सामवेदतरोः शाशा व्यासशिष्यः स जैमिनिः ।
क्रमेण येन मैत्रेय बिभेद श्वृणु तन्मम
sāmavedataroḥ śāśā vyāsaśiṣyaḥ sa jaiminiḥ |
krameṇa yena maitreya bibheda śvṛṇu tanmama
33 श्लोक · 6 में से 18
जैमिनि ने सामवेद अपने पुत्र सुमन्तु को पढ़ाया और सुमन्तु ने अपने पुत्र सुकर्मा को, जिन्होंने उसकी एक सहस्र संहिताएँ कीं। सुमन्तु ने अथर्ववेद कबन्ध को पढ़ाया, और देवदर्श और पथ्य से पिप्पलाद, शौनक आदि हुए, साथ में अथर्व के पाँच कल्प। फिर पुराणों के ज्ञाता व्यास ने आख्यानों, उपाख्यानों और गाथाओं से पुराण संहिता रची और सूत रोमहर्षण को दी। पराशर अठारह महापुराण गिनाते हैं: ब्राह्म, पाद्म, वैष्णव, शैव, भागवत, नारदीय, मार्कण्डेय, आग्नेय, भविष्य, ब्रह्मवैवर्त, लैङ्ग, वाराह, स्कान्द, वामन, कौर्म, मात्स्य, गारुड और ब्रह्माण्ड। सबमें सर्ग, प्रतिसर्ग, वंश, मन्वन्तर और वंशानुचरित कहे जाते हैं। यह वैष्णव पुराण पाद्म के बाद आता है और हर प्रसंग में भगवान विष्णु का वर्णन करता है।
सामवेदतरोः शाशा व्यासशिष्यः स जैमिनिः ।
क्रमेण येन मैत्रेय बिभेद श्वृणु तन्मम
sāmavedataroḥ śāśā vyāsaśiṣyaḥ sa jaiminiḥ |
krameṇa yena maitreya bibheda śvṛṇu tanmama
सुमन्तुस्तस्य पुत्रोऽभूत् सुकर्मास्याप्यभूत् सुतः ।
अधीतवन्तावेकैकां संहितां तौ महामुनी
sumantustasya putro'bhūt sukarmāsyāpyabhūt sutaḥ |
adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī
साहस्त्रं संहिताभेदं सुकर्मा तत्सुतस्ततः ।
चकार तञ्च तिच्छिष्यौ जगृहाते महामती
sāhastraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ |
cakāra tañca ticchiṣyau jagṛhāte mahāmatī
हिरण्यनाभः कौशल्यः पौष्पिञ्जिश्व द्रिजोत्तम ।
उदीच्यसामगाः शिष्यास्तेब्यः पञ्चदशा स्मृताः
hiraṇyanābhaḥ kauśalyaḥ pauṣpiñjiśva drijottama |
udīcyasāmagāḥ śiṣyāstebyaḥ pañcadaśā smṛtāḥ
हिरणयनाभात् तावत्यः संहिता यैर्द्रिजोत्तमैः ।
गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः
hiraṇayanābhāt tāvatyaḥ saṃhitā yairdrijottamaiḥ |
gṛhītāste'pi cocyante paṇḍitaiḥ prācyasāmagāḥ
लोकाक्षिः कुथमिश्चैव कुसीदिर्लाङ्गलिस्तथा ।
पौष्पिञ्जिशिष्यास्तद्भदैः संहिता बहूलीकृताः
lokākṣiḥ kuthamiścaiva kusīdirlāṅgalistathā |
pauṣpiñjiśiṣyāstadbhadaiḥ saṃhitā bahūlīkṛtāḥ
हिरण्यनाभशिष्यश्च चतुर्विशंतिसंहिताः ।
प्रोवाच कृतिनामासौ शिष्येभ्यः स महामतिः
hiraṇyanābhaśiṣyaśca caturviśaṃtisaṃhitāḥ |
provāca kṛtināmāsau śiṣyebhyaḥ sa mahāmatiḥ
तैश्वापि सामवेदोऽसौ शाखाभिकर्बहुलीकृतः ।
अथर्वणामथो वक्ष्ये संहितानां समुज्वयम्
taiśvāpi sāmavedo'sau śākhābhikarbahulīkṛtaḥ |
atharvaṇāmatho vakṣye saṃhitānāṃ samujvayam
शिष्यमध्यापयामास कबन्धं सोऽपि तं द्रिधा ।
