विद्येश्वर संहिता

अध्याय 7: अग्निस्तम्भ और केतकी का पुष्प

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः ॥

33 श्लोक · 7 में से 25

इस अध्याय में क्या होता है

अग्निस्तम्भ और केतकी का पुष्प

महादेव प्रणव-आकार रथ पर अम्बा और गणों के साथ रणभूमि में जाते हैं और बादलों में छिपे रहते हैं। जब दोनों अस्त्र तीनों लोकों को जलाने लगते हैं, तब निष्कल शिव दोनों के बीच भयंकर अग्निस्तम्भ रूप में प्रकट होते हैं और दोनों अस्त्र शान्त हो जाते हैं। विष्णु वराह बनकर पाताल से भी नीचे खोदते हैं पर मूल नहीं पाते। ब्रह्मा हंस बनकर ऊपर उड़ते हैं और युगों से स्तम्भ से गिरते केतकी पुष्प से मिलते हैं। वे उसे झूठी गवाही के लिए मना लेते हैं और विष्णु के सामने कहते हैं कि उन्होंने शिखर देख लिया। तब ईश्वर अग्निलिंग से साकार प्रकट होते हैं। विष्णु चरण पकड़ लेते हैं, और सत्यवादिता से प्रसन्न शिव उन्हें अपनी समता तथा अलग मन्दिर और उत्सव का वर देते हैं।

ईश्वर उवाच

7.1

वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ।
जगच्च देवतावंशः स्वस्वकर्मणि किं नवा

vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt |
jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā

7.2

प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ।
भवतामभितापेन पौनरुक्त्येन भाषितम्

prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ |
bhavatāmabhitāpena paunaruktyena bhāṣitam

7.3

इति सस्मितया माध्व्या कुमारपरिभाषया ।
समतोषयदंबायाः स पतिस्तत्सुरव्रजम्

iti sasmitayā mādhvyā kumāraparibhāṣayā |
samatoṣayadaṃbāyāḥ sa patistatsuravrajam

7.4

अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ।
आज्ञापयद्गणेशानां शतं तत्रैव संसदि

atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ |
ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi

7.5

ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ।
गणेश्वराश्च संनद्धा नानावाहनभूषणाः

tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ |
gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ

7.6

प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम् ।
आरुरोह रथं भद्रमंबिकापतिरीश्वरः ।
ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः

praṇavākāramādyaṃtaṃ pañcamaṃḍalamaṃḍitam |
āruroha rathaṃ bhadramaṃbikāpatirīśvaraḥ |
sasūnugaṇamiṃdrādyāḥ sarvepyanuyayuḥ surāḥ

7.7

चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरैपि वाद्यवर्गैः

citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairaipi vādyavargaiḥ

7.8

संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः
समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः ।
समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः

saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ
samīkṣyaṃ tu tayoryuddhaṃ nigūḍho 'bhraṃ samāsthitaḥ |
samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ

7.9

अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ।
माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च

atha brahmācyutau vīrau haṃtukāmau parasparam |
māheśvareṇa cā'streṇa tathā pāśupatena ca

7.10

अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ।
ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम्

astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam |
īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam

7.11

महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः

mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ

7.12

ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ।
निपतेतुः क्षणे नैव ह्याविर्भूते महानले

te astre cāpi sajvāle lokasaṃharaṇakṣame |
nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale

7.13

दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ।
किमेतदद्भुताकारमित्यूचुश्च परस्परम्

dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham |
kimetadadbhutākāramityūcuśca parasparam

7.14

अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् ।
अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि

atīṃdriyamidaṃ staṃbhamagnirūpaṃ kimutthitam |
asyordhvamapi cādhaścāvayorlakṣyameva hi

7.15

इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ।
तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम्

iti vyavasitau vīrau militau vīramāninau |
tatparau tatparīkṣārthaṃ pratasthāte 'tha satvaram

7.16

आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ।
इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान्

āvayormiśrayostatra kāryamekaṃ na saṃbhavet |
ityuktvā sūkaratanurviṣṇustasyādimīyivān

7.17

तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ।
भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः

tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau |
bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ

7.18

ना ऽपि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः ।
श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम्

nā 'pi śyāttasya saṃsthānaṃ staṃbhasyānalavarcasaḥ |
śrāṃtaḥ sa sūkaraharīḥ prāpa pūrvaṃ raṇāṃgaṇam

7.19

अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ।
ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम्

atha gacchaṃstu vyomnā ca vidhistāta pitā tava |
dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam

7.20

अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ।
अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः

atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā |
anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ

7.21

परिहासं तु कृतवान्कंपनाच्चलितं शिरः ।
तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम्

parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ |
tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam

7.22

किं त्वं पतसि पुष्पेश पुष्पराट्केन वा धृतम् ।
आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम्

kiṃ tvaṃ patasi puṣpeśa puṣparāṭkena vā dhṛtam |
ādimasyāprameyasya staṃbhamadhyāccyutaściram

7.23

न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ।
अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः

na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane |
asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ

7.24

इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ।
मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ

itaḥ paraṃ sakhe me 'dya tvayā kartavyamīpsitam |
mayā saha tvayā vācyametadviṣṇośca sannidhau

7.25

स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ।
इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ।
असत्यमपि शस्तं स्यादापदीत्यनुशासनम्

staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta |
ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ |
asatyamapi śastaṃ syādāpadītyanuśāsanam

7.26

समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ।
उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम्

samīkṣya tatrā'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt |
uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato 'cyutam

7.27

स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ।
ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके

staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam |
tato 'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike

7.28

हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ।
षोडशैरुपचारैश्च पूजयामास तं विधिम्

hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam |
ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim

7.29

विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ।
समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम्

vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ |
samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam

7.30

आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ।
स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या

ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ |
sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā

7.31

वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ।
ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः

vatsaprasanno 'smi hare yatastvamīśatvamicchannapi satyavākyam |
brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ

7.32

इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च

itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca

7.33

इति देवः पुरा प्रीतः सत्येन हरये परम् ।
ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति

iti devaḥ purā prītaḥ satyena haraye param |
dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)