अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने
agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ |
brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशोऽध्यायः ॥
36 श्लोक · 22 में से 25
ऋषि पूछते हैं कि शिव का नैवेद्य ग्राह्य है या नहीं। सूत कहते हैं कि शुद्ध भक्त इसे प्रसन्नता से खाए; इसके दर्शन मात्र से पाप दूर भागते हैं। शिवदीक्षा पाया भक्त हर लिंग का नैवेद्य ग्रहण कर सकता है। अन्य भक्तों के लिए शालग्राम, पारद, पाषाण, स्वर्ण, स्फटिक या ज्योतिर्लिंगों का नैवेद्य चान्द्रायण व्रत के समान पवित्र करता है। केवल जहाँ नैवेद्य पर चण्ड का अधिकार हो, वहीं उसे छोड़ें; बाणलिंग, स्वयम्भू लिंग और प्रतिमाओं पर चण्ड का अधिकार नहीं। जो वस्तु सीधे लिंग के ऊपर हो, वह ग्राह्य नहीं। फिर सूत बिल्व वृक्ष की महिमा गाते हैं, जो महादेव का ही रूप है: उसके मूल में सब तीर्थ रहते हैं, और वहाँ शिवपूजा से शिवलोक मिलता है।
ऋषयः ऊचुः
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने
agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ |
brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune
सूत उवाच
शृणुध्वं मुनयः सर्वे सावधानतयाधुना ।
सर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः
śṛṇudhvaṃ munayaḥ sarve sāvadhānatayādhunā |
sarvaṃ vadāmi saṃprītyā dhanyā yūyaṃ śivavratāḥ
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ।
भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम्
śivabhaktaḥ śuciḥ śuddhaḥ sadvratīdṛḍhaniścayaḥ |
bhakṣayecchivanaivedyaṃ tyajedagrāhyabhāvanām
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ।
भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः
dṛṣṭvāpi śivanaivedye yāṃti pāpāni dūrataḥ |
bhakte tu śivanaivedye puṇyānyā yāṃti koṭiśaḥ
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात्
alaṃ yāgasahasreṇāpyalaṃ yāgārbudairapi |
bhakṣite śivanaivedye śivasāyujyamāpnuyāt
यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते ।
तद्गृहं पावनं सर्वमन्यपावनकारणम्
yadgṛhe śivanaivedyapracāropi prajāyate |
tadgṛhaṃ pāvanaṃ sarvamanyapāvanakāraṇam
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ।
भक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम्
āgataṃ śivanaivedyaṃ gṛhītvā śirasā mudā |
bhakṣaṇīyaṃ prayatnena śivasmaraṇapūrvakam
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ।
विलंबे पापसंबंधो भवत्येव हि मानवे
āgataṃ śivanaivedyamanyadā grāhyamityapi |
vilaṃbe pāpasaṃbaṃdho bhavatyeva hi mānave
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते ।
स पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम्
na yasya śivanaivedyagrahaṇecchā prajāyate |
sa pāpiṣṭho gariṣṭhaḥ syānnarakaṃ yātyapi dhruvam
हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते ।
शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते
hṛdaye candra kānte ca svarṇarūpyādinirmite |
śivadīkṣāvatā bhaktenedaṃ bhakṣyamitīryyate
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् ।
सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम्
śivadīkṣānvito bhakto mahāprasādasaṃjñakam |
sarveṣāmapi liṃgānāṃ naivedyaṃ bhakṣayecchubham
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम् ।
शृणुध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे
anyadīkṣāyujāṃ nṝṇāṃ śivabhaktiratātmanām |
śṛṇudhvaṃ nirṇayaṃ prītyā śivanaivedyabhakṣaṇe
शालग्रामोद्भवे लिंगे रसलिंगे तथा द्विजाः ।
पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते
śālagrāmodbhave liṃge rasaliṃge tathā dvijāḥ |
pāṣāṇe rājate svarṇe surasiddhapratiṣṭhite
काश्मीरे स्फाटिके रात्ने ज्योतिर्लिंगेषु सर्वशः ।
चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम्
kāśmīre sphāṭike rātne jyotirliṃgeṣu sarvaśaḥ |
cāndrāyaṇasamaṃ proktaṃ śaṃbhornaivedyabhakṣaṇam
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति
brahmahāpi śucirbhūtvā nirmālyaṃ yastu dhārayet |
bhakṣayitvā drutaṃ tasya sarvapāpaṃ praṇaśyati
चंडाधिकारो यत्रास्ति तद्भोक्तव्यं न मानवैः ।
चंडाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः
caṃḍādhikāro yatrāsti tadbhoktavyaṃ na mānavaiḥ |