कृता तु देवदर्शाय तथा पथ्याय दत्तवान्
śiṣyamadhyāpayāmāsa kabandhaṃ so'pi taṃ dridhā |
kṛtā tu devadarśāya tathā pathyāya dattavān
अथर्ववेदं स मुनिः सुमन्तुरमितद्युतिः ।
देवदर्शस्य शिष्यास्तु मौदगो ब्रह्मबलिस्तथा ।
शौक्यायनिः पिप्पलादस्तथान्यो मुनिसत्तमः
atharvavedaṃ sa muniḥ sumanturamitadyutiḥ |
devadarśasya śiṣyāstu maudago brahmabalistathā |
śaukyāyaniḥ pippalādastathānyo munisattamaḥ
पथ्यस्यापि त्रयः शिष्याः कूता यैर्द्रिज संहिताः ।
तजाजालिः कुमुदादिश्व तृतीयः शौनको द्रिज
pathyasyāpi trayaḥ śiṣyāḥ kūtā yairdrija saṃhitāḥ |
tajājāliḥ kumudādiśva tṛtīyaḥ śaunako drija
शौनकस्तु द्रिधा कृत्वा ददावेकन्तु बभ्रवे ।
द्रितीयां संहिता प्रादात् सौन्धवायनसंज्ञिने
śaunakastu dridhā kṛtvā dadāvekantu babhrave |
dritīyāṃ saṃhitā prādāt saundhavāyanasaṃjñine
सैन्धवा मूञ्जिकेशाश्व द्रिधा भिन्नास्त्रिधा पुनः ।
नक्षत्रकल्पो वेदानां संहितानां तथैव च
saindhavā mūñjikeśāśva dridhā bhinnāstridhā punaḥ |
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्व पञ्चमः
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः
caturthaḥ syādāṅgirasaḥ śāntikalpaśva pañcamaḥ
śreṣṭhāstvatharvaṇāmete saṃhitānāṃ vikalpakāḥ
आख्यानेश्चाप्युपाख्यानैर्गाथाभिः कल्पसिद्धिभिः ।
पुराणसंहितां चक्र पुराणार्थविशारदः
ākhyāneścāpyupākhyānairgāthābhiḥ kalpasiddhibhiḥ |
purāṇasaṃhitāṃ cakra purāṇārthaviśāradaḥ
प्रख्यातो व्यासशिष्योऽभूत् सूतो वै रोमहर्षणः ।
पुराणसंहितां तस्मै ददौ व्यासो महामुनिः
prakhyāto vyāsaśiṣyo'bhūt sūto vai romaharṣaṇaḥ |
purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ
सुमतिश्चाग्रिवर्जाश्च मित्रायुः शांशपायनः ।
अकृतव्रणः सावर्णिः षट् शिष्यास्तस्य चाभवन्
sumatiścāgrivarjāśca mitrāyuḥ śāṃśapāyanaḥ |
akṛtavraṇaḥ sāvarṇiḥ ṣaṭ śiṣyāstasya cābhavan
काश्यपः संहिताकर्ता सावर्णिः शाशपायनः ।
रोमहर्षणिका चान्या तिसृणां मूलसंहिताः
kāśyapaḥ saṃhitākartā sāvarṇiḥ śāśapāyanaḥ |
romaharṣaṇikā cānyā tisṛṇāṃ mūlasaṃhitāḥ
चतुष्टयेनाप्येतेन संहितानामिदं मुने ।
आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते
catuṣṭayenāpyetena saṃhitānāmidaṃ mune |
ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate
अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ।
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा
aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate |
brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā
अथान्यन्नारदीयञ्च मार्कण्डेयञ्च सप्तमम् ।
आग्नेयमष्टमञ्चैव भविष्यं नवमं तथा
