विद्येश्वर संहिता

अध्याय 21: हर कामना के लिए पार्थिव लिंगों की संख्या

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः ॥

56 श्लोक · 21 में से 25

इस अध्याय में क्या होता है

हर कामना के लिए पार्थिव लिंगों की संख्या

ऋषि पूछते हैं कि हर कामना के लिए कितने पार्थिव लिंग पूजे जाएँ। सूत संख्या बताते हैं: विद्या के लिए एक सहस्र, धन के लिए पाँच सौ, पुत्र के लिए डेढ़ सहस्र, मोक्ष के लिए एक करोड़, और भूमि, कारागार से छुटकारे, राजा के कोप या चोरों से रक्षा के लिए, तथा शत्रु के वशीकरण, उच्चाटन और मारण के प्रयोगों के लिए भी नियत संख्या। दस हज़ार लिंग दरिद्रता हरते और सब कामनाएँ देते हैं। हर वर्ण, प्रतिलोमज और स्त्रियाँ भी लिंग-पूजा की अधिकारी हैं; द्विज वैदिक मन्त्रों से पूजें। उपासक शिव की आठ मूर्तियों, पृथ्वी, जल, अग्नि, वायु, आकाश, सूर्य, चन्द्र और यजमान, तथा उनके परिवार, नन्दी, चण्ड, स्कन्द, वीरभद्र और ग्यारह रुद्रों की पूजा करे। भस्म, रुद्राक्ष और बिल्व के बिना पूजा न हो।

ऋषय ऊचुः

21.1

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।
सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम्

sūta sūta mahābhāga vyāsaśiṣya namostu te |
samyaguktaṃ tvayā tāta pārthivārcāvidhānakam

21.2

कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ।
शिवपार्थिवलिंगानां कृपया दीनवत्सल

kāmanābhedamāśritya saṃkhyāṃ brūhi vidhānataḥ |
śivapārthivaliṃgānāṃ kṛpayā dīnavatsala

सूत उवाच

21.3

शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ।
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः

śṛṇudhvamṛṣayaḥ sarve pārthivārcāvidhānakam |
yasyānuṣṭhānamātreṇa kṛtakṛtyo bhavennaraḥ

21.4

अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा दमदानादिकं वृथा

akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet |
vṛthā bhavati sā pūjā damadānādikaṃ vṛthā

21.5

संख्या पार्थिवलिंगानां यथाकामं निगद्यते ।
संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा

saṃkhyā pārthivaliṃgānāṃ yathākāmaṃ nigadyate |
saṃkhyā sadyo muniśreṣṭha niścayena phalapradā

21.6

प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ।
लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक्

prathamāvāhanaṃ tatra pratiṣṭhā pūjanaṃ pṛthak |
liṃgākāraṃ samaṃ tatra sarvaṃ jñeyaṃ pṛthakpṛthak

21.7

विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ।
पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम्

vidyārthī puruṣaḥ prītyā sahasramitapārthivam |
pūjayecchivaliṃgaṃ hi niścayāttatphalapradam

21.8

नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ।
पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम्

naraḥ pārthivaliṃgānāṃ dhanārthī ca tadarddhakam |
putrārthī sārddhasāhasraṃ vastrārthī śatapaṃcakram

21.9

मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ।
दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम्

mokṣārthī koṭiguṇitaṃ bhūkāmaśca sahasrakam |
dayārthī ca trisāhasraṃ tīrthārthī dvisahasrakam

21.10

सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ।
मारणार्थी सप्तशतं मोहनार्थी शताष्टकम्

suhṛtkāmī trisāhasraṃ vaśyārthī śatamaṣṭakam |
māraṇārthī saptaśataṃ mohanārthī śatāṣṭakam

21.11

उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ।
स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम्

uccāṭanaparaścaiva sahasraṃ ca yathoktataḥ |
staṃbhanārthī sahasraṃ tu dveṣaṇārthī tadarddhakam

21.12

निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ।
महाराजभये पंचशतं ज्ञेयं विचक्षणैः

nigaḍānmuktikāmastu sahasraṃ sarddhamuttamam |
mahārājabhaye paṃcaśataṃ jñeyaṃ vicakṣaṇaiḥ

21.13

चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ।
डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम्

caurādisaṃkaṭe jñeyaṃ pārthivānāṃ śatadvayam |
ḍākinyādibhaye paṃcaśatamuktaṃ japārthivam

