युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ।
अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद
yugāvarteṣu sarveṣu yogācāryacchalena tu |
avatārānhi śarvasya śiṣyāṃśca bhagavanvada
इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः ॥
28 श्लोक · 9 में से 41
श्रीकृष्ण योगाचार्य रूप में शिव के अवतारों के नाम पूछते हैं। उपमन्यु इस वाराह कल्प के सातवें मन्वन्तर के अट्ठाईस योगाचार्य गिनाते हैं, जो श्वेत, सुतार, मदन, सुहोत्र और कंक से आरम्भ होकर सोमशर्मा और लकुलीश्वर पर पूरे होते हैं। प्रत्येक के चार शान्तचित्त शिष्य थे, कुल एक सौ बारह। उनमें सनत्कुमार, सनक, सनन्दन, सनातन, कपिल, आसुरि, पंचशिख, पराशर, गर्ग, वसिष्ठ, जैमिनि, अक्षपाद और कणाद हैं। सब पाशुपत सिद्ध हैं, शरीर पर भस्म, रुद्राक्ष और त्रिपुण्ड्र धारण करते हैं, फल-मूल खाते हैं, प्राणायाम और शिव-ध्यान में रत रहते हैं, आसक्ति से मुक्त और सब प्राणियों के हितैषी हैं। जो इन्हें सद्गुरु मानकर शिव की पूजा करता है, वह शिव-सायुज्य पाता है।
कृष्ण उवाच
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ।
अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद
yugāvarteṣu sarveṣu yogācāryacchalena tu |
avatārānhi śarvasya śiṣyāṃśca bhagavanvada
उपमन्युरुवाच
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ।
लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च
śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca |
laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ।
सुपालको गौतमश्च तथा वेदशिरा मुनिः
dadhivāhaśca ṛṣabho munirugro 'trireva ca |
supālako gautamaśca tathā vedaśirā muniḥ
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ।
जटामाली चाट्टहासो दारुको लांगुली तथा
gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ |
jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā
महाकालश्च शूली च डंडी मुण्डीश एव च ।
सविष्णुस्सोमशर्मा च लकुलीश्वर एव च
mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca |
saviṣṇussomaśarmā ca lakulīśvara eva ca
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ।
अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात्
ete vārāha kalpe 'sminsaptamasyāṃtaro manoḥ |
aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ।
श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम्
śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ |
śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।
दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा
śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ |
dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā
विकोशश्च विकेशश्च विपाशः पाशनाशनः ।
सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः
vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ |
sumukho durmukhaścaiva durgamo duratikramaḥ
सनत्कुमारस्सनकः सनंदश्च सनातनः ।
सुधामा विरजाश्चैव शंखश्चांडज एव च
sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ |
sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ।
कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च
sārasvataśca meghaśca meghavāhassuvāhakaḥ |
kapilaścāsuriḥ pañcaśikho bāṣkala eva ca
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ।
बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः
parāśarāśca gargaśca bhārgavaścāṃgirāstathā |
balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ।
सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च
laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ |
sarvajñassamabuddhiśca sādhyasiddhistathaiva ca
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ।
अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः
sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā |
atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ |
kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ।
वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः
utathyo vāmadevaśca mahākālo mahā 'nilaḥ |
vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā |
sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ।
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च
plakṣo dārbhāyaṇiścaiva ketumāngautamastathā |
bhallavī madhupiṃgaśca śvetaketustathaiva ca
उशिजो बृहदश्वश्च देवलः कविरेव च ।
शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः
uśijo bṛhadaśvaśca devalaḥ kavireva ca |
śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ
अक्षपादः कणादश्च उलूको वत्स एव च ।
कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च
akṣapādaḥ kaṇādaśca ulūko vatsa eva ca |
kulikaścaiva gargaśca mitrako ruṣya eva ca
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ।
संख्या च शतमेतेषां सह द्वादशसंख्यया
ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ |
saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ।
सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः
sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ |
sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ।
सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः
śivāśramaratāssarve śivajñānaparāyaṇāḥ |
sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ।
ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः
sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ |
ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ।
शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः
rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ |
śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ
फलमूलाशनप्रायाः प्राणायामपरायणाः ।
शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः
phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ |
śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ।
प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति
samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ |
prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ।
स याति शिवसायुज्यं नात्र कार्या विचारणा
sadeśikānimānmatvā nityaṃ yaśśivamarcayet |
sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)