श्रवणादित्रिकेऽशक्तो लिंगं बेरं च शांकरम् ।
संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम्
śravaṇāditrike'śakto liṃgaṃ beraṃ ca śāṃkaram |
saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचमोऽध्यायः ॥
31 श्लोक · 5 में से 25
सूत उत्तर देते हैं: जो श्रवण, कीर्तन और मनन न कर सके, वह शिवलिंग या शंकर की प्रतिमा स्थापित करके नित्य पूजा करे, और यथाशक्ति दीप, धूप, नैवेद्य, छत्र और उत्सव अर्पित करे, जैसे राजा की सेवा होती है। ऋषि पूछते हैं कि अन्य देवता केवल प्रतिमा में क्यों पूजे जाते हैं। सूत मन्दर पर्वत पर सनत्कुमार को दिया नन्दिकेश्वर का उत्तर सुनाते हैं। केवल शिव ही ब्रह्म हैं, निष्कल भी और सकल भी, इसलिए निराकार लिंग और साकार प्रतिमा दोनों उन्हीं के हैं; अन्य देवता देहधारी हैं, अतः केवल प्रतिमा में पूजे जाते हैं। प्राचीन काल में जब ब्रह्मा और विष्णु अहंकार से लड़े, तब परमेश्वर उनके बीच निराकार स्तम्भ रूप में प्रकट हुए और अपना लिंग दिखाया; तभी से लिंग उनका चिह्न है।
सूत उवाच
श्रवणादित्रिकेऽशक्तो लिंगं बेरं च शांकरम् ।
संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम्
śravaṇāditrike'śakto liṃgaṃ beraṃ ca śāṃkaram |
saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram
अपि द्र व्यं वहेदेव यथाबलमवंचयन् ।
अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम्
api dra vyaṃ vahedeva yathābalamavaṃcayan |
arpayelliṃgaberārthamarcayedapi saṃtatam
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ।
वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः
maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam |
vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ
विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् ।
छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम्
vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam |
chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam
राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः ।
प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा
rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ |
pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā
आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः ।
इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे
āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ |
itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ।
लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः
siddhimeti śivaprītyā hitvāpi śravaṇādikam |
liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ
मनुय ऊचुः
बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः ।
लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः
beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ |
liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ
सूत उवाच
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ।
अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित्
aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam |
atra vaktā mahādevo nānyo'sti puruṣaḥ kvacit
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ।
शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः
śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam |
śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ।
निष्कलत्वान्निराकारं लिंगं तस्य समागतम्
rūpitvātsakalastadvattasmātsakalaniṣkalaḥ |
niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam
सकलत्वात्तथा बेरं साकारं तस्य संगतम् ।
सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः
sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam |
sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ
अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः ।
अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित्
api liṃge ca bere ca nityamabhyarcyate janaiḥ |
abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः ।
अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः
tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ |
abrahmatvācca jīvatvāttathānye devatāgaṇāḥ
तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके ।
जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च
tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake |
jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca
वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् ।
एवमेव पुरा पृष्टो मंदरे नंदिकेश्वरः
vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt |
evameva purā pṛṣṭo maṃdare naṃdikeśvaraḥ
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ।
(सनत्कुमार उवाच)
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः
sanatkumāramuninā brahmaputreṇa dhīmatā |
(sanatkumāra uvāca)
śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ।
शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते
beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ |
śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate
अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ।
(नंदिकेश्वर उवाच)
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम्
atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam |
(naṃdikeśvara uvāca)
anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ ।
शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम्
kathayāmi śivenoktaṃ bhaktiyuktasya te'nagha |
śivasya brahmarūpatvānniṣkalatvācca niṣkalam
लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् ।
तस्यैव सकलत्वाच्च तथा सकलनिष्कलम्
liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam |
tasyaiva sakalatvācca tathā sakalaniṣkalam
सकलं च तथा बेरं पूजायां लोकसंमतम् ।
शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः
sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam |
śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ
बेरमात्रं च पूजायां संमतं वेदनिर्णये ।
स्वाविर्भावे च देवानां सकलं रूपमेव हि
beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye |
svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi
शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु ।
(सनत्कुमार उवाच)
उक्तं त्वया महाभाग लिंगबेरप्रचारणम्
śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu |
(sanatkumāra uvāca)
uktaṃ tvayā mahābhāga liṃgaberapracāraṇam
शिवस्य च तदन्येषां विभज्य परमार्थतः ।
तस्मात्तदेव परमं लिंगबेरादिसंभवम्
śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ |
tasmāttadeva paramaṃ liṃgaberādisaṃbhavam
श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् ।
(नंदिकेश्वर उवाच)
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः
śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam |
(naṃdikeśvara uvāca)
śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ।
आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम्
purā kalpe mahākāle prapanne lokaviśrute |
āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ।
निष्कलस्तंभरूपेण स्वरूपं समदर्शयत्
tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ |
niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat
ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः ।
स्वलिंगं दर्शयामास जगतां हितकाम्यया
tataḥ svaliṃgacihnatvātstaṃbhato niṣkalaṃ śivaḥ |
svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् ।
सकलं च तथा बेरं शिवस्यैव प्रकल्पितम्
tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram |
sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ।
तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ।
शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम्
śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam |
tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham |
śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)