21.14

दारिद्र ये पंचसाहस्रमयुतं सर्वकामदम् ।
अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः

dāridra ye paṃcasāhasramayutaṃ sarvakāmadam |
atha nityavidhiṃ vakṣye śṛṇudhvaṃ munisattamāḥ

21.15

एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ।
त्रिलिंगं सर्वकामानां कारणं परमीरितम्

ekaṃ pāpaharaṃ proktaṃ dviliṃgaṃ cārthasiddhidam |
triliṃgaṃ sarvakāmānāṃ kāraṇaṃ paramīritam

21.16

उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ।
मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः

uttarottaramevaṃ syātpūrvoktagaṇanāvidhi |
matāṃtaramatho vakṣye saṃkhyāyāṃ munibhedataḥ

21.17

लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ।
निर्भयो हि भवेन्नूनं महाराजभयं हरेत्

liṃgānāmayutaṃ kṛtvā pārthivānāṃ subuddhimān |
nirbhayo hi bhavennūnaṃ mahārājabhayaṃ haret

21.18

कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ।
डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा

kārāgṛhādimuktyarthamayutaṃ kārayedbudhaḥ |
ḍākinyādibhaye saptasahasraṃ kārayettathā

21.19

सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ।
लिंगानामयुतेनैव कन्यकासंततिं लभेत्

sahasrāṇi paṃcapaṃcāśadaputraḥ prakārayet |
liṃgānāmayutenaiva kanyakāsaṃtatiṃ labhet

21.20

लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ।
लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात्

liṃgānāmayutenaiva viṣṇvādaiśvaryamāpnuyāt |
liṃgānāṃ prayutenaiva hyatulāṃ śriyamāpnuyāt

21.21

कोटिमेकां तु लिंगानां यः करोति नरो भुवि ।
शिव एव भवेत्सोपि नात्र कार्य्या विचारणा

koṭimekāṃ tu liṃgānāṃ yaḥ karoti naro bhuvi |
śiva eva bhavetsopi nātra kāryyā vicāraṇā

21.22

अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ।
भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम्

arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā |
bhuktidā muktidā nityaṃ tataḥ kāmarthināṃ nṛṇām

21.23

विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ।
महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः

vinā liṃgārcanaṃ yasya kālo gacchati nityaśaḥ |
mahāhānirbhavettasya durvṛttasya durātmanaḥ

21.24

एकतः सर्वदानानि व्रतानि विविधानि च ।
तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता

ekataḥ sarvadānāni vratāni vividhāni ca |
tīrthāni niyamā yajñā liṃgārcā caikataḥ smṛtā

21.25

कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ।
तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः

kalau liṃgārcanaṃ śreṣṭhaṃ tathā loke pradṛśyate |
tathā nāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ

21.26

भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ।
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात्

bhuktimuktipradaṃ liṃgaṃ vividhāpannivāraṇam |
pūjayitvā naro nityaṃ śivasāyujyamāpnuyāt

21.27

शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ।
यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः

śivānāmamayaṃ liṃgaṃ nityaṃ pūjyaṃ maharṣibhiḥ |
yataśca sarvaliṃgeṣu tasmātpūjyaṃ vidhānataḥ

21.28

उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ।
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम्

uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam |
mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham

21.29

चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ।
उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः

caturaṃgulamucchrāyaṃ ramyaṃ vedikayā yutam |
uttamaṃ liṃgamākhyātaṃ munibhiḥ śāstrakovidaiḥ

21.30

तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ।
इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम्

tadarddhaṃ madhyamaṃ proktaṃ tadarddhamaghamaṃ smṛtam |
itthaṃ trividhamākhyātamuttarottarataḥ param

21.31

अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ।
पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान्

anekaliṃgaṃ yo nityaṃ bhaktiśraddhāsamanvitaḥ |
pūjayetsa labhetkāmānmanasā mānasepsitān

21.32

न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ।
विद्यते सर्वशास्त्राणामेष एव विनिश्चयः

na liṃgārādhanādanyatpuṇyaṃ vedacatuṣṭaye |
vidyate sarvaśāstrāṇāmeṣa eva viniścayaḥ

21.33

सर्वमेतत्परित्यज्य कर्मजालमशेषतः ।
भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत्

sarvametatparityajya karmajālamaśeṣataḥ |
bhaktyā paramayā vidvām̐ lliṃgamekaṃ prapūjayet

21.34

लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ।
संसारांबुधिमग्नानां नान्यत्तारणसाधनम्

liṃgercitercitaṃ sarvaṃ jagatsthāvarajaṃgamam |
saṃsārāṃbudhimagnānāṃ nānyattāraṇasādhanam

