpretarūpeṇa varttante pitaro mama |
te sarve tṛptimāyāntu piṇḍadānena sarvadā
ये मे पितृकुले जाताः कुले मातुस्तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः
ye me pitṛkule jātāḥ kule mātustathaiva ca |
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ।
क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा
ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ |
kriyālo pahatā ye ca jātyandhāḥ paṅgavastathā
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्
virūpā āmagarbhāśca jñātājñātāḥ kule mama |
teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ।
मया गयां समासाद्य पितॄणां निष्कृतिः कृता
sākṣiṇaḥ santu me devā brahmeśānādayastathā |
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā
आगतोऽहं गयां देव पितृकार्य्ये गदाधर ।
तन्मे साक्षी भवत्वद्य अनृणोऽहमृणत्रयात्
āgato'haṃ gayāṃ deva pitṛkāryye gadādhara |
tanme sākṣī bhavatvadya anṛṇo'hamṛṇatrayāt
महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो गयाशिरः ।
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम्
mahānadī brahmasaro'kṣayo vaṭaḥ prabhāsamudyantamaho gayāśiraḥ |
sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām
Text source: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)