caṃḍādhikāro no yatra bhoktavyaṃ tacca bhaktitaḥ
बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि ।
प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत्
bāṇaliṃge ca lauhe ca siddhe liṃge svayaṃbhuvi |
pratimāsu ca sarvāsu na caṃḍodhikṛto bhavet
स्नापयित्वा विधानेन यो लिंगस्नापनोदकम् ।
त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति
snāpayitvā vidhānena yo liṃgasnāpanodakam |
triḥpibettrividhaṃ pāpaṃ tasyehāśu vinaśyati
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलासंगात्सर्वं याति पवित्रिताम्
agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam |
śālagrāmaśilāsaṃgātsarvaṃ yāti pavitritām
लिंगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः ।
सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः
liṃgopari ca yaddravyaṃ tadagrāhyaṃ munīśvarāḥ |
supavitraṃ ca tajjñeyaṃ yalliṃgasparśabāhyataḥ
नैवेद्यनिर्णयः प्रोक्तं इत्थं वो मुनिसत्तमाः ।
शृणुध्वं बिल्वमाहात्म्यं सावधानतयाऽदरात्
naivedyanirṇayaḥ proktaṃ itthaṃ vo munisattamāḥ |
śṛṇudhvaṃ bilvamāhātmyaṃ sāvadhānatayā'darāt
महादेवस्वरूपोयं बिल्वो देवैरपि स्तुतिः ।
यथाकथंचिदेतस्य महिमा ज्ञायते कथम्
mahādevasvarūpoyaṃ bilvo devairapi stutiḥ |
yathākathaṃcidetasya mahimā jñāyate katham
पुण्यतीर्थानि यावंति लोकेषु प्रथितान्यपि ।
तानि सर्वाणि तीर्थानिबिल्वमूलेव संति हि
puṇyatīrthāni yāvaṃti lokeṣu prathitānyapi |
tāni sarvāṇi tīrthānibilvamūleva saṃti hi
बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ।
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम्
bilvamūle mahādevaṃ liṃgarūpiṇamavyayam |
yaḥ pūjayati puṇyātmā sa śivaṃ prāpnuyāddhruvam
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति ।
स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः
bilvamūle jalairyastu mūrddhānamabhiṣiṃcati |
sa sarvatīrthasnātaḥ syātsa eva bhuvi pāvanaḥ
एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ।
जलाकुलं महादेवो दृष्ट्वा तुष्टोभवत्यलम्
etasya bilvamūlasyāthālavālamanuttamam |
jalākulaṃ mahādevo dṛṣṭvā tuṣṭobhavatyalam
पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः ।
शिवलोकमवाप्नोति संततिर्वर्द्धते सुखम्
pūjayedbilvamūlaṃ yo gaṃdhapuṣpādibhirnaraḥ |
śivalokamavāpnoti saṃtatirvarddhate sukham
बिल्वमूले दीपमालां यः कल्पयति सादरम् ।
स तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत्
bilvamūle dīpamālāṃ yaḥ kalpayati sādaram |
sa tattvajñānasaṃpanno maheśāṃtargato bhavet
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।
गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते
bilvaśākhāṃ samādāya hastena navapallavam |
gṛhītvā pūjayedbilvaṃ sa ca pāpaiḥ pramucyate
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते
bilvamūle śivarataṃ bhojayedyastu bhaktitaḥ |
ekaṃ vā koṭiguṇitaṃ tasya puṇyaṃ prajāyate
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ।
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते
bilvamūle kṣīramuktamannamājyena saṃyutam |
yo dadyācchivabhaktāya sa daridro na jāyate
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ।
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः
sāṃgopāṃgamiti proktaṃ śivaliṃgaprapūjanam |
pravṛttānāṃ nivṛttānāṃ bhedato dvividhaṃ dvijāḥ
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत्
pravṛttānāṃ pīṭhapūjāṃ sarvapūjāṃ samācaret
अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ।
पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे
abhiṣekānte naivedyaṃ śālyannena samācaret |
pūjānte sthāpayelliṃgaṃ puṭe śuddhe pṛthaggṛhe
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ।
निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते
karapūjānivṛttānāṃ svabhojyaṃ tu nivedayet |
nivṛttānāṃ paraṃ sūkṣmaṃ liṃgameva viśiṣyate
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ।
पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा
vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet |
pūjāṃ kṛtvā tathā liṃgaṃ śirasādhārayetsadā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)