21.35

अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ।
प्लवो नान्योस्ति जगति लिंगाराधनमंतरा

ajñānatimirāṃdhānāṃ viṣayāsaktacetasām |
plavo nānyosti jagati liṃgārādhanamaṃtarā

21.36

हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ।
गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा

haribrahmādayo devā munayo yakṣarākṣasāḥ |
gaṃdharvāścaraṇāssiddhā daiteyā dānavāstathā

21.37

नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ।
सप्रजापतयश्चान्ये मनवः किन्नरा नराः

nāgāḥ śeṣaprabhṛtayo garuḍādyāḥkhagāstathā |
saprajāpatayaścānye manavaḥ kinnarā narāḥ

21.38

पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ।
प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान्

pūjayitvā mahābhaktyā liṃgaṃ sarvārthasiddhidam |
prāptāḥ kāmānabhīṣṭāṃśca tāṃstānsarvānhṛdi sthitān

21.39

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।
पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम्

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā pratilomajaḥ |
pūjayetsatataṃ liṃgaṃ tattanmaṃtreṇa sādaram

21.40

किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ।
अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः

kiṃ bahūktena munayaḥ strīṇāmapi tathānyataḥ |
adhikārosti sarveṣāṃ śivaliṃgārcane dvijāḥ

21.41

द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ।
अन्येषामपि जंतूनां वैदिकेन न संमतम्

dvijānāṃ vaidikenāpi mārgeṇārādhanaṃ varam |
anyeṣāmapi jaṃtūnāṃ vaidikena na saṃmatam

21.42

वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ।
कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः

vaidikānāṃ dvijānāṃ ca pūjā vaidikamārgataḥ |
kartavyānānyamārgeṇa ityāha bhagavāñchivaḥ

21.43

दधीचिगौतमादीनां शापेनादग्धचेतसाम् ।
द्विजानां जायते श्रद्धानैव वैदिककर्मणि

dadhīcigautamādīnāṃ śāpenādagdhacetasām |
dvijānāṃ jāyate śraddhānaiva vaidikakarmaṇi

21.44

यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ।
अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत्

yo vaidikamanādṛtya karma smārtamathāpi vā |
anyatsamācarenmartyo na saṃkalpaphalaṃ labhet

21.45

इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ।
पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः

itthaṃ kṛtvārcanaṃ śaṃbhornaivedyāṃtaṃ vidhānataḥ |
pūjayedaṣṭamūrtīśca tatraiva trijaganmayīḥ

21.46

क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ।
यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः

kṣitirāponalo vāyurākāśaḥ sūryyasomakau |
yajamāna iti tvaṣṭau mūrtayaḥ parikīrtitāḥ

21.47

शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः ।
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत्

śarvo bhavaśca rudra śca ugrobhīma itīśvaraḥ |
mahādevaḥ paśupatiretānmūrtibhirarcayet

21.48

पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ।
ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः

pūjayetparivāraṃ ca tataḥ śaṃbhoḥ subhaktitaḥ |
īśānādikramāttatra caṃdanākṣatapatrakaiḥ

21.49

ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ।
वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात्

īśānaṃ naṃdinaṃ caṃḍaṃ mahākālaṃ ca bhṛṃgiṇam |
vṛṣaṃ skaṃdaṃ kapardīśaṃ somaṃ śukraṃ ca tatkramāt

21.50

अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ।
तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः

agrato vīrabhadraṃ ca pṛṣṭhe kīrtimukhaṃ tathā |
tata ekādaśānrudrā npūjayedvidhinā tataḥ

21.51

ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च ।
स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा

tataḥ paṃcākṣaraṃ japtvā śatarudri yameva ca |
stutīrnānāvidhāḥ kṛtvā paṃcāṃgapaṭhanaṃ tathā

21.52

ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ।
इति प्रोक्तमशेषं च शिवपूजनमादरात्

tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet |
iti proktamaśeṣaṃ ca śivapūjanamādarāt

21.53

रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि ।
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः

rātrāvudaṇmukhaḥ kuryāddevakāryaṃ sadaiva hi |
śivārcanaṃ sadāpyevaṃ śuciḥ kuryādudaṇmukhaḥ

21.54

न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ।
न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत्

na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān |
na pratīcīṃ yataḥ pṛṣṭhamato grāhyaṃ samāśrayet

21.55

विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।
बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः

vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā |
bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ

21.56

भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ।
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम्

bhasmāprāptau muniśreṣṭhāḥ pravṛtte śivapūjane |
tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṃḍrakam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)