athānyannāradīyañca mārkaṇḍeyañca saptamam |
āgneyamaṣṭamañcaiva bhaviṣyaṃ navamaṃ tathā
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशञ्चैव स्कान्दञ्चात्र त्रयोदशम्
daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam |
vārāhaṃ dvādaśañcaiva skāndañcātra trayodaśam
चतुर्दशं वामनञ्च कौर्मं पञ्चदशं स्मृतम् ।
मात्स्यञ्च गारुड़ञ्चैव ब्रह्माण्डञ्च ततः परम
caturdaśaṃ vāmanañca kaurmaṃ pañcadaśaṃ smṛtam |
mātsyañca gārur̤añcaiva brahmāṇḍañca tataḥ parama
तथा चोपपुराणानि मुनिभिः कथितानि च ।
महापुराणान्येतानि ह्मष्टादश महामुने
tathā copapurāṇāni munibhiḥ kathitāni ca |
mahāpurāṇānyetāni hmaṣṭādaśa mahāmune
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
सर्वेष्वेतेषु कथ्यन्ते वंशामनुचरितञ्च यत्
sargaśca pratisargaśca vaṃśo manvantarāṇi ca |
sarveṣveteṣu kathyante vaṃśāmanucaritañca yat
यदेतत् तव मैत्रेय पुराणां कथ्यते मया ।
एतदू वैष्णवसंज्ञ वै पाह्मस्य समनन्तरम्
yadetat tava maitreya purāṇāṃ kathyate mayā |
etadū vaiṣṇavasaṃjña vai pāhmasya samanantaram
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।
कथ्यते भगवान् विष्णुरशेषेष्वेव सत्तम
sarge ca pratisarge ca vaṃśamanvantarādiṣu |
kathyate bhagavān viṣṇuraśeṣeṣveva sattama
अह्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ।
पुराणां धर्मशास्त्रञ्च विद्या ह्म ताश्चतुर्दश
ahgāni caturo vedā mīmāṃsā nyāyavistaraḥ |
purāṇāṃ dharmaśāstrañca vidyā hma tāścaturdaśa
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्र चतुर्थन्तु विद्या ह्मष्टादशैव ताः
āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ |
arthaśāstra caturthantu vidyā hmaṣṭādaśaiva tāḥ
ज्ञेया ब्रह्मर्षयः पूर्व तेभ्यो देवर्षयः पुनः ।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः
jñeyā brahmarṣayaḥ pūrva tebhyo devarṣayaḥ punaḥ |
rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ
इति शाखाः प्रसंख्याताः शाखाभदास्तथैव च ।
कर्तारश्चैव शाखानां बेदहेतुस्तथोदितः
iti śākhāḥ prasaṃkhyātāḥ śākhābhadāstathaiva ca |
kartāraścaiva śākhānāṃ bedahetustathoditaḥ
सर्वमन्वन्तरेष्वेव शाखाभेदाः समाः समृताः ।
प्राजापत्या श्रुतिनित्या तद्रिकल्पास्त्विमे द्रिज
sarvamanvantareṣveva śākhābhedāḥ samāḥ samṛtāḥ |
prājāpatyā śrutinityā tadrikalpāstvime drija
एतत् तवोदितं सर्वं यत् पृष्टोऽहमिह त्वया ।
मैत्रेय वेदसम्बद्ध किमन्यत् तथामि ते
etat tavoditaṃ sarvaṃ yat pṛṣṭo'hamiha tvayā |
maitreya vedasambaddha kimanyat tathāmi